________________
११. बप्पभट्टिसूरिचरितम् । मम 'नाथः प्रभो ! तावकीनच्छेकत्वभङ्गिभिः । सन्तुष्टः स्पष्टमाह स्म सविस्मयमनःक्रमः ॥ ३५८॥ भवत्कोविद कोटीररत्नश्रीवप्पभहिना । सत्यानृतकवित्वस्य व्याख्यानाच्छलिता वयम् ॥ ३५९ ॥ यदायातोऽपि गेहान्न आतिथ्या:ऽपि नार्हितः । आमों रामो धिया भूपोऽनुतापातिशयः स नः॥३६०॥ हृल्लेखाधायि वैदग्ध्यं साहसं वाक्पथातिगम् । वयं चमत्कृतेर्हृष्टास्तद्वदाम किमप्यहो ॥ ३६१ ॥ राज्ये नः सौगतो विद्वान् नाम्ना वर्द्धनकुञ्जरः। महावादी दृढप्रज्ञो जितवादिशतोन्नतः ॥ ३६२ ॥ 5 देशसन्धौ समागत्य वादमुद्रां करिष्यति । सभ्यैः सह वयं तत्र समेष्यामः कुतूहलात् ॥ ३६३ ॥-युग्मम् । यः कोऽपि भवतां वादकोविदः सोऽपि तत्र च । आयातु सह विद्वद्भिर्घनाघन इवोन्नतः ॥ ३६४ ॥ तद्वाक्संग्राम एवास्तु यस्य वादी विजीयते । जित एवापरेणासौ किं हतैर्बहुशस्त्रिभिः ॥ ३६५ ॥ भुजे 'वाचि च शौर्य ते वादिनो ऽप्यपराजिताः । यद्यसौ सौगताचार्यो महावादी विजीयते ॥३६६॥ तस्मिन् जिते जिता एवायासबाह्यं त्वया वयम् । घृतपिण्ड इव स्त्यानम् उदके हिमनिश्चयः ॥ ३६७ ॥ 10 इति श्रुत्वाऽऽमभूपाल ऊचे संदेशहारकम् । श्रीधर्मोऽनुचितं ब्रूयात् किं कदापि नराधिपः॥ ३६८॥ परं किञ्चिदुपालभ्यमस्ति नाई सतां हि यत् । अस्मिन्नवसरे वाच्यं प्रस्तावो दुर्लभो ध्रुवम् ॥ ३६९ ॥ विदुषः सुहृदस्तस्याकारणव्याजतो ध्रुवम् । आयाम मिलितुं तत्र स्फुटं 'चास्माभिरौच्यत ॥ ३७० ॥ तत्र 'बीज उरा-दोरा' वाक्याभ्यां बंधुरीतितः । द्वितीयो राडिव द्वौ च राजानाविति संस्कृतात् ॥३७१॥ दर्शिते चाढकीपत्रे व्याख्याते" बप्पभट्टिना । इदं 'तू अरि पत्तं ते अरिपत्राख्यसंस्कृते ॥ ३७२ ॥ 15 निराख्यातेऽपि न ज्ञातं भिया" वा न स्फुटीकृतम् । न "विद्मस्तत् तृतीयेऽपि वचसि प्रकटे नयत् ॥ ३७३॥ एतत्प्रकाशितं यस्मादज्ञानात् पुनपुंसकम् । "ज्ञापितस्त्वत्प्रभुस्ते च विशिष्टा" विदिताः किल ॥ ३७४ ॥ तथापि चेजिगीषाऽस्ति मयि तु त्वदधीशितुः । श्रद्धां ते पूरयिष्यामि भवत्वेतद् भवद्वचः ॥ ३७५ ॥ परं विजयिनो राज्ञः पराभूतक्षमाभुजा । सप्ताङ्गमपि राज्यं स्वमर्पणीयमदर्पिना" ॥ ३७६ ॥ ईदृशं भवतः स्वामी "यदूरीकुरुते तदा । एवमस्त्वन्यथा" किं नः प्रयासेन फलं विना ॥ ३७७॥ 20 इत्याकावदद् दूत आमेत्याख्या त्वया निजा । सत्या कृता विशांनाथ ! मतेरपरिपाकतः ।। ३७८ ॥ जडोऽपि को न वेत्तीति कथिते किं पुनःपुनः । अपरोऽपि गृहायातं नृपं शत्रुमपि ध्रुवम् ॥ ३७९ ॥ योजयेदातिथेये न भवांस्तु प्रकटीकृतः । सत्कारायापि नाम स्वं सत्यापयति चेद्भिया ॥ ३८०॥ पलायमानो वाह्यानां हस्त्यारूढो विनश्यति । तदस्माकं प्रभोर्नामवैतथ्यं जायते स्फुटम् ॥ ३८१ ॥
-त्रिभिर्विशेषकम् । 25 निग्रहे ऽपि स एवास्यादोषो राज्ञस्ततो नृप !। विमृश्यकारिता तत्र सैवास्यैकाऽपराध्यति ॥ ३८२ ॥ क्षमाक्लीबस्य तस्य त्वं जितेऽस्मद्वादिना ततः। "पुमानप्यपमानस्य पात्रं सर्ववनाशतः ।। ३८३ ॥ ब्राह्मीकृतप्रसादस्य नास्येवास्य पराजयः । वादिनो विमृशातस्त्वमविमर्शो हि नाशकृत् ॥ ३८४॥ श्रुत्वेति बप्पभयास्ये सहास्ये नृपवीक्षिते । मुनीशेन सदानन्दनिर्भरं जगदे वचः ।। ३८५ ॥ को हि धर्मस्य नोत्कण्ठी पूर्व परिचितस्य च । यदि रागिग्रहो न स्यादस्य श्रेयोबहिष्कृतः ॥ ३८६ ॥ 30 अनित्यैकग्रहे रक्ते भिक्षौ कृतजयाग्रहः । क्षुणं तदेव चेद्रागे जयो मोक्षस्ततः कुतः ॥ ३८७ ॥
____1 A N नाथ । 2 C आप्तोरामो। 3 N जिनवादि । 4 N वा। 5 'सज्जो वाचिवशोठ्येते' इति भ्रष्टपाठः N पुस्तके । 6N ऽथ17 N वा18 A °रीरितः। 9N°तान् । 10 N व्याख्यातं । 11 N तया। 12 N नविघ्नस्तु । 13 C स्थापित। 14 A विशिष्टो। 150 °दर्पिता। 16 N यदोरी। 17 A पवनस्त्व; N पवनास्वत्पथा। 18ON हस्तारूढो । 19 N दृढमस्मत् । 20 N विग्रहे। 21 N पुमानथाप । 22 N वा। 23 A N क्षणं ।