Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 119
________________ प्रभावकचरिते 10 15 वैराग्य एव मुक्तिः स्यात् सर्वदर्शनसंमतम् । कार्या नात्राधृतिभिक्षुर्जेयो मे तत्कृतोन्नतिः ॥ ३८८ ॥ धर्मराजस्य सम्यक् कुविचारादिदमादृतम् । मदाश्रितो यतो वादस्तस्यैवोपकरिष्यति ॥ ३८९ ॥ कुत्राप्यवसरे तस्मादस्तु वाक्पूरतो' रणः । संमान्य प्रेषय प्रेष्ठपुमांसं धम्मभूपतेः ॥ ३९० ॥ आमराजेन कृत्वैतत् प्रहितः समयं भुवम् । व्यवस्थाप्य जगामासौ प्रोचे तत्स्वामिनः पुरः॥ ३९१ ॥ 5६१४. वाग्विग्रहाय वादीन्द्रं राजा वर्द्धनकुञ्जरम् । धर्मः संवाहयामास गीष्पतिं वासवो यथा ॥३९२॥ चतुर्दिगन्तविश्रान्तकीर्तयः सुहृदस्ततः । आहूयाभ्यच्य सभ्यत्वे वादेऽस्मिन् विहिता मुदा ॥ ३९३ ॥ परमारमहावंशसम्भूतः क्षत्रियाग्रणीः । तस्य वाक्पतिराजोऽस्ति विद्वान् निरुपमप्रभः ॥ ३९४ ॥ पूर्वं परिचितश्चासौ बप्पभहिप्रभोस्ततः । तस्य वाग्मर्मविज्ञानहेतौ संवाहितो मुदा ।। ३९५ ॥ व्यवस्थितदिने प्राप प्रदेशं देशसन्धिगम् । सभाधीशमहासभ्यैः समं वर्द्धनकुञ्जरः ।। ३९६ ।। कन्यकुब्जादपि श्रीमानामः कामं सुधीनिधिः । श्रीबप्पभट्टिना विद्वद्वन्दसन्निधिना समम् ॥३९७।। भुवं तामेव संप्रापातपत्राच्छादिताम्बरः। आवासान् स्वःपुराभासान् दत्वावस्थितवानथ ॥३९८॥-युग्मम् । आजन्म सर्वदा दृष्टशस्त्राशस्त्रिश्लथादरः । अदृष्टपूर्ववाग्युद्धप्रेक्षायै सकुतूहलः ॥ ३९९ ॥ अहंपूर्विकया सिद्ध-विद्याधरसुरव्रजः । समेतश्चाप्सरोवगैः स्वर्गवद्गगनाङ्गणे ॥ ४०॥ कौतुकाकृष्टचेतोभी राजसभ्यैर्बहुश्रुतैः । ईयतुः सङ्गतौ तत्र तौ वादि-प्रतिवादिनौ ॥ ४०१॥ उपविष्टेषु सभ्येषु श्रुत्यधीनमनस्सु च । स्तिमितात्र सभा साऽभूदालेख्यलिखिता किल ॥ ४०२ ।। निजं निजं नराधीशमाशिषाभिननन्दतुः । स्वस्वागमाविरोधेन सभ्यानुमतिपूर्वकम् ॥ ४०३ ।। ततः श्रीसौगताचार्यः पूर्वं वर्द्धनकुञ्जरः। आशीर्वादमुदाजहे व्यथकं द्वेषिपर्षदाम्"॥ ४०४ ॥ तथा हिशर्मणे सौगतो धर्मः पश्य वाचंयमेन यः। आदृतः साधयन् विश्वं क्षणक्षणविनश्वरम् ॥ ४०५ ॥ अथ श्वेतांबराचार्यो बप्पभहिः सुधीपतिः । अभ्यधत्ताशिर्ष स्वीयां भूपालाय यथा तथा ॥ ४०६॥ अर्हन शम्र्मोन्नतिं देयान्नित्यानन्दपदस्थितः । यद्वाचा विजिता मिथ्यावादा एकान्तमानिनः ॥ ४०७ ॥ उभयोराशिषः श्लोकौ निरूचुः पार्षदास्तदा । असौ धर्मो गतः सम्यग् यमिता गीश्च वादिभिः॥४०८॥ क्षणभङ्गि जगञ्चोक्तं भङ्गस्यैवानया गिरा । सौगतस्यानुमीयेत वाग्देवी सत्यवादिनी ॥ ४०९॥ नित्यानन्दपदश्रीदो देव एकान्तविग्रही। मिथ्यावादविजेत्री गी: श्वेतभिक्षोस्ततो जयः॥ ४१०॥ इति निश्चित्य ते तस्थुर्यावन्मौने सभासदः । तावत् कस्तूरिका हस्ते कृत्वा बौद्धोऽत्रवीदिदम् ॥ ४११ ॥ 'कसु तूरी उपगरई' प्रोक्ते प्राकृत" उचिवान् । आचार्य उपकीयं रजकस्येति" विद्यताम् ॥ ४१२ ॥ इति तत्प्रश्नसङ्केतादुत्तरेणाधरीकृते । तावद् रक्ताम्बरः सर्वानुमतः पक्षमब्रवीत् ॥ ४१३ ॥ 30 सर्वानुवादेनानूद्य ततस्तत्पक्षदूषकान् । उदाजहार व्याहारान् प्रामाणिकपतिर्मुनिः ।। ४१४ ॥ उत्तरादुत्तरं चैवमुक्ति-प्रत्युक्तिरीतितः । षट् व्यतीयुस्तदा मासास्तयोर्विवदमानयोः ॥ ४१५ ॥ श्रीमानामनृपोऽन्येारूचे सूरि कदा प्रभो ! । व्याघातो" राजकार्याणां वादः संपूरयिष्यते ॥ ४१६ ॥ 20 25 1A वाक्यरतो। 2 A B प्रष्टपुंमांसं। 3N सययौ। 4 N वादींद्रराजवर्द्धन । 5 N धर्म। 6 N समाधीश'। 7N काम। 8 C सभम् । 9N स्वःपुरापट्टे। 10 A°ता तत्र। 11 B C पर्षदा। 12 A स्थितं । 13 A सदं सदः । 14 A नास्ति 'प्राकृत'। 15 A रजस्येति । 16 B व्यापातो।

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252