________________
९०
प्रभावकचरिते
द्रियत्वान्निर्लोभत्वाच्च शीतस्तदस्माकमनेन सह कथं मीलक इति । तथा, धना देशीशब्देन पत्नी, सा उत्सुका; प्रियश्च मन्दस्नेहः। ततः कथं मीलको भवति । विरहेण यन्मानुषं म्रियते मृततुल्यं प्राणशेष भवति, तस्य को निहोरक उपरोधः, तत्र कृतेऽपि न जीवति । मिलित एव प्रणयिनि जीवति। तथा कर्णे पवित्रिकेयं जनो जानाति दोरकं द्वित्रिगुणावलिततन्तुरूपं स्थगीधरस्येति वास्तवार्थः॥१॥ 5 तथा-तप्तं तपस्तदिच्छतीत्येवं शीलस्तपश्चरणेच्छुः स तप्तैषी। तथा, अली भूषाप्रिय एको लक्षणया सकामः। 'नाकामी मंडनप्रियः' इति वचनात् । अनयोर्मीलकविषये का ईहा चेष्टा, किंतु न कापि । तथा उप्तं धनं यैस्ते धनोप्ताः, आहिताश्यादित्वात् क्तांतपरनिपातः, तेषामावली श्रेणिर्दानेश्वरसमूहस्तस्य प्रियो वल्लभः। दानेश्वराणां हि सत्पात्रेच्छा विशेषतो भवति । स चार्थादाचार्यः। स मन्दस्नेहो निर्मोह इत्यर्थः । तथा, विरहे विशिष्टैकान्ते तद्धेतोम्रियते, लक्षणया तदर्थ सन्तप्यत इत्यर्थः। तस्य का न होरा मुहूर्तरूपाः। स सर्वदा तस्य विरहे सन्तप्त 10 एवास्ते । स क इति प्रश्नाध्याहारे, कन्नि-कान्यकुले, पवितडित्समानः-विद्युत्समस्तेजस्वी, जनो विद्वजनो मल्लक्षणः, स जानाति 'दोरा' द्वौ राजानौ । 'वास्तवेऽर्थ-द्वावेव राजानौ धर्म आमश्च विद्वत्प्रियाविति मञ्चित्ते । गूढार्थस्तु-एतावता राजन् ! त्वया ज्ञेयम् , यहुरुप्रतिज्ञानिहाय आमोऽत्रायातोऽस्तीति द्वितीयोऽर्थः ॥२॥
तथा-तप्तिः-सारा शीतला यत्र, श्लथ आदर इत्यर्थः। स ततिशीतलः। 'स्वराणां स्वराः प्रायोऽपभ्रंशे' इतीकारः। तत्र मीलकः कीदृशः। यतः-ध्वनदुक्तावली, चमत्कारिकाव्यश्रेणिवल्लभा यस्य, अर्थादाचार्यः। सोऽस्मासु 15 मन्दस्नेहः। स उपरोधेन न गृह्यत इत्यर्थः। तथा, विरहे अर्थाद् विषयवियोगे सर्वसंगपरित्यागे सति योऽमरति मानुषः पुरुषः, देववत्सुखीभवति, तस्य कः स्नेहः सम्बन्धादिषु । निहोरक उपरोधः, स उपरोधेन न गृह्यत इत्यर्थः। करणप्रवृत्तिर्दानेश्वरत्वात्कर्णरीतिः। दोरा-दोषा राजते महावाहुः स आम एव । एवंविधमपि सूरिर्जनमिव प्राकृतमिव जानाति न किंचिदित्यर्थः॥३॥
तथा-तत्त्वानि ईष्टे तत्त्वेशी, अत एव अली संगनिषेधी, तस्य मेलः संसर्गः तस्य अवोऽवाप्तिः । 'स्वराणां 20 स्वरा' इत्याकारः। तथा, के ब्रह्मणि, ईहा चेष्टा, यस्य स केहः-परमब्रह्मेच्छः दीर्घः प्राग्वत् । धनयुक्तानामावली
श्रेणिः । प्रिया अमन्दस्नेहा अत्यर्थप्रीतिर्भवति । विगतरागेषु हि सर्वः प्रीतिमान् । धनवन्तोऽपि तत्रैव रति विदधति । तथा, विः पक्षी गरुडः, स रथो यस्य स विरथो-विष्णुस्तस्मिन्नर्थात् चित्तस्थे, यो म्रियते तस्य को निभः सदृशः। स च रा राजेव एवं भवति । गुरौ चित्तस्थे मृत्युरपिलाध्यः। तथा, जलनद्या गंगाया: सका
शात् का अन्या पवित्रा । अयमेव भगवान् पूज्यः । तथा, 'दोरा' द्वौ राजानौ संगतौ यस्य स द्विराट्, सर्व25 सामर्थ्ययुक्तो भवानेव यदुचितं तद्विधेहीति चतुर्थोऽर्थः॥४॥
॥ तत्तीसीअलीटीकायां ग्रंथाग्रं ३२; अ० ८॥ श्रीबप्पभहिना चैवमर्थानां साष्टकं शतम् । व्याख्यातं मतिमान्येन न जानीमो वयं पुनः ॥ २४९ ॥ तत उत्थाय रात्रौ च वारवेश्यागृहेऽवसत् । अमूल्यं कङ्कणं दत्वाऽस्याः प्रातर्निरगाद् गृहात् ॥ २५० ॥ द्वितीयं राजसौधस्य द्वारि त्यक्त्वा खरांशुरुक् । इन्द्रकीले ययौ तस्माद् बहिरस्थाद् रहोवने ॥ २५१ ॥ ततः प्रातर्मुनिस्वामी संगत्य नृपतेः सभाम् । आपप्रच्छे नृपः कन्यकुब्जप्रस्थानहेतवे ॥ २५२ ॥ तेन पूर्णप्रतिज्ञायामज्ञातायां कथं त्विति । राज्ञा पृष्टः समाचख्यावामभूप इहागमत् ॥ २५३॥ विद्वत्कथनतस्तेन कथितं यद्यदीदृशः । ज्ञायतां सैष एवेति 'दो रा' शब्दात् तथा पुनः ।। २५४ ।। द्वौ राजानौ इति स्पष्टं मातुलिंगस्य दर्शनात् । इदं किमिति पृष्टे च 'बी ज उ ।' त उत्तरात् ॥ २५५ ॥ तथा 'तू अरि प तं' ति तवारिपत्रमित्यथ । संस्कृताद्भवतीत्येतत् तवाये जगदे स्फुटम् ।। २५६ ॥ ततो विप्रतिसारो*ऽस्य प्रससार प्रकर्षतः । धिगस्ति मम मूर्खत्वं न ज्ञातं कथितेऽपि यत् ॥ २५७ ॥ ततोऽवसर एतस्मिन् वारवामा प्रभोः पुरः । कङ्कणं मुमुचे रत्नरोचिरस्ततमस्ततिः ॥ २५८ ॥ क्षत्ताऽपरं समाथ भूपालाय व्यजिज्ञपत् । द्वारेन्द्रकीले केनापि मुक्तं नाथ ! न वेझ्यहम् ॥ २५९ ॥
30
35
1N वा सूत्रार्थः । 2 N स वा इति । 3 N नास्ति 'कन्नि-। 4 N वा एवाऽर्थे । 5 N नास्ति 'एतावता'। 6 N नास्ति 'एव'। 7A भवान् । 8 N खरांशुरुक् । * 'पश्चात्तापः' इति C टिप्पणी ।