________________
प्रभावकचरिते
10
15
वैराग्य एव मुक्तिः स्यात् सर्वदर्शनसंमतम् । कार्या नात्राधृतिभिक्षुर्जेयो मे तत्कृतोन्नतिः ॥ ३८८ ॥ धर्मराजस्य सम्यक् कुविचारादिदमादृतम् । मदाश्रितो यतो वादस्तस्यैवोपकरिष्यति ॥ ३८९ ॥ कुत्राप्यवसरे तस्मादस्तु वाक्पूरतो' रणः । संमान्य प्रेषय प्रेष्ठपुमांसं धम्मभूपतेः ॥ ३९० ॥
आमराजेन कृत्वैतत् प्रहितः समयं भुवम् । व्यवस्थाप्य जगामासौ प्रोचे तत्स्वामिनः पुरः॥ ३९१ ॥ 5६१४. वाग्विग्रहाय वादीन्द्रं राजा वर्द्धनकुञ्जरम् । धर्मः संवाहयामास गीष्पतिं वासवो यथा ॥३९२॥
चतुर्दिगन्तविश्रान्तकीर्तयः सुहृदस्ततः । आहूयाभ्यच्य सभ्यत्वे वादेऽस्मिन् विहिता मुदा ॥ ३९३ ॥ परमारमहावंशसम्भूतः क्षत्रियाग्रणीः । तस्य वाक्पतिराजोऽस्ति विद्वान् निरुपमप्रभः ॥ ३९४ ॥ पूर्वं परिचितश्चासौ बप्पभहिप्रभोस्ततः । तस्य वाग्मर्मविज्ञानहेतौ संवाहितो मुदा ।। ३९५ ॥ व्यवस्थितदिने प्राप प्रदेशं देशसन्धिगम् । सभाधीशमहासभ्यैः समं वर्द्धनकुञ्जरः ।। ३९६ ।। कन्यकुब्जादपि श्रीमानामः कामं सुधीनिधिः । श्रीबप्पभट्टिना विद्वद्वन्दसन्निधिना समम् ॥३९७।। भुवं तामेव संप्रापातपत्राच्छादिताम्बरः। आवासान् स्वःपुराभासान् दत्वावस्थितवानथ ॥३९८॥-युग्मम् । आजन्म सर्वदा दृष्टशस्त्राशस्त्रिश्लथादरः । अदृष्टपूर्ववाग्युद्धप्रेक्षायै सकुतूहलः ॥ ३९९ ॥ अहंपूर्विकया सिद्ध-विद्याधरसुरव्रजः । समेतश्चाप्सरोवगैः स्वर्गवद्गगनाङ्गणे ॥ ४०॥ कौतुकाकृष्टचेतोभी राजसभ्यैर्बहुश्रुतैः । ईयतुः सङ्गतौ तत्र तौ वादि-प्रतिवादिनौ ॥ ४०१॥ उपविष्टेषु सभ्येषु श्रुत्यधीनमनस्सु च । स्तिमितात्र सभा साऽभूदालेख्यलिखिता किल ॥ ४०२ ।। निजं निजं नराधीशमाशिषाभिननन्दतुः । स्वस्वागमाविरोधेन सभ्यानुमतिपूर्वकम् ॥ ४०३ ।। ततः श्रीसौगताचार्यः पूर्वं वर्द्धनकुञ्जरः। आशीर्वादमुदाजहे व्यथकं द्वेषिपर्षदाम्"॥ ४०४ ॥
तथा हिशर्मणे सौगतो धर्मः पश्य वाचंयमेन यः।
आदृतः साधयन् विश्वं क्षणक्षणविनश्वरम् ॥ ४०५ ॥ अथ श्वेतांबराचार्यो बप्पभहिः सुधीपतिः । अभ्यधत्ताशिर्ष स्वीयां भूपालाय यथा तथा ॥ ४०६॥
अर्हन शम्र्मोन्नतिं देयान्नित्यानन्दपदस्थितः ।
यद्वाचा विजिता मिथ्यावादा एकान्तमानिनः ॥ ४०७ ॥ उभयोराशिषः श्लोकौ निरूचुः पार्षदास्तदा । असौ धर्मो गतः सम्यग् यमिता गीश्च वादिभिः॥४०८॥ क्षणभङ्गि जगञ्चोक्तं भङ्गस्यैवानया गिरा । सौगतस्यानुमीयेत वाग्देवी सत्यवादिनी ॥ ४०९॥ नित्यानन्दपदश्रीदो देव एकान्तविग्रही। मिथ्यावादविजेत्री गी: श्वेतभिक्षोस्ततो जयः॥ ४१०॥ इति निश्चित्य ते तस्थुर्यावन्मौने सभासदः । तावत् कस्तूरिका हस्ते कृत्वा बौद्धोऽत्रवीदिदम् ॥ ४११ ॥ 'कसु तूरी उपगरई' प्रोक्ते प्राकृत" उचिवान् । आचार्य उपकीयं रजकस्येति" विद्यताम् ॥ ४१२ ॥
इति तत्प्रश्नसङ्केतादुत्तरेणाधरीकृते । तावद् रक्ताम्बरः सर्वानुमतः पक्षमब्रवीत् ॥ ४१३ ॥ 30 सर्वानुवादेनानूद्य ततस्तत्पक्षदूषकान् । उदाजहार व्याहारान् प्रामाणिकपतिर्मुनिः ।। ४१४ ॥
उत्तरादुत्तरं चैवमुक्ति-प्रत्युक्तिरीतितः । षट् व्यतीयुस्तदा मासास्तयोर्विवदमानयोः ॥ ४१५ ॥ श्रीमानामनृपोऽन्येारूचे सूरि कदा प्रभो ! । व्याघातो" राजकार्याणां वादः संपूरयिष्यते ॥ ४१६ ॥
20
25
1A वाक्यरतो। 2 A B प्रष्टपुंमांसं। 3N सययौ। 4 N वादींद्रराजवर्द्धन । 5 N धर्म। 6 N समाधीश'। 7N काम। 8 C सभम् । 9N स्वःपुरापट्टे। 10 A°ता तत्र। 11 B C पर्षदा। 12 A स्थितं । 13 A सदं सदः । 14 A नास्ति 'प्राकृत'। 15 A रजस्येति । 16 B व्यापातो।