________________
११. बप्पभट्टिसूरिचरितम् । इति सुचरितैः ख्यातिं बिभ्रच्चिरन्तनभूभृतां
कथमसि न मान्धाता 'देवस्त्रिलोकविजय्यपि ॥ ४६८॥ सन्मानातिशयो राज्ञा विदधे तस्य भूभृतः । गङ्गां गेहागतां को हि पूजयेदलसोऽपि न ॥ ४६९ ॥ मन्यते कृतकृत्यं खं स्वर्गनाथोऽपि वाक्पतिम् । प्राप्य वाक्पतिराजंतु नाधिकोऽद्य किमस्म्यतः ।। ४७०॥ त्यागाद् धर्मस्य माकार्षीर्मनस्यनुशयं सखे ! । यद्गहागतमत्पूजानाधानात् सोऽवमस्थितिः ॥ ४७१ ॥ 5 तवाधीनमिदं राज्यं विचिन्तं सुखमास्व तत् । श्रीबप्पभहेर्मम च तृतीयस्त्वं महामते!॥४७२ ॥ इत्यामराजव्याहारामृतसारपरिप्लुतः । गङ्गोदक इव स्नातः प्रीतिपावित्र्यमाप सः॥४७३ ॥ सहैवोत्थाय तत्रासौ नृपमित्रेण सूरिणा । उपाश्रयमनुप्राप्यातिष्ठत् परमया मुदा ॥ ४७४ ॥ 'गौडवधो 'महुमहविजय'श्चेति तेन च । कृता वाक्पतिराजेन द्विशास्त्री कवितानिधिः ॥ ४७५ ॥ बौद्धकारिततद्वेषापोषके धर्मभूपतौ । सर्वत्र गुणिनः पूज्या गुरुरित्याह तत्पुरः ॥ ४७६ ॥ 10
वृत्तौ कृतं हैमटंकलक्षं तहिगुणीकृतम् । नृपेणासौ महासौख्यात् कालं गमयति स्म सः॥४७७॥-युग्मम् । ६१६. सभायामन्यदा राजा सुखासीनं गुरुं प्रति । प्राह न त्वत्समो विद्वान् स्वर्गेऽपि किमु भूतले ॥४७८॥
गुरुराह पुराऽभूवन् पूर्वं ते जैनशासने । श्रुतज्ञानमहाम्भोधेर्यत्प्रज्ञा पारदृश्वरी ॥ ४७९ ।। शतं सहस्रं लक्षं वा पदानामेकतः पदात् । अधिगच्छन्ति विद्वांसोऽभूवन केऽप्य'धिका अपि ॥४८॥ ऐदंयुगीनकालेऽपि सन्ति प्रज्ञाबलाद्भुताः । येषामहं न चाप्नोमि पादरेणुतुलामपि ॥ ४८१ ॥ 15 अस्मदीयगुरोः शिष्यौ खेटकाधारमंडले । विद्यते नन्नसूरिः श्रीगोविंदसूरिरित्यपि ॥ ४८२ ॥ . यत्पुरो बठरत्वेन तत्र स्थितिमनिच्छतः । शृङ्गाराय भवत्सख्यं विदेशावस्थितेर्मम ।। ४८३ ॥ इति वाचा चमत्कारं धारयन्नब्रवीनृपः । भवद्वचः प्रतीतोऽपि प्रेक्षिष्ये कौतुकं हि तत् ॥ ४८४ ॥ ततो वेषपरावर्त्तप्राप्तो गूर्जरमंडले । पुरे हस्तिजये जैनमन्दिरस्य समीपतः ॥ ४८५ ॥ उपाश्रयस्थितं भव्यकदम्बकनिषेवितम् । राजानमिव सच्छत्रं चामरप्रक्रियान्वितम् ॥ ४८६ ॥ 20 सिंहासनस्थितं श्रीमन्नन्नसूरि समैक्षत । उत्तानहस्तविस्तारसंज्ञयाह किमप्यथ ॥ ४८७ ॥ एतद्विलोक्याचार्योऽपि मध्यमातर्जनीद्वयम् । पुरस्तस्य वितस्तार शृङ्गाकारेण तत्र च ॥ ४८८ ॥ इत्युत्थाय गते तत्र जनैः पृष्टमिदं किमु । ततः प्रापश्चयत् सूरिः कोऽपि विद्वानसौ पुमान् ॥ ४८९ ।। पृच्छति स्म यतीनां किं राज्यलीला ततो मया । इत्युत्तरं ददौ शृङ्गे भवतो भूपतेः किमु ॥ ४९० ॥ निविष्टमन्यदा चैत्ये शास्त्रं वा त्स्या य ना भिधम् । व्याख्यातं प्रेक्ष्य तं भूपो नमस्कृत्य जिनं ययौ ॥ ४९१ ॥ 25 ननाम न गुरुं का म शास्त्र व्याख्यानतः स च । विद्वानेष न चारित्री गुरुरित्थं विकल्पितः ॥ ४९२ ॥ परिज्ञातेऽथ तत्तत्त्वे खेदं दध्रे स कोविदः । धिग्वैदग्ध्यं हि नो निर्यदपकीर्तिकलङ्कितम् ॥ ४९३ ॥ श्रीगोविन्दः शशासैनं खिद्यसे किं वचः शृणु । आमभूपतिरेवायं गुप्तो नापर ईदृशः ॥ ४९४ ॥ ततः किंचिद्धर्मशास्त्रं विधायातिरसोज्वलम् । पार्थान्नटस्य कस्यापि बप्पभट्टिप्रभोः पुरः॥ ४९५ ।। प्रेषयैतद् यथातथ्यं चाभिनायति तत्पुरः । तत्रापररसावेशं सोऽनुभूय "प्रभोक्षते (?)॥ ४९६ ॥ 30 तथेति प्रतिपद्याथ कृत्वा तच्च नटोत्तमान् । प्रेषयच्छिक्षितान् सम्यक् "प्रायादामपुरं च सः॥ ४९७ ॥ अमिलद् बप्पभद्देश्च तेन राज्ञोऽध दर्शितः । आदितीर्थकृतो वृत्तमभिनिन्ये स नूतनम् ॥ ४९८॥
1A देवत्रि। 2 A भूभृता। 3 BN विचित्य । 4 N गौडबन्धो भद्रमहीविजय। 5A कथिताविधिः। 6 N अवगच्छति । 7'N केथाधि। 8 B भवचं प्रतीतेऽपि। 9N यतो। 10A B विकल्पतः। 11 A प्रभोः पुरः, B प्रभोक्षाते । 12 B प्रापदाम।