________________
११. बप्पभट्टिसूरिचरितम् ।
15
तद्यथाअङ्गैरुत्पुलकैः 'प्रमोदसलिलप्रस्यन्दिभिलोचनै
राकाद्भुतसंकथास्तव सुधीभर्तुः प्रसन्नात्मनः । सौजन्यामृतनिझरे सुमहति स्नातुं विपद्वारिधेः .
पारं गन्तुमपारपौरुष ! वयं त्वां द्रष्टुमभ्यागताः॥ २३३ ॥ श्लोकं विचित्रबन्धेन लिलेख स खटीदलात् । कौतुकादामभूपाल शालिसौहार्दरङ्गितः ॥ २३४ ॥
तथा हिअ ति अति अन्म अलं प्री द्य र द्य ज द्य प द्य। मे ला मे ला मे लं मे लं
10 फ स फ सफ स क स ॥ २३५॥ तं च गोमूत्रिकाबन्धं ज्ञात्वा गुरुरपि स्वयम् । वाचयामास दोषज्ञैरपि ज्ञातं परैर्नहि ॥ २३६ ॥
तथा हिअद्य मे सफला प्रीतिरद्य मे सफला रतिः।
अद्य मे सफलं जन्म अद्य मे सफलं फलम् ॥ २३७॥ विद्वद्गोष्ठ्या विनिद्रं तं विश्रमय्य क्षपाक्षणे । प्रगेऽशङ्को नृपास्थानं सूरिः प्राप यथास्थितिः ॥ २३८ ॥ आमराजोऽप्यथ श्रीमानभ्रच्छन्न इवांशुमान् । विशिष्टैः स्वार्थनिष्ठोऽगात् स स्थगीधरकैतवात् ॥२३९॥ आमविज्ञप्तिकां धर्मराजस्यादर्शयद् गुरुः। आगमिष्यद्वियोगाग्निज्वालामिव सुदुःसहाम् ॥ २४०॥ वाचयित्वा च तां पृष्टो दूतस्ते कीदृशो नृपः । स प्राहास्य स्थगीभर्तुस्तुल्यो देव ! प्रबुध्यताम् ॥ २४१ ॥ मातुलिंग करे बिभ्रत् सैष पृष्टश्च सूरिणा । करे ते किं स चावादीद् 'वी ज उ रा" इति स्फुटम् ॥ २४२ ॥20 दूतेन चाढकीपत्रे दर्शिते गुरुराह सः । स्थगीधरं पुरस्कृत्य 'तू अ रि पत्त' मित्ययम् ॥ २४३ ॥ प्राकृतेनोत्तरं प्रादाच्छलेषेण ज्ञापनोपमम् । अवबोधाय यदृच्छा तु धर्मस्यर्जुचेतसः ।। २४४ ॥ अथोवाच प्रधानश्च सूरिरेष श्लथादरः । अस्मास्विति प्रतिज्ञा य' दुस्तरां विदधे ध्रुवम् ॥ २४५ ॥ विहितेऽत्रापि चेत् पूज्य आयाति प्राज्यपुण्यतः ।
अस्माभिः सह तद्देवाः प्रतुष्टा नो विचार्यताम् ॥ २४६ ॥-युग्मम् । 25
यतःतत्ती सीअली मेलावा केहा,
धण उत्तावली प्रिय मंदसिणेहा । विरहिहिं माणुसु जं मरइ तसु कवण निहोरा, कंनि पवित्तडी जणु जाणइ दोरा ॥ २४७॥
30 राज्ञोचे वस्तुकस्यास्य कीदृगर्थः प्रभुस्ततः । बप्पभट्टिपस्याने व्याख्यातं ख्यातधीनिधिः ॥ २४८ ॥ तथाहि-एका लोहपिण्डी वह्निना तप्ता । अर्थात् ज्ञेया। एका शीतला । अनयोर्मीलकः संसर्गः कीदृशः। उभयोरपि तप्तयोरेव सम्बन्धो भवति । इत्यनेन किमुक्तम्-यद्वयं रणरणकतप्ताः, अयं च औदासीन्याजितें
1N प्रसाद°1 2 AC°दुःसहम् । 3 N द्विजराज'। 4 A ज्ञापनोत्तमम् । 5A अवबोधये; BC अवबोधे। 6 A Bनु। 70 प्रतिज्ञाय दुःपूरां । 8 A प्राच्य । 9 C माणुस । 10 N व्याख्यादाख्या ।
प्र. १२