________________
१००
प्रभावकचरिते
विहितं सन्धिबन्धेन रसाय नन्नसूरिणा । तत्कथां प्रथयन् नृत्यन्नाह प्राकृतरूपकम् ॥ ४९९ ॥-युग्मम् ।
___कश्चणडु सुवियङ्गु गिरि वेयङ्गु वेहावइ । श्रीवप्पभट्टिराहेदमझेनं रूपकद्वयम् । नर्मधर्मेण' तच्चापि नटो व्यावृत्य तत्पुरे ॥ ५०० ॥ आगत्य तथ्यमाचख्यौ नन्नाचार्यकवेः पुरः । नैतद्गम्यमिदं कार्यमिति संचिन्त्य हर्षतः ॥ ५०१ ॥ ततो रूपं परावृत्य स सिद्धगुटिकादिभिः । प्रतस्थे कन्यकुब्जे च सह गोविन्दसूरिणा ॥ ५०२ ॥ प्राप्तोऽथ मिलितो बप्पभद्दे पट्टेश्वरस्य च । राजपर्षदि नृत्यंश्व रसं वीरं वितेनिवान् ॥ ५०३ ॥ तद्ध्यानैकमना भूपश्चकर्ष क्षुरिकां निजाम् । 'मारि मारी'ति शब्देन नदन सिंह इव क्रुधा ॥ ५०४॥ अङ्गरक्षैस्ततो नाट्यमिदमित्थं निवारितः । चैतन्ये 'सङ्गते पश्चात् प्रतिबुद्धो गुरूक्तिभिः ॥ ५०५ ॥
आह गोविन्दसूरिस्तद्भूप! युक्तं कथं कृतम् । केनापि न परं शास्त्ररसः सर्वोऽनुभूयते ।। ५०६ ॥ 10 ततो वात्स्यायने व्याख्यायमाने नन्नसूरिणा । सविकल्पो मनीषी त्वमन्यः को न विकल्पयेत् ॥५०७॥
लजितेन ततो राज्ञा क्षमितौ कोविदाधिपौ । सत्यं तद्वचनं बाढं यदूचे सुहृदा मम ॥ ५०८॥ संयमेन 'सुशीलेन वृत्त्या विद्वत्तया तथा । तद्गुरुभ्रातरौ पूज्यौ भ्रान्ति क्षम्यतामिति ॥ ५०९॥ इत्याकर्ण्य ततः प्रोचे श्रीमद्गोविन्दसूरिणा । तपो न नः कलंक्येत त्वयि वृत्तानि पश्यति ॥ ५१० ॥
यतः15
भवन्तु ते दोषविदः शिवाय विशेषतस्तद्वचनैकनिष्ठाः । येषां 'प्रवादादपवादभीता गुणाजेनोत्साहपरा नराः स्युः॥५११ ।।
तथाजे चारित्तिहिं निम्मला ते पंचायण सीह । विसयकसाइंहिं गंजिया ताहं फुसिज्जइ लीह ॥ ताहं फुसिजइ लीह, इत्थ ते तुल्ल सीआलह । ते पुण विसयपिसायछलिय गय करिणिहिं बालह ॥ ते पंचायण सीह सत्ति उज्जल नियकित्तिहिं ।
ते नियकुलनहयलमयंक निम्मलचारित्तिहिं ॥ ५१२॥ श्रुत्वेति नृपतिस्तोषादुवाच सुहृदं गुरुम् । धन्योऽहमेव यस्याभूद् गुरोः कुलममूदृशम् ॥ ५१३ ॥ राज्ञा ऽवस्थापितौ तत्र दिनान्यथ कियन्त्यपि । आपृच्छय बप्पभडिं तावागतौ स्वभुवं ततः ॥ ५१४ ॥
धर्मव्याख्या सदाख्यानाख्यानप्रश्नोत्तरादिभिः । कियानपि ययौ कालः समुदोः सुहृदोस्तयोः ५१५ ॥ ६१७. आययावन्यदा वृन्दं गायनान्तावसायिनाम् । श्रवःस्वादिमहानादरसनिर्जिततुंबरुः ॥ ५१६॥
तत्रैका किन्नरी साक्षान्मातङ्गी गीतभङ्गिभिः । राजानं रञ्जयामास रूपादपि रसादिभिः॥ ५१७ ॥
प्रवाह्य प्रतिपक्षस्य राज्ञो रागद्विषन् जयी । चित्तवृत्तिमहापुर्यामवस्कन्दं ददौ तदा ॥ ५१८ ॥ 30 वास्तव्यानीन्द्रियाण्यस्य बहिर्भीत्येव निर्ययुः । तैरिव प्रेरितो राजा वासं बहिरचीकरत् ॥ ५१९ ॥
25
1N नर्मवर्मेण । 2N मना भूय चकर्ष । 3 N चैतन्यै संगतः। 4 N लक्षितेन । 5N तु शीलेन । 6N षतस्तेह शिवैकनिष्ठाः। 7 N प्रभावाद। 8 N नृपतिस्तेषामुवाच । 9 N राज्ञाथ स्था।