Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 107
________________ प्रभावकचरिते 10 15 प्रविवेश विशामीश इव सच्छत्रचामरः । अभ्रंलिहद्विपारूढो विवोढोपशमश्रियः ॥ १२३ ॥-युग्मम् । सौधे राजा ततः सिंहासने गब्दिका( कया ?)स्तृते' । उपावेशयदानन्दात् सुहृदं मुनिनायकम् ॥ १२४ ॥ प्रांशुप्रभावनोद्भूतरङ्गः संघः प्रभोरथ । परिचर्यां परां चक्रे वक्रेतरमनाः सदा ॥ १२५ ॥ शश्वद्राजसभावाप्तावपि निर्धूतकल्मषः । बप्पभहिः 'प्रभुः श्रीमान् भूपाने सुकृतं जगौ ॥ १२६ ॥ कल्याणपादपारामजलवाहजलप्लवः । धर्म एव निराधाराधारः परपदप्रदः ॥ १२७ ॥ तस्यादौ प्रथितं दानं तच्च क्षेत्रेषु सप्तसु । तेषु च प्रथमं विद्धि सिद्धिकृजिनमन्दिरम् ।। १२८ ॥ अपरं विम्बनिर्माणमथ सिद्धान्तलेखनम् । चातुर्वर्णस्य संघस्याभ्य.तानि किल क्रमात् ॥ १२९ ॥ तदन्तरा च सर्वेषामाधारो जैनमन्दिरम् । जिनाः श्रुतधराश्चात्र स्थिताः संघप्रबोधकाः ॥ १३० ॥ श्रीमतां सति सामर्थ्य विधेयं विधिवञ्च तत् । बहवो यत्प्रभावेन भव्याः सद्गतिमाप्नुयुः ॥ १३१॥ इति तद्वाक्यमाकर्ण्य प्रकर्णानां शिरोमणिः । अवोचदामभूपालः प्रालेयांशुस्फुरद्यशाः ॥ १३२ ।। पृथ्वी देशः पुरं हर्म्य तिथिर्मास ऋतुः समाः । धन्यान्येतानि भास्यन्ते यानि त्वद्देशनांशुभिः ॥ १३३ ॥ इत्युक्त्वाऽदात् तदादेशं भूमिलक्षणवेदिनाम् । कोशकर्मनराध्यक्षपुंसां च श्रीजिनौकसे ॥१३४॥-युग्मम् । विश्वकर्मविदस्तत्र विश्वकर्मसु कर्मठाः । प्रारेभिरे महाभूत्या प्रासादं सुकृतोत्सवैः ॥ १३५ ॥ दिनैः कतिपयैः सैकशतहस्तोन्नतस्थितिः । प्रासादः परिनिष्पेदे सर्वलोकमुदा समम् ॥ १३६ ॥ पूर्णवर्णसुवर्णाष्टादशभारप्रमाणभूः । श्रीमतो वर्द्धमानस्य प्रभोरप्रतिमानभूः ॥ १३७ ॥ निरमाप्यत संप्राप्यागण्यपुण्यभरैजनैः । धार्मिकाणां संचरन्ती प्रतिमा प्रतिमानसम् ॥ १३८ ॥-युग्मम् । श्रीबप्पभट्रिरेतस्या निर्ममे निर्ममेश्वरः । प्रतिष्ठां स प्रतिष्ठासुः परमं पदमात्मनः ॥ १३९॥ तथा गोपगिरी लेप्यमयविम्बयुतं नृपः । श्रीवीरमन्दिरं तत्र त्रयोविंशतिहस्तकम् ॥ १४०॥ सपादलक्षसौवर्णटङ्कनिष्पन्नमण्डपम् । व्यधापयन्निजं राज्यमिव सन्मत्तवारणम् ।। १४१ ॥-युग्मम् । 20 एवमभ्यर्हितो राज्ञा गच्छन् सच्छत्रचामरः । राजकुञ्जरमारूढो मुख्यसिंहासनासनः ॥ १४२ ॥ मिथ्यात्वध्यामलाभोगान् लोकान् मत्सरपूरितान् । बप्पभदिप्रभुश्चक्रे वक्रेतरनरस्तुतः ॥१४३॥-युग्मम्। राजा पूज्यद्विजातीनां संसर्गादनुवर्तकः । अन्यदान्यन्महीपालासनमाधत्त सूरये ॥ १४४ ॥ ततस्तदाशयं ज्ञात्वा विगताकारवैकृतः । जगाद प्रतिबोधाय तस्यागाधैकसत्त्वभृत् ।। १४५॥ कृतप्राकृतसत्त्वानां मदादीनां जनद्विषाम् । दम्भस्तम्भादियुक्तानां कथं लक्ष्या भवादृशाः ॥ १४६ ॥ ततः, यदुक्तंमर्दय मानमतंगजदर्प विनयशरीरविनाशनसर्पम् । क्षीणो दर्पाद् दशवदनोऽपि यस्य न तुल्यो भुवने कोऽपि ॥ १४७॥ इत्याकर्ण्य गिरं धीरां बुद्धा सूरिं व्यजिज्ञपत् । प्रभो! त्वद्वाक्यमत्रैर्मेऽवलेपगरलं हृतम् ॥ १४८ ॥ प्रभवः प्रभवः क्षेत्रे मम धान्यं हि सौहृदम् । स्वादंतामत्र संपन्नभक्तपाकादिसंस्कृतम् ॥ १४९॥ 80 ६५. अन्तःपुरेऽन्यदा म्लानवक्रभां वल्लभां तदा । राजा दृष्ट्वाह गाथाध स्वेच्छयेति प्रभोः पुरः ॥ १५० ॥ तद्यथा'अजवि सा परितप्पइ कमलमुही अत्तणो पमाएण ।' सारसारस्वतोद्गारसिद्धयाथ गुरुर्गिरा ॥ १५१ ॥ 1N गष्टिकयास्तृते । 2 N बप्पभट्टिप्रभुः, C भट्टिः प्रभुश्रीमान् । 3 B N °धाराधारं । 4 N °धरा यत्र । 5 A °वेदिना। 6CN सुप्रति 17 N राजा प्रद्विजजातीनां । 8 N द्रुतम् ।

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252