________________
११. बप्पभट्टिसूरिचरितम् ।
प्रभो ! 'यदूचे बीभत्सरसन्यासवशा तनुः । अशुश्रूषाकदर्थ्याङ्गभृतामेव कुयोषिताम् ॥ ३०६ ॥ वयं निरन्तरावाप्तकर्पूरादिमया इव । वेधसा विहिता अज्ञा' दौर्गन्ध्यादिकथास्वपि ॥ ३०७ ॥ ततो नाथेय नाथ ! त्वां सफलीकुरु मामकम् । भोगाभोगं हि भोगेन भोगिन्या भोगिराडिव ॥ ३०८ ॥ ततः प्राक् सिष्मिये सूरिस्तद्वाग्भिर्न विसिष्मिये । उवाच च गिरं धीरां धैर्योधारधुरन्धरः ॥ ३०९ ॥ हैनी पाञ्चालिका रिक्तान्तरालाशुचिपूरिता । बहिश्चन्दनच र्चादिभूषासुरभिरस्तु किम् || ३१० ॥ मलमूत्रादिपात्रेषु गात्रेषु मृगचक्षुषाम् । रतिं करोति को नाम सुधीर्वर्चोगृहेष्विव ॥ ३११ ॥ चक्षुः संवृणु वक्रवीक्षणपरं वक्षः समाच्छादय रुंद्धि स्फूर्जेदक भङ्गिकुटिलं रम्योपचारं वचः । अन्ये ते नवनीतपिण्डसदृशा वश्या' भवन्ति स्त्रियां
मुग्धे ! किं परिखेदितेन वपुषा पाषाणकल्पा वयम् ॥ ३१२ ॥ इत्याकर्ण्याध्यकर्णेव न बुद्धा प्रत्युत प्रभोः । स्वभावकठिनौ हस्तौ स्वगात्रेऽपत्रपा 'न्यधात् ॥ ३१३ ॥ ताभ्यां च 'सर्गपत्राभ्यामिव सा स्पर्शयेत् ततः । स्मरकुञ्जरकुम्भाभौ मृदुस्पर्शावुरोरुहौ || ३१४ ॥ ततः शृङ्गारशिखरिखादिरांगारभारवत् । 'निर्दम्भशोकदम्भेन पूञ्चकार मुनीश्वरः ॥ ३१५ ॥ किं किमित्यूचिषी वक्षोजाप्रात् पाणिं विकृष्य सः । अबाष्पगद्गदाव्यक्तवाचोवाच कथञ्चन ॥ ३१६ ॥ अमूल्यातुल्यवात्सल्यवर्द्धितास्मादृशाङ्गिनाम् । गुरूणां स्मारिता अद्य निजाङ्गस्पर्शतस्त्वया ॥ ३१७ ॥ तया" कथमिति प्रश्ने कृते प्राह पुनः प्रभुः । रात्रौ स्वाध्यायकृत्यानन्तरं " विश्रामणां प्रभोः ॥ ३१८ ॥ अहं व्यरचयं" सर्वकालं" सर्वाङ्गसंगिनीम् । कटीं विश्राम्य तत्प्रोथयुगलं च समस्पृशम् ॥ ३१९ ॥ युग्मम् । तदद्य स्मृतिमानीतं वृत्त मार्दवसाम्यतः । यादृक् तव कुचद्वंद्वं तादृक् तदपि चाभवत् ॥ ३२० ॥ श्रुत्वेति सा परावृत्तरसा भग्नाशतानिधिः" । दध्यौ विधूतकामान्ध्या" किं मे कर्मोदयं ययौ ।। ३२१ ॥ ग्रावा लोहं कथं वज्रं दुर्भिदोऽयं सिताम्बरः । वह्निटंकादिभिर्भेद्यो प्रावा लोहञ्च वह्निना ॥ ३२२ ॥ कुवली कोमलफलक्षोदाद्यैर्वज्रमप्यथ । भिद्येतानन्यसामान्यं काठिन्यं किञ्चिदस्य तु ॥ ३२३ ॥ घृतपिण्डसमास्तेऽन्ये" वह्निकुण्डसमासु ये । महेलासु विलीयन्ते सृष्टिरेवापरस्य तु ॥ ३२४ ॥ वेधायमश्व कावस्य पुरः कर्मोर्मिकिङ्करौ । कर्म्माप्यस्माद्" बिभेतीव तीव्रब्रह्मव्रतस्पृशः ।। ३२५ ॥ रसे विरसमाधत्त मत्काममपि भग्नवान् । तिरश्चकार मां यस्तु तेन दैवं हि जीयते ।। ३२६ ॥ ध्यायन्तीति निदद्रौ सा मुनिद्रोहे गताग्रहा । निद्रा हि विश्वदुःखाप्तौ विश्रामादुपकारिणी ॥ ३२७ ॥ गे जागरिताचार्यं पर्यङ्कासनसंस्थितम् । प्रणम्य प्राह नाहंयुरहं त्वद्विकृतौ कृतीन् ॥ ३२८ ॥ वीतरागः पुरा स्मेरस्मरमुख्यारिजित्वरः । आसीत् त्वद्वृत्ततः सत्यमिदं ख्यातिं ययौ किल ।। ३२९ ॥ तदापृच्छे प्रसाद्याशु पृष्ठे हस्तं प्रदेहि मे । तव शापेन शक्रोऽपि " भ्रश्यत्यन्यस्य का कथा ॥ ३३० ॥ अथाह गुरुरज्ञानवागेषा ते वयं पुनः । रोषतोषभरातीता" अज्ञाः शापादिगीर्ध्वपि ॥ ३३१ ॥ * इति श्रुत्वा ययौ भूपसमीपं वरवर्णिनी । उवाच तद्गुणत्रातक्षणविद्रुतवैकृता ॥ ३३२ ॥ नाथ ! पाथः पतिं बाहुदण्डाभ्यां स तरत्यलम् । भिनत्ति च महाशैलं शिरसा तरसा रसात् ॥ पदे"द्वं(?) वह्निमास्कन्देत् सुप्तं सिह बोधयेत् । श्वेतभिक्षं तव गुरुं य एनं हि विकारयेत् ॥
९३
३३३ ॥ ३३४ ॥
1 AN प्रभोर्यदूचे । 2 A अन्या । 3 'प्रार्थये' इति C टि० 1 4 N सुरभि वस्तु । 5A मर्त्या । 6 N व्यधात् । 7 ' सागपत्र' इति C टि० । 8N नभः । 9A निर्दभः । 10 A C ' तथा ' । 11 N कृत्वानंतरं । 12 A व्यचरयं । 13 A सर्वं कालं । 14 A °निधेः । 15 A कामांधा | 16 N समाह्यन्ये । 17 N च । 18 N कर्माप्यस्य । 19 A स्रस्यति ; N नश्यति । 20 A BN भराभीता । * A आदरों नोपलभ्यते श्लोक एषः । 21 N यथेच्छ ।
5
10
15
20
25
30