Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
5
१५. वीरसूरिचरितम् । तेनाकार्यानुयुक्तोऽथाभिज्ञानं पुनराह च । चतुर्विंशतिसंख्यानां स्वभावाख्यानतोऽर्हताम् ॥ १२८ ॥
तथा हिबे धउला बे सामला बे रत्तुप्पलवन्न । मरगयवन्ना विन्नि जिण सोलस कंचणवन्न ॥ १३९॥ नियनियमाणिहिं कारविय भरहिं जि नयणाणंद ।
ते मई भाविहिं वंदिया ए चउवीस जिणंद ॥ १३०॥ राजाह स्वेष्टदेवानां स्वरूपकथने वरा । नास्ति प्रतीतिरस्माकमन्यत् किमपि कथ्यताम् ॥ १३१ ॥ अक्षतान् दर्शयामास 'निःसामान्यगुणोदयान् । वर्णैः सौरभविस्तारैरपूर्वान् मानवबजे ॥ १३२ ।। ते द्वादशाङ्गुलायामा अङ्गुलं पिण्डविस्तरे । अवेष्ट्यन्त सुवर्णेन महीपालेन ते ततः ॥ १३३ ॥ पूर्वं तु रुष्क भङ्ग स्य तेऽभूवंस्तदुपाश्रये । अपूज्यन्त च सोनाष्टापदप्रतिबिम्बवत् ॥ १३४ ॥ 10
एवं चातिशयैः सम्यक् सामान्यजनदुस्तरैः । श्रीमान् वीरगणिः सूरिर्विश्वपूज्यस्तदाऽभवत् ॥ १३५ ॥ ६७. अन्यदा मत्रिणं वीरं रहः प्राह महीपतिः । पूर्वादिष्टक्रमान्न्याय्याद् राज्यं पालयतो मम ॥ १३६ ॥
सुमनोमण्डलाश्रेयो वचःसिद्धिकुलालयः । वीरो गुरुश्च मत्री च ममार्तीन्दुविधुन्तुदः ॥ १३७ ॥ एकश्चिन्ताज्वरोऽस्माकं 'महाबाधानिबन्धनम् । श्रुत्वा प्रतिविधेहीदं कस्याग्रेऽन्यस्य कथ्यते ॥ १३८ ॥ अथाह वीरमबीशः स्वामिन्नादिश्यतां मम । क्रियते भ्रत्यलेशेन किं मयाऽन्यदधीशितः॥ १३९॥ राजाह मम शुद्धान्तकान्तानां सम्भवे सति । स्रावो भवति गर्भस्य तत्र प्रतिविधिं कुरु ॥ १४०॥ इत्यादिष्टो महामात्यः श्रीमद्वीरप्रभोः पुरः । व्यजिज्ञपत् ततः सूरिमूरीकृत्य स चाब्रवीत् ॥ १४१ ॥ अभिमश्रितवासैर्मे क्रियतामभिषेचनम् । अवरोधपुरन्ध्रीणां प्रजायन्ते सुता यथा ॥ १४२॥
एवं च विहिते मत्रिप्रभुणा वचने गुरोः । श्रीमद्वल्लभराजाद्या नरेन्द्रस्याभवन् सुताः ।। १४३ ॥ ६८. अष्टादशशतीदेशे विहरन्नन्यदा प्रभुः । अगादुंबरिणीग्रामे ग्राम्येतरनरान्विते ॥ १४४ ॥ 20 विशुद्धोपाश्रये तत्र स्थितो गत्वा निशागमे । व्युत्सर्गाय बहिःप्रेतवनमाशिश्रिये मुदा ॥ १४५॥ परमारवराम्नायसद्वताकरहीरकः । रुद्राभिधः स तं दृष्ट्वा नमश्चक्रेऽतिभक्तितः ॥ १४६॥ उवाच च मुने ! मास्थाः श्वापदब्रजसंकुले । श्मशाने ग्राममध्ये न आगच्छ प्रासुकाश्रये ॥ १४७ ॥ तिष्ठ सौख्यात् तदाकर्ण्य मुनिः प्राह गुरोः सदा । कायोत्सर्गे बहिः पृथ्व्यां कुर्वन्ति प्रभवस्ततः (१)॥१४८॥ आधेया नाधृती राजपुत्र ! श्रुत्वेति सोऽगमत् । निजं धाम ततस्तस्य जंबूपायनमागमत् ॥ १४९ ।। 25 स सिस्वादयिषुर्जबूफलान्यत्रोटयत् तदा । वृन्तं तत्र कृमि दृष्ट्वा शूकया' धूनयन् शिरः ॥ १५०॥ जगाद कृमयः सूक्ष्माः फलेष्वपि यदाऽभवन् । अदृष्टं किमिव स्वाद्यं निशादौ हि विवेकिना ॥ १५१ ।। आहूय ब्राह्मणैः पृष्टैः प्रायश्चित्तं प्रदेशितम् । विशुद्धये द्विजन्मभ्यो देयः स्वर्णमयः कृमिः ॥ १५२ ॥ दध्यौ श्रुत्वेति संकल्प्य द्वितीयोऽपि कृमिर्मया। हन्तव्यो नावगच्छामि ततो धर्मममुं हृदि ॥ १५३॥ प्रष्टव्यश्च विचारोऽयं कस्यापि शमिनो मुनेः । प्रातजैनमुनिं ग्राममध्यमागतमानमत् ॥ १५४॥ 30 ततः पप्रच्छ सन्देहं गुरुर्विस्तरतोऽवदत् । जीवाः सर्वत्र तिष्ठन्ति द्विधा स्थावरजङ्गमाः॥ १५५ ॥ स्थावरास्ते धरा-नीर-वहि-वात-महीरुहः । जङ्गमाश्च परिज्ञेयास्ते द्वि-त्रि-चतुरिन्द्रियाः ॥ १५६ ।। पञ्चेन्द्रियाः सुरास्तिर्यमरनैरयिका अपि । गजमीनमयूराद्याः स्थलनीलाम्बरोपगाः ॥ १५७ ॥ वनस्पतिस्तथा जीवाधारो मूलफलादिके । उत्पद्यन्ते विपद्यन्ते यज्जीवास्तत्र भूरिशः ॥ १५८ ॥
1 N तैः सामा। 2 D महद् । 8 N नास्य । 4 N D राजपुत्रः । 5 N शंकया । 6 N भवेत् ।
Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252