________________
९२
प्रभावकचरिते
तत आराधनां कृत्वा परलोकं समाधिना । ते ययुगणशास्ति' च चक्रेऽसौ राजपूजितः ॥ २८१ ॥ श्रीमद्गोविन्दसूरेः श्रीनन्नसूरेश्च स प्रभुः । बप्पभट्टिः समाथ गच्छं संघ च सोद्यमः ॥२८२॥
अनुज्ञाप्य क्षितिस्वामिप्रधानैराहतैर्वृतः । पुनरप्याययावामधाम निर्ग्रन्थनायकः ॥ २८३ ।।-युग्मम् । ६११. सभासीनोऽन्यदा राज्ञः सूरिः प्रेक्षणकक्षणे । प्रवीणपुस्तिकाहस्तः पुंरूपेव सरस्वती ।। २८४ ॥
द्विधाक्षरे* पदे स्थास्नुईष्टिस्तत्क्लेशनाशिनी । तदा कदाचिदाधासीन्नीलचण्डातके दृशम् ॥२८५॥-युग्मम् । तं दृष्ट्वा भूपतिस्तत्र जातरागविकल्पतः । चित्ताभिसन्धिसम्बद्धां गाथामेनामचिन्तयत् ॥ २८६ ॥
तथा हिसिद्धंततंतपारंगयाण जोईण जोगजुत्ताणं ।
जइ ताणं पि मयच्छी जयंति ता ति'च्चिय पमाणं ॥ २८७ ॥ 10 अमूहक्कार्यनिर्वाहज्ञानहेतुं ततस्तदा । स्नेहादेव निशि प्रैषीत् तां पुंवेषां तदाश्रये ॥ २८८ ॥
सा निलीना क्वचिद् भव्यगणे स्वस्थानगे ततः । रहः शुश्रूषितुं सूरिं प्रारेभे धैर्यभित्तये ॥ २८९॥ स्त्रीकरस्पर्शतो ज्ञात्वाऽत्रोपसर्गमुपस्थितम् । विममर्श नृपाज्ञानतमसश्चेष्टितं ध्रुवम् ॥ २९० ॥ स सज्जः सजयसजमनोभूविजये ततः । अष्टाङ्गयोगसद्धर्मसंवम्मिततनुर्मुदा ॥ २९१ ॥
शुभध्यानाश्वमारूढः सन्तोषप्रक्षराक्षतम् । दृढसंयमकोदण्डावष्टब्धतपआशुगः ॥ २९२ ॥ 15 सद्बोधपुष्टिरिष्टिगीःशक्तिशक्तिस्फुरत्करः। अनास्थया समुत्तस्थावन्तरङ्गद्विषजये ॥२९३॥-त्रिभिर्विशेषकम् ।
अब्रवीद् ब्रूहि काऽत्र त्वं किमर्थं समुपस्थिता । "ब्रह्मवर्मवतामेषा स्यान्न भूमिर्भवादृशाम् ॥ २९४ ॥ अध्वन्येषु यथा व्याली हारहूरं" द्विजालये । पलं दर्शनशालासु हलं राजकुले यथा ॥ २९५ ॥ धर्मे प्राणवधो" यद्वद् वेदोच्चारे यथान्यजः । नालिकेरं कपौ" यद्वद् द्विके दधिफलं यथा ॥ २९६ ॥
चन्दने मक्षिका यद्वद् रामठं कुङ्कुमे यथा । कर्पूरे लशुनो यद्वत् तथाऽत्र त्वं न चित्तहृत् ॥ २९७ ।। 20
-विशेषकम् । विश्वश्रोतःश्रवद्विस्र"जंबालकलुषाकृतौ । लज्जास्थाने ऽबलादेहे रज्यन्ते" के कृमीन् विना ॥ २९८ ॥ श्रुत्वेति तानुवाचासौ नाहं "पूज्याभिलाषिणी । आययौ भवतो मार्गभ्रष्टान् बोधयितुं स्फुटम् ॥ २९९ ।। संपत्संपत्तये दानधर्म लोकोऽनुरुध्यते । ऐश्वर्याय तपस्तप्यं तच्च राज्यं विना नहि ॥ ३०० ।। स्वर्भुवोरपि तत्रापि सारं सारङ्गलोचना । यया विना नदेवानामवकेशीव पुंजनुः ॥ ३०१॥
उक्तञ्चराज्ये सारं वसुधा वसुन्धरायां पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वखम् ॥ ३०२ ॥ जगत्पथि" न वर्तन्ते विपरीताग्रहग्रहाः । अवाप्तवांछया प्राप्तं त्यज्यन्तो जनहास्यदाः ॥ ३०३ ॥
दुर्बुद्धिवृद्धितो दैवदण्डिता इव ते प्रभो ! । अवधारय पाखण्डखेदितो मा स्म भूर्जडः ॥३०४॥-युग्मम् । 30
महाभक्त्याऽऽमराजेन" प्रैष्यहं प्राणवल्लभा । विज्ञा मनोहरप्रज्ञा गुणरक्तधराधिपा ॥ ३०५ ॥
.
25
10 तं । 2N गुणशास्ति। 3 N भटिं। 4 N सोद्यमं । * 'क्षरे मोक्षे काव्यादिके च' इति C टिप्पणी। । 'कंचुके' इति C टि.15 A नाशने। 6 N मणिम्मि। 7 N B तच्चिय । 8 N ससज्ज सज्जयः । 9 N संतोषयक्षराक्षसम् । 10 N ब्रह्म'चर्म11 'मा' इति C टि. | 12 A प्राणिवधो। 13 N पपौ। 14 "हिंगु' इति C टि.। 15 A°द्विध'; B C विश्र। 16 N लन्जनीये। 17 N रजन्त्यके। 18 N पूजा। 19 N स्वर्भुवोपि च । 20 B N पुंजनः। 21 N जगत्यपि । 22N ग्रहप्रहम् । 23 A महाराजेन ।