SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ११. बप्पभट्टिसूरिचरितम् । ९१ यावत् पश्यति राजा तदामनामाथ दृष्टवान् । श्रीबप्पभट्टेरापृच्छय हेतुप्रत्यायकः प्रभुः ॥ २६० ॥ गृहागतो' नृपः शत्रुर्नार्चितो न च साधितः । द्विधापि चिरवैरस्य निर्वृत्तिर्न प्रवर्तिता ।। २६१ ॥ तथा च विरहः पूज्यैरुपतस्थेऽतिदुःखदः । यावल्लभ्यं तु लभ्येत किं ब्रूमः सांप्रतं प्रभो ! ॥ २६२ ॥ गुरुराह महाराज ! मा खेदोऽत्र विधीयताम् । हंसा इव वयं येनाप्रतिबद्ध विहारिणः || २६३ ॥ आपृष्टोऽसि महाबाहो ' यामः स्वं नाम सार्थकम् । कुर्यात् यथा परे लोका निर्मलाः स्युः सुहृत्तम ! ॥ २६४ ॥5 इत्युक्त्वातो निरीयागात् संगत्यामनृपेण च । करभीभिरभीपुंभिः सुरभिर्यशसा गुरुः ॥ २६५ ॥ मार्गे तदासनारूढः प्रभुणा सह संचरन् । पुलिन्दमेकं कासारे क्षिप्तास्यं वारिमध्यतः ॥ ३६६ ॥ पिबन्तं च छगलवद् दृष्ट्वा गुरुपुरस्तदा । आह प्राकृत काव्यार्द्धमपूर्वेक्षास कौतुकः ॥ २६७ ॥ तथा हि ९. १०. पसु जेम पुलिंद पीअइ जलु पंथिउ कमणिहिं कारणिण' । -इत्याकर्ण्य प्रभुः प्राहोत्तरार्द्धं तत्क्षणादपि ॥ २६८ ॥ विलम्बन्ते न काव्येषु सिद्धसारस्वताः कचित् । तच्च - करबेवि करंबिय कजलिण मुद्धहि अंसुनिवारणिण ॥ २६९ ॥ प्रत्ययार्थं पुलीन्द्रश्च' समाकार्य स भूभुजा । पृष्टो लज्जानतास्योऽयं यथावृत्तमथावदत् ॥ २७० ॥ नाथ ! प्रवसने युष्मद्वधूं सांत्वयतः सतः । सांजनाश्रुप्रमृष्टे' मेऽभूतां कज्जलितौ करौ ॥ २७९ ॥ हर्षप्रकर्षमासाद्य वृत्तान्तेनामुना नृपः । सुरेन्द्र इव सौधर्म्म द्राक् कन्याकुजमासदत् ॥ २७२ ॥ प्रविवेशोत्सवेनैष प्राच्यात् सातिशयेन सः । कोटिकोटिगुणामच मकार्षीच्च गुरोस्तथा ॥ २७३ ॥ इतच श्रीसिद्धसेनसूरयो जरसा भृशम् । आक्रान्ताः कृतकृत्यत्वात् सेच्छाः प्रायोपवेशने ॥ २७४॥ बभर्विधेयस्य विनेयस्य मुखाम्बुजम् । दिदृक्षवो मुनिं प्रैषुर्वृत्तं चाह्वानहेतवे ॥ २७५ ॥ तच्चेदम् सारीरं सयलं बलं विगलिअं दिठ्ठी वि कट्ठेण मे gody पई परिगयप्पायं तहा आउगं । पाणा पाहुणय व्व गन्तुमहुणा वति वंछा तुमं मंदहुं जइ अत्थिता लहु लहु इज्जाहि निस्संसयं ॥ २७६ ॥ तं दृष्ट्वा बहुमानार्द्रा गुरौ द्रागाजगाम च । राजपुंभिः समं मोढेरके प्रभुपदान्तिके ॥ २७७ ॥ प्रभोः स न्यासविन्यासं रुन्धन् प्रथमदर्शने । अतृप्तस्तस्य वात्सल्ये तेनासौ जल्पितः शमी ॥ २७८ ॥ तथा हि वपुः कुब्जीभूतं तनुरपि शनैर्यष्टिशरणा विशीर्णा दन्तली श्रवणविकलं कर्णयुगलम् । निरालोकं चक्षुस्तिमिरपटलध्यामलमहो मनो मे निर्लजं तदपि विषयेभ्यः स्पृहयति ॥ २७९ ॥ ततो वत्स मतिस्वच्छ गच्छवात्सल्यतत्परः । भव त्वं कुरु साहाय्यं प्रेत्य मे चानृणो भव ॥ २८० ॥ 1 A गृहायातो । 2 A महाराज । 3 A कुर्यात्तथा । 4 C छगलक° । 5 C पसु जेम पुलिंदउ कमणिहि कारणिण । 6 N पुलिंदस्य । 7 A प्रमृष्टोर्म ; B प्रमृष्टे मैर्भू; N प्रमृष्टौ मा° । 8 N प्राच्याशाति° । 9 A गुरुसाहाय्यं । 10 15 20 25 30
SR No.002516
Book TitlePrabhavaka Charita
Original Sutra AuthorPrabhachandracharya
AuthorJinvijay
PublisherZZZ Unknown
Publication Year1940
Total Pages252
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy