________________
5
10
15
20
25
30
९८
प्रभावकचरिते
श्रीमहावीरबिम्बं स विलोक्य हृदि हर्षितः । 'शान्तो वे ष' इति स्तोत्रं चक्रे प्रमुदितस्तदा ।। ४५० ॥ एवं स्तुत्वा जिनं स्वात्मनिन्दके सौगतप्रभौ । सूरिजैनरहस्यानि तस्य प्रादर्शयत् पुरः ॥ ४५१ ॥ मिथ्यात्वगरलं हृत्वा पीयूषा मलगीर्भरैः । परीक्षापूर्वमस्थापि तच्चिते धर्म आर्हतः ॥। ४५२ ॥ निद्राविद्राणचैतन्ये' निशायामन्यदा गुरौ । प्रतिप्रहरमाह स्म ताथागतयतीश्वरः ॥ ४५३ ॥ चतुरक्षरनिष्पन्नं समस्यानां चतुष्टयम् । स चोत्स्वप्नायितेनेवापूरयत् सूरिपुङ्गवः ॥ ४५४ ॥ मन्दाक्रान्तापदैर्मन्दाक्रान्तिक्षुण्णान्यतीर्थिकः । अपूरमपरैः सर्वप्रयत्नेनापि वाग्मिभिः || ४५५ ॥ - युग्मम् । ‘एको गोत्रे' [ १ ] 'सर्वस्य द्वे' [२] 'स्त्रीपुंवच्च' [ ३ ] 'वृद्धो यूना' [ ४ ] समस्याः–' 'एको गोत्रे' स भवति पुमान् यः कुटुम्बं बिभर्ति 'सर्वस्य द्वे' सुगति- कुगती पूर्वजन्मानुबद्धे ।
'स्त्री पुंवच' प्रभवति यदा तद्धि' गेहं विनष्टम्
'वृद्धो यूना' सह परिचयात्त्यज्यते कामिनीभिः ॥ ४५६ ॥
सम्यक्त्वं ग्राहितः सोऽथ द्वादशव्रतशोभितम् । आश्लेषपूर्वमापृच्छ्य स्वं स्थानं प्रययौ ततः ॥ ४५७ ॥ पूर्ववैरपरीहारात् संगतौ सोदराविव । अन्योऽन्यप्राभृतैस्तुष्टौ पुरं स्वं स्वं गतौ नृपौ ॥ ४५८ ॥
६१५.
अन्यदा रहसि प्राह धर्मभूपं स सौगतः । विजिग्ये बप्पभट्टिम न तत् क्षूणं मनस्यपि ॥ ४५९ ॥ यतो वाग्देवता तस्य यथोदितविधायिनी । स्वयं वदति तद्देहे स्वमे जाग्रति 'चास्थिता ॥ ४६० ॥ परं वाक्पतिराजेन त्वद्राज्यपरिभोगिणा । अस्मास्वपकृतं भूरि मुखशौचविधापनात् ॥ ४६१ ॥ इति श्रुत्वापि बौद्धे स छळवादात् 'लथादरः । स्नेहं वाक्पतिराजे' च गुणगृह्ये' मुमोच न ॥४६२॥ यशोवर्मनृपो धर्ममन्यदा चाभ्यषेणयत् । तस्माद् द्विगुणतन्त्रस्तं भूपं युद्धेऽवधीद् बली ॥ ४६३ ॥ तदा वाक्पतिराजश्च बंदे तेन निवेशितः । काव्यं गौड व धं कृत्वा तस्माच्च स्वममोचयत् ॥ ४६४ ॥ कन्यकुब्जे समागत्य संगतो बप्पभट्टिना । स राजसंसदं नीतस्तुष्टुवे चेति भूपतिम् ॥ ४६५ ॥ तथा हि
कूर्मः पादोsa' यष्टिर्भुजगतनुलता भाजनं भूतधात्री तैलोत्पूरः समुद्रः कनकगिरिरयं वृत्तवर्त्तिप्ररोहः । अश्चिण्डांशुरोचिर्गगनमलिनिमा कज्जलं दह्यमाना
शत्रुश्रेणी पतंगो ज्वलतु नरपते ! त्वत्प्रतापप्रदीपः ॥ ४६६ ॥ चटचदिति चर्म्मणि च्छमिति" चोच्छलिच्छोणिते" धगद्धगति मेदसि स्फुटरवोऽस्थिषु "वाकृतिः । पुनातु भवतो हरेरमरवैरिनाथोरसि
कणत्करजपञ्जरक्रकचकाषजन्मानलः ॥ ४६७ ॥ पृथुसि गुणैः कीर्त्या रामो नलो भरतो भवान् महति" समरे शत्रुघ्नस्त्वं सदैव युधिष्ठिरः ।
1 A ° चैतन्यैः । 2 A तस्य । 3 A मुच्यते । 4Nar 5 A वादाश्लथादरः । 6 N राजेन | 7 N गुणप्राये । 8 N तस्माद्विगुणितं दस्तं । 9 N. पादौ च । 10 A च्छमच्छमिति । 11 N चोच्छल्लिते शोणिते । 12 N स्फुटत्रास्थिष्वाकृतिः ।' 13 A महसि ।