Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 124
________________ १०१ ११. बप्पभट्टिसूरिचरितम् । उवाच चवर्क पूर्णशशी सुधाऽधरलता दन्ता मणिश्रेणयः कान्तिः श्रीगमनं गजः परिमलस्ते पारिजातद्रुमाः। वाणी कामदुघा कटाक्षलहरी तत्कालकूटं विषं तत्किं चन्द्रमुखि ! त्वदर्थममरैरामन्थि दुग्धोदधिः ॥ ५२० ॥ अन्तश्चरेभ्यो विज्ञातवृत्तान्तः सूरिरप्यथ । दध्यौ स सादिनो दोषो यदश्वो विपथं व्रजेत् ॥ ५२१ ।। आमभूपे विमार्गस्थे विश्वप्रकृतिषु ध्रुवम् । अपकीर्तिः कलङ्कोऽयं ममैवासञ्जति स्फुटः ॥ ५२२ ॥ तदुपायाद् विनेयोऽसाविति ध्यात्वा बहिर्गृहे । ययौ विलोकनव्याजात् कामार्तेरौषधं स्मरन् ॥ ५२३ ॥ नव्येषु पट्टशालायाः पट्टेषु खटिनीदलैः । काव्यानि व्यलिखद् बोधबन्धुराणि ततो गुरुः ॥५२४॥-युग्मम् । तथाहिशैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां व्रजन्ति' शुचयः सङ्गेन यस्यापरे । किं चातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निषेद्धं क्षमः ॥ ५२५॥ सद्वृत्त सद्गुण महार्य महार्ह कान्त कान्ताघनस्तनतटोचितचारुमूर्तिः। 15 आ: पामरीकठिनकण्ठविलग्नभग्न हा हार ! हारितमहो भवता गुणित्वम् ॥२६॥ उप्पहजायाऍ असोहरीइ फलकुसुमपत्तरहियाए। बोरी. वह दितो भो भो पामर न लजिहिसि ॥ ५२७॥ मायंगासत्तमणस्स मेइणि तह य भुंजमाणस्स। अभिडइ तुज्झ ना या व लोय को नदृधम्मस्स ॥ ५२८॥ 20 लजिजइ जेणि जणे मइलिजा नियकुलक्कमो जेण । कंठढिएहि जीवे मा सुंदर तं कुणिज्जासु ॥ ५२९ ॥ जीयं जलबिंदुसमं संपत्तीओं तरंगलोलाओ। सिविणयसमं च पिम्मं जं जाणह तं करिजासु ॥५३०॥ लिखित्वा स्वाश्रयं प्राप बप्पभडिप्रभुर्मुदा । द्वितीयेऽहनि भूपोऽपि तत्सम प्रेक्षितुं ययौ ॥ ५३१ ॥ 25 यच्च काव्यानि हल्लखीनि यथा यथा। तथा तथा भ्रमोऽनेशद् दुग्धाद्धत्तरमोहवत् ।। ५३२ ॥ अथान्वतप्यत श्रीमानामः श्याममुखाम्बुजः । व्यमृशच विना मित्रं कोऽन्य एवं हि बोधयेत् ॥५३३॥ इदानीमहमप्रेक्ष्यं स्वमास्यं दर्शये कथम् । तस्य व्यथाकरं विश्वप्राणिनां दोषकारणम् ॥ ५३४॥ सांप्रतं मे बृहद्भानुरेव शुद्धिं विधास्यति । कलङ्कपङ्किलं त्याज्यमेवास्माकं हि जीवितम् ॥ ५३५ ॥ इति ध्यात्वा स तत्रैवादिशत् प्रेष्यांश्चिताकृते । अनिच्छन्तोऽपि भूपालादेशं तत्र व्यधुर्बलात् ॥ ५३६ ॥ 30 राजलोक इदं ज्ञात्वा पूच्चक्रे करुणखरम् । राजमित्रगुरोरग्रे ततोऽसौ तत्र जग्मिवान् ॥ ५३७ ॥ उवाचाथ गुरुभूप! प्रारब्धं स्त्रीजनोचितम् । किमिदं विदुषां निन्द्यं ततो राजाह तत्पुरः ॥ ५३८ ॥ मम प्रच्छन्नपापस्य मालिन्ये मनसा कृते । स्वदेहत्याग एवास्तु दण्डो दुष्कृतनाशनः ॥ ५३९॥ 1A भवन्ति। 2N °पदेन । 3 A तच्छद्म। 4 BN प्रेषितुं। 5 BN वाक्यानि । 6A विमृशच। 7 BN वेनासो।

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252