________________
प्रभावकचरिते
10
15
प्रविवेश विशामीश इव सच्छत्रचामरः । अभ्रंलिहद्विपारूढो विवोढोपशमश्रियः ॥ १२३ ॥-युग्मम् । सौधे राजा ततः सिंहासने गब्दिका( कया ?)स्तृते' । उपावेशयदानन्दात् सुहृदं मुनिनायकम् ॥ १२४ ॥ प्रांशुप्रभावनोद्भूतरङ्गः संघः प्रभोरथ । परिचर्यां परां चक्रे वक्रेतरमनाः सदा ॥ १२५ ॥ शश्वद्राजसभावाप्तावपि निर्धूतकल्मषः । बप्पभहिः 'प्रभुः श्रीमान् भूपाने सुकृतं जगौ ॥ १२६ ॥ कल्याणपादपारामजलवाहजलप्लवः । धर्म एव निराधाराधारः परपदप्रदः ॥ १२७ ॥ तस्यादौ प्रथितं दानं तच्च क्षेत्रेषु सप्तसु । तेषु च प्रथमं विद्धि सिद्धिकृजिनमन्दिरम् ।। १२८ ॥ अपरं विम्बनिर्माणमथ सिद्धान्तलेखनम् । चातुर्वर्णस्य संघस्याभ्य.तानि किल क्रमात् ॥ १२९ ॥ तदन्तरा च सर्वेषामाधारो जैनमन्दिरम् । जिनाः श्रुतधराश्चात्र स्थिताः संघप्रबोधकाः ॥ १३० ॥ श्रीमतां सति सामर्थ्य विधेयं विधिवञ्च तत् । बहवो यत्प्रभावेन भव्याः सद्गतिमाप्नुयुः ॥ १३१॥ इति तद्वाक्यमाकर्ण्य प्रकर्णानां शिरोमणिः । अवोचदामभूपालः प्रालेयांशुस्फुरद्यशाः ॥ १३२ ।। पृथ्वी देशः पुरं हर्म्य तिथिर्मास ऋतुः समाः । धन्यान्येतानि भास्यन्ते यानि त्वद्देशनांशुभिः ॥ १३३ ॥ इत्युक्त्वाऽदात् तदादेशं भूमिलक्षणवेदिनाम् । कोशकर्मनराध्यक्षपुंसां च श्रीजिनौकसे ॥१३४॥-युग्मम् । विश्वकर्मविदस्तत्र विश्वकर्मसु कर्मठाः । प्रारेभिरे महाभूत्या प्रासादं सुकृतोत्सवैः ॥ १३५ ॥ दिनैः कतिपयैः सैकशतहस्तोन्नतस्थितिः । प्रासादः परिनिष्पेदे सर्वलोकमुदा समम् ॥ १३६ ॥ पूर्णवर्णसुवर्णाष्टादशभारप्रमाणभूः । श्रीमतो वर्द्धमानस्य प्रभोरप्रतिमानभूः ॥ १३७ ॥ निरमाप्यत संप्राप्यागण्यपुण्यभरैजनैः । धार्मिकाणां संचरन्ती प्रतिमा प्रतिमानसम् ॥ १३८ ॥-युग्मम् । श्रीबप्पभट्रिरेतस्या निर्ममे निर्ममेश्वरः । प्रतिष्ठां स प्रतिष्ठासुः परमं पदमात्मनः ॥ १३९॥ तथा गोपगिरी लेप्यमयविम्बयुतं नृपः । श्रीवीरमन्दिरं तत्र त्रयोविंशतिहस्तकम् ॥ १४०॥
सपादलक्षसौवर्णटङ्कनिष्पन्नमण्डपम् । व्यधापयन्निजं राज्यमिव सन्मत्तवारणम् ।। १४१ ॥-युग्मम् । 20 एवमभ्यर्हितो राज्ञा गच्छन् सच्छत्रचामरः । राजकुञ्जरमारूढो मुख्यसिंहासनासनः ॥ १४२ ॥
मिथ्यात्वध्यामलाभोगान् लोकान् मत्सरपूरितान् । बप्पभदिप्रभुश्चक्रे वक्रेतरनरस्तुतः ॥१४३॥-युग्मम्। राजा पूज्यद्विजातीनां संसर्गादनुवर्तकः । अन्यदान्यन्महीपालासनमाधत्त सूरये ॥ १४४ ॥ ततस्तदाशयं ज्ञात्वा विगताकारवैकृतः । जगाद प्रतिबोधाय तस्यागाधैकसत्त्वभृत् ।। १४५॥ कृतप्राकृतसत्त्वानां मदादीनां जनद्विषाम् । दम्भस्तम्भादियुक्तानां कथं लक्ष्या भवादृशाः ॥ १४६ ॥
ततः, यदुक्तंमर्दय मानमतंगजदर्प विनयशरीरविनाशनसर्पम् ।
क्षीणो दर्पाद् दशवदनोऽपि यस्य न तुल्यो भुवने कोऽपि ॥ १४७॥ इत्याकर्ण्य गिरं धीरां बुद्धा सूरिं व्यजिज्ञपत् । प्रभो! त्वद्वाक्यमत्रैर्मेऽवलेपगरलं हृतम् ॥ १४८ ॥
प्रभवः प्रभवः क्षेत्रे मम धान्यं हि सौहृदम् । स्वादंतामत्र संपन्नभक्तपाकादिसंस्कृतम् ॥ १४९॥ 80 ६५. अन्तःपुरेऽन्यदा म्लानवक्रभां वल्लभां तदा । राजा दृष्ट्वाह गाथाध स्वेच्छयेति प्रभोः पुरः ॥ १५० ॥
तद्यथा'अजवि सा परितप्पइ कमलमुही अत्तणो पमाएण ।'
सारसारस्वतोद्गारसिद्धयाथ गुरुर्गिरा ॥ १५१ ॥
1N गष्टिकयास्तृते । 2 N बप्पभट्टिप्रभुः, C भट्टिः प्रभुश्रीमान् । 3 B N °धाराधारं । 4 N °धरा यत्र । 5 A °वेदिना। 6CN सुप्रति 17 N राजा प्रद्विजजातीनां । 8 N द्रुतम् ।