________________
९४
प्रभावकचरिते
10
16
इत्याकर्म्याचलापालः' प्राप्तरोमाञ्चकञ्चकः । स्वगुरोर्गुरुसत्त्वेन प्राह नृत्यन्मनोनटः ॥ ३३५ ॥ न्युञ्छने यामि वाक्याय हग्भ्यां याम्यवतारणे । बलिविधीये सौहार्दहृद्याय हृदयाय च ॥ ३३६ ॥ असौ मही धराधारा देशः पुरमिदं मम । भाग्यसौभाग्यभृद् यत्र बप्पभदिप्रभुस्थितिः ॥ ३३७ ॥
-त्रिभिर्विशेषकम् । स्वक्षेत्रभ्रंशिनः' कामं कामादिभिर्विमर्शतः । परक्षेत्र गतास्तत्र लालसत्वं हि तत्यजुः ॥ ३३८ ॥ पशवोऽपि गजास्तस्मादहासीत् सर्वथा' तु तान् । योऽस्मै गज व रे त्याख्या ततः ख्याताऽस्तु मद्गुरोः॥३३९॥ ततो ग ज व रो ब्र म चा री च बिरुदद्वयम् । तस्याभूद् भूत-सद्भाव-भाविवेत्तुः श्रुतागमात् ॥ ३४० ॥ तथा किं विदधे तत्र त्वया पृष्टेति साऽवदत् । कटाक्षक्षेपवक्षोजतत्करस्पर्शनादिभिः ॥ ३४१ ॥ अजातबोधका चैकं तदा दोधकमब्रुवम् । तत्र प्रज्ञानुमानेन कवित्वं हि प्रसर्पति ॥ ३४२ ॥
तथा हिगयवरकेरइ सत्थरइ पायपसारिउसुत्त ।
निचोरी गुजरात जिव नाह न केणइ भुत्त ॥ ३४३ ॥ एवं नृपादिभिः सत्यगुणकीर्तनतः स्तुतः । ब्रह्मप्रभावप्रागल्भ्याद् बप्पभट्टिः प्रभुर्जयी ॥ ३४४ ॥ ६१२. प्राकारबाह्यमन्येयू राजा राजाध्वना चरन् । पश्चादोकसि गेहस्येक्षांचके हालिकप्रियाम् ॥ ३४५ ॥
पञ्चांगुलबृहत्पत्रसंवृतस्तनविस्तराम् । वृणुन्नवृतिरन्ध्रेणापयित्वा प्रियहस्तयोः ॥ ३४६ ॥ लवित्रं विस्मृतं पश्चात् प्रयान्तीं गृहमन्तरा । उरोजबिम्बाकाराणि बहिःपत्राणि वीक्ष्य च ॥ ३४७॥ गाथाई प्रोचिवान् कौतूहलाकृष्टमनःक्रमः । दृष्टिमेरण्ड उद्दण्डस्कन्धे न्यस्यन् चलाचलाम् ॥ ३४८॥
-त्रिभिर्विशेषकम् । तच्च-वइविवरनिग्गयदलो रंडो साहइ व तरुणाण ।
तत्प्रातः स्वगुरोरग्रेऽवदत्संसदि संस्थितः ॥ ३४९॥ उत्तरार्द्धमवादीच तस्यानुपदमेव सः।
इत्थघरे हलियवहू इद्दहमित्तत्थणी वसई ॥ ३५० ॥ इति श्रुत्वा यथादृष्टपूरकं प्रभुमस्तवीत् । सिद्धसारस्वतः कोऽपि कलौ नो मद्गुरु" विना ॥ ३५१ ॥
सायमैक्षत सोऽन्येयुरेका प्रोषितभर्तृकाम् । यान्तीं वासालये वक्रग्रीवां दीपकरां तदा ॥ ३५२ ॥ 25 उत्तरार्द्ध विधायात्र गाथायाः सुहृदः पुरः । प्रातराह ततोऽसौ च प्राग्दलं प्राह सत्वरम् ॥ ३५३ ॥
तथा हिपियसंभरणपलुटुंतअंसुधारानिवायभीयाए।
दिजइ वंकग्गीवाइ दीवओं पहियजायाए ॥ ३५४ ॥ इत्यनेकप्रबन्धाढ्यकाव्यगोष्ठीगरीयसा । कालः सुखेन याति स्म गुरु-राज्ञोः" कियानपि ॥ ३५५ ॥ 80६१३. श्रीधर्मभूधनोऽन्येार्दूतं प्रेषितवानथ । श्रीमदामस्य वामस्य दुष्कृतानां सुधीनिधिः ॥ ३५६ ।।
ततः स भूपमानम्य सभायामुचितासनः । सम्यग् व्यजिज्ञपत् सभ्यैर्विस्मितैर्वीक्षिताननः ॥ ३५७ ॥
__IN °ावनीपालः। 2 N 'भ्रंशिनं । 3 N कामादितिवि। 4 A विमर्शितः। 5A क्षेत्रे। 6 A साभसत्वे। 7c सर्वधा। 8 N नु । 9 A जिमु । 10 A दृष्ट्वा । 11 N नामगुरुं। 12 N गुरो राज्ञः। 13 A C सुधीनिधि ।