________________
१०१
११. बप्पभट्टिसूरिचरितम् ।
उवाच चवर्क पूर्णशशी सुधाऽधरलता दन्ता मणिश्रेणयः कान्तिः श्रीगमनं गजः परिमलस्ते पारिजातद्रुमाः। वाणी कामदुघा कटाक्षलहरी तत्कालकूटं विषं
तत्किं चन्द्रमुखि ! त्वदर्थममरैरामन्थि दुग्धोदधिः ॥ ५२० ॥ अन्तश्चरेभ्यो विज्ञातवृत्तान्तः सूरिरप्यथ । दध्यौ स सादिनो दोषो यदश्वो विपथं व्रजेत् ॥ ५२१ ।। आमभूपे विमार्गस्थे विश्वप्रकृतिषु ध्रुवम् । अपकीर्तिः कलङ्कोऽयं ममैवासञ्जति स्फुटः ॥ ५२२ ॥ तदुपायाद् विनेयोऽसाविति ध्यात्वा बहिर्गृहे । ययौ विलोकनव्याजात् कामार्तेरौषधं स्मरन् ॥ ५२३ ॥ नव्येषु पट्टशालायाः पट्टेषु खटिनीदलैः । काव्यानि व्यलिखद् बोधबन्धुराणि ततो गुरुः ॥५२४॥-युग्मम् ।
तथाहिशैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता
किं ब्रूमः शुचितां व्रजन्ति' शुचयः सङ्गेन यस्यापरे । किं चातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां
त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निषेद्धं क्षमः ॥ ५२५॥ सद्वृत्त सद्गुण महार्य महार्ह कान्त कान्ताघनस्तनतटोचितचारुमूर्तिः। 15 आ: पामरीकठिनकण्ठविलग्नभग्न हा हार ! हारितमहो भवता गुणित्वम् ॥२६॥
उप्पहजायाऍ असोहरीइ फलकुसुमपत्तरहियाए। बोरी. वह दितो भो भो पामर न लजिहिसि ॥ ५२७॥ मायंगासत्तमणस्स मेइणि तह य भुंजमाणस्स। अभिडइ तुज्झ ना या व लोय को नदृधम्मस्स ॥ ५२८॥
20 लजिजइ जेणि जणे मइलिजा नियकुलक्कमो जेण । कंठढिएहि जीवे मा सुंदर तं कुणिज्जासु ॥ ५२९ ॥ जीयं जलबिंदुसमं संपत्तीओं तरंगलोलाओ।
सिविणयसमं च पिम्मं जं जाणह तं करिजासु ॥५३०॥ लिखित्वा स्वाश्रयं प्राप बप्पभडिप्रभुर्मुदा । द्वितीयेऽहनि भूपोऽपि तत्सम प्रेक्षितुं ययौ ॥ ५३१ ॥ 25
यच्च काव्यानि हल्लखीनि यथा यथा। तथा तथा भ्रमोऽनेशद् दुग्धाद्धत्तरमोहवत् ।। ५३२ ॥ अथान्वतप्यत श्रीमानामः श्याममुखाम्बुजः । व्यमृशच विना मित्रं कोऽन्य एवं हि बोधयेत् ॥५३३॥ इदानीमहमप्रेक्ष्यं स्वमास्यं दर्शये कथम् । तस्य व्यथाकरं विश्वप्राणिनां दोषकारणम् ॥ ५३४॥ सांप्रतं मे बृहद्भानुरेव शुद्धिं विधास्यति । कलङ्कपङ्किलं त्याज्यमेवास्माकं हि जीवितम् ॥ ५३५ ॥ इति ध्यात्वा स तत्रैवादिशत् प्रेष्यांश्चिताकृते । अनिच्छन्तोऽपि भूपालादेशं तत्र व्यधुर्बलात् ॥ ५३६ ॥ 30 राजलोक इदं ज्ञात्वा पूच्चक्रे करुणखरम् । राजमित्रगुरोरग्रे ततोऽसौ तत्र जग्मिवान् ॥ ५३७ ॥ उवाचाथ गुरुभूप! प्रारब्धं स्त्रीजनोचितम् । किमिदं विदुषां निन्द्यं ततो राजाह तत्पुरः ॥ ५३८ ॥ मम प्रच्छन्नपापस्य मालिन्ये मनसा कृते । स्वदेहत्याग एवास्तु दण्डो दुष्कृतनाशनः ॥ ५३९॥
1A भवन्ति। 2N °पदेन । 3 A तच्छद्म। 4 BN प्रेषितुं। 5 BN वाक्यानि । 6A विमृशच। 7 BN वेनासो।