________________
११. बप्पभट्टिसूरिचरितम् ।
5
४२२ ॥
10
४३२ ॥
तत आह तदाचार्यो वाग्विनोदसुखाय वः । इयत्कालं हि नश्वेतस्यासीदिति कृतिप्रभो ! ॥ ४१७॥ बाधाविधायी' यद्येष' भवतस्तद् विलोकय । प्रभाते निग्रहीष्यामि विद्वन्मन्यं हि भिक्षुकम् ॥ ४९८ ॥ प्राग्दत्तं गुरुभिर्मत्रं परावर्त्तयतः सतः । मध्यरात्रे * गिरां देवी स्वर्गङ्गावेणिमध्यतः ।। ४१९ ॥ स्नान्ती तादृशरूपा च प्रादुरासीद् रहस्तदा । अहो मत्रस्य माहात्म्यं यद्देव्यपि विचेतना ॥ ४२० ॥ युग्मम् | अनावृतशरीरां च सकृदीषद् ददर्श ताम् । सूरिः सूर्य्यादिवास्यं च परावर्तयति स्म सः ॥ ४२१ ॥ स्वं रूपं विस्मरन्ती च प्राह वत्स ! कथं मुखम् । विवर्त्तसे भवन्मन्त्रजापात् तुष्टामागता ॥ वरं वृण्विति तत्रोक्तो बप्प भट्टिरुवाच च । मातर् ! विसदृशं रूपं कथं वीक्षे तवेदृशम् ॥ ४२३ ॥ स्वां तनुं पश्य निर्वस्त्रामित्युक्ते स्वं ददर्श सा । अहो निबिडमेतस्य ब्रह्मव्रतमिति स्फुटम् ॥ ४२४ ॥ वीक्ष्य मामीदृशीं यन्न चेतोऽस्य विकृतिं ययौ । ध्यायन्तीति दृढं तोषात् तत्पुरः समुपस्थिता ॥ - युग्मम् । वरेऽपि निस्पृहे त्वत्र दृढं चित्रादुवाच च । गत्यागत्योर्मम स्वेच्छा त्वदीया निर्वृतो भव ।। ४२६ ॥ ततः सूरिर्गिरां देवीं तुष्टुवे सुष्टुवाग्भरैः । वृत्तैर'ध रि ते त्या 'यै चतुर्दशभिरद्भुतैः ॥ ४२७ ॥ इमां स्तुतिं सुवर्णाढ्यां कर्णकुण्डलरूपिणीम् । मानयन्त्यतिसन्तोषाद् भारती' वाचमूचुर्षी ॥ ४२८ ॥ वत्स ! किं पृच्छसीत्युक्ते सूरिरूचे विवाद्यसौ । सत्यं प्रज्ञाबलाज्जल्पेद्, विज्ञानमथ किञ्चन ? ॥ ४२९ ॥ देवी प्राहामुना सप्तभवा नाराधिताऽस्म्यहम् । प्रदत्ता गुटिकाक्षय्यवचनाऽस्य मया ततः ॥ ४३० ॥ तत्प्रभावाद् वचो नास्य हीयते यतिनायक ! । सोपालम्भमिवाहासौ सूरिः श्रीश्रुतदेवताम् ॥ ४३१ ॥ पुष्णासि प्रत्यनीकं किं शासनस्य जिनेशितुः । सम्यग्दृष्टिः पुरानायात् शुश्रुवे भवती ननु ॥ सरस्वती पुनः प्राह नाहं' जैनविरोधिनी । उपायं तेऽर्पयिष्यामि यथासौ जीयते बुधः ॥ ४३३ ॥ सर्वेऽपि मुखशौचं ते विधाप्याः "पार्षदादयः । ततोऽस्य कार्य्यमाणस्य गण्डूषं मुञ्चतो मुखात् ॥ ४३४ ॥ भ्रष्टा चेद् गुटिकाऽवश्यं युष्माभिर्जितमेव तत् । चतुर्दशं पुनर्वृत्तं न प्रकाश्यं कदापि हि ॥ ४३५ ॥ यतस्तत्र श्रुते साक्षाद् भवितव्यं मया ध्रुवम् । कियतां हि प्रसीदामि निष्पुण्यानां मुनीश्वर ! ॥ ४३६ ॥ 20 इत्युक्त्वाऽन्तर्दधे देवी सूरिश्छन्नं जगौ पुरः । विज्ञवाक्पतिराजस्य यदादिष्टं गिरा तदा ॥ ४३७ ॥ इत्यङ्गीकृत्य तेनाथ करकं नीरपूरितम् । समानाय्य सभा सर्वा वक्रशुद्धिं व्यधाप्यत" ।। ४३८ ॥ तत्कुर्वतोऽथ तस्यापि गुटिका पतिता मुखात् । भिक्षोरास्यजलैर्नुन्ना श्रीरिवापुण्यकर्मणः ॥ ४३९ ॥ अविश्रान्तमिथोवादाध्वन्यऽध्वन्यतया ततः । श्रान्ता विश्राममिच्छन्ती मूकस्येवास्य गीः स्थिता ॥ ४४० ॥ सदस्याश्च वचः प्रोचुर्गुटिकैव वचः क्षमा । अनेडमूक एवायं भिक्षुरन्वर्थनामभूः ॥ ४४१ ॥ जिग्ये श्रीबप्पभट्टिस्तं वा दिकुञ्ज र के सरी । बिरुदं जुघुषे राज्ञा जज्ञे जयजयारवः ॥ ४४२ ॥ धर्मराज्यं गृहीतुं च स्वबलात् सार्द्धवैभवम् । तदाम उपचक्राम स्वं पणं कस्त्यजेज्जयी ॥ ४४३ ॥ उवाचाथ गुरुस्तस्य यदुक्तं च पुरः पुरा । यद्राज्येन पणं चक्रे धर्म्मभूपोऽधिकृत्य नः ॥ ४४४ ॥ तत्तस्यैवोपकाराय " भविष्यति कदाचन । तदस्य वचसः कालो नृपनाथ ! समाययौ । ४४५ ॥ इयं प्रमाणशास्त्राणां मुद्रा यल्लिखिते ततः । सम्बन्धे निग्रहो नैव यत्पराजय एव सः ॥ ४४६ ॥ अस्य राज्यं तदस्यैव सन्तिष्ठतु यथास्थितम् । अनित्यभवहेतोः कः शास्त्रमुद्रां विलुम्पति ॥ ४४७ ॥ गुरुभक्त्याभिरामोऽयमामोऽनिच्छुर्बलादपि । धर्मे धर्मस्थितो राज्यमनुमेने प्रसादतः ॥ तत आश्लिष्य बौद्धं तं सूरिर्वर्द्धनकुञ्जरम् । तदासन्ने गोप गिरौ श्रीवीर भवनेऽनयत् ॥
25.
४४८ ॥ ४४९ ॥
९७
1 N व्यधायि । 2 N यथैषा । 3 N वर्तयतस्ततः । 4A मध्ये रात्रेः । 5 A वृत्तैरधिष्ठिते । 6 A भारतीं । 7 A । 8 N सप्तबारा° । 9 N माहं । 10 N विधाय श्रीपा । 11 N व्यधीयत । 12 N वाधिकाराय ।
प्र० १३
15
30