________________
११. बप्पभट्टिसूरिचरितम् । चकोरवदचन्द्रेऽभ्रे मराल इव पल्वले । वने मृगवदेकाकी स्तोकाम्भसि च मीनवत् ॥ ९३ ॥ मयूर इव धर्मौ वर्षासु जलधिर्यथा । संग्रामे कातरो यद्वद् विद्वान् वैधेयमण्डले ॥ ९४॥ चन्द्रवत् कृष्णपक्षान्तः क्षीयते विरहातुरः । स्वामी नः प्रत्यहं पूज्या ! अनेन सुहृदा विना ॥ ९५ ॥
-त्रिभिर्विशेषकम् । आचार्यत्वे प्रतिष्ठाप्य 'निष्ठाधिष्ठातृदेवतम् । अमुं प्रेषयतास्माभिः सह नः स्वामिनो मुदे ॥ ९६ ॥ 5 अस्योपदेशतो जैनमन्दिर-प्रतिमादिभिः । निर्मितैः सुकृतै राजा भवाब्धि लंघयेद् यथा ॥ ९७ ॥ श्रुत्वेति तत्पुरोऽवोचद् वाचंयमपतिस्तदा । चारित्राचारधौरेयः सुधामधुरया गिरा ।। ९८ ॥ रत्नदीपो यथागारे बाह्यान्तरतमोपहः । तेजस्वी निश्चलस्थेमा तथा बालर्षिरेष नः ॥ ९९ ॥ भानुनाम्भोरुहं यद्वत् शशिनेव विभावरी । शिखण्डीव पयोदेन मत्री मुद्रां विना यथा ।। १००॥ स्तम्भेनेवोज्झितं गेहं देहं च प्राणधारिणाम् । म्लायत्येव मनोवृत्तिस्तथास्माकममुं विना ।।१०१॥-युग्मम् । 10 इत्याकर्ण्य प्रभोर्वाचं प्राहुः कृतधियोऽथ ते । सन्तः परोपकारार्थे नात्माति गणयन्ति यत् ॥ १०२ ॥ तरवस्तरणेस्तापं स चाभ्रोल्लंघनक्लमम् । पाथोधि श्रमं सोढा वोढा कूर्मः क्षितेधुरम् ॥ १०३ ॥ वारिदो वर्षणक्लेशं क्षितिर्विश्वासुमतक्लमम् । उपकाराद् ऋतेऽमीषां न फलं किंचिदीक्ष्यते ॥१०४॥-युग्मम् । ततः प्रसादप्रावीण्यात् प्रेषयध्वं कृतीश्वरम् । एवं कृत्वा प्रभुत्वेऽस्मत्स्वामिवाधागिरेः पविम् ॥ १०५ ॥ तेषां निर्बन्धसम्बन्धादित्यभ्युपगते गुरुः । श्रीमन्तं संघमाहूय तत्प्रतिष्ठार्थमादिशत् ॥ १०६ ॥ 15 अथोत्सवेच्छुभिः स्वच्छैः' श्रावकैर्गच्छवत्सलैः । सद्यः समग्रसामग्र्यां विहितायां जिनालये ॥ १०७ ॥ लग्नेऽथ सौम्यषड्वर्गाधिष्ठिते परमाक्षरम् । सप्तग्रहबलोपेते श्रुतोक्तविधिपूर्वकम् ॥ १०८ ॥ शिष्यस्य विश्वशिष्यस्य कर्णे चन्दनचर्चिते । गर्जत्सु तूर्यसंघातेष्वहत्तत्त्वं न्यवीविशत् ॥ १०९ ॥
-त्रिभिर्विशेषकम् । बप्पभट्टिस्ततः श्रीमानाचार्यः कोविदार्यमा । दुर्वादिसिंहशरभोऽभवद् विश्वस्य विश्रुतः ॥ ११० ॥ 20 अथानुशिष्टो विधिवद् गुरुभिर्ब्रह्मरक्षणे । तारुण्यं राजपूजा च वत्सानर्थद्वयं ह्यदः ॥ १११ ॥ आत्मरक्षा तथा कार्या यथा न च्छल्यते भवान् । वामकामपिशाचेन यत्यं तत्र पुनःपुनः ॥ ११२ ॥ भक्तं भक्तस्य लोकस्य विकृतीश्चाखिला अपि । आजन्म नैव भोक्ष्येऽहममुं नियममग्रहीत् ॥ ११३ ॥ तङ्गत्तूर्यध्वनिः श्राद्धाङ्गना सङ्गीतमङ्गलः । गौरवाभ्यर्थितः संघेनाथ प्रायादुपाश्रये ॥ ११४ ॥
एकादशाधिके तत्र जाते वर्षशताष्टके (८११)। विक्रमात् सोऽभवत्सूरिः कृष्णचैत्राष्टमीदिने ॥११५॥ 25 ६४. श्रीमदाममहाभूपश्रेष्ठामात्योपरोधतः । अनिच्छतोऽपि संघस्य प्रेषीत् तैः सह तं गुरुः ॥ ११६ ॥
प्रयाणैः प्रवणैः प्राप कन्यकुब्जपुरं ततः । प्रासुके बहिरुद्देशेऽवतस्थे स वनाश्रिते ॥ ११७ ॥ उद्यानपालविज्ञप्तेः' परिज्ञाय समागतम् । मुनीशमवनीशोऽभूद् बद्धरोमाञ्चकञ्चकः ॥ ११८ ॥ ततः प्रत्यापणं हट्टशोभाशोभितरथ्यकम् । प्रतिगेहं प्रतिद्वारं बद्धवन्दनमालिकम् ॥ ११९॥ उद्यद्धपघटीधूमस्तोमैः कृष्णाभ्रविभ्रमम् । कुर्वाणमाहितोल्लोचैरेकच्छायं महीतलम् ॥ १२० ॥ 30 कश्मीरजद्रवैः सिक्तधरं काश्मीरभूमिवत् । नगरं नगभिद्रङ्गतुल्यं भूपतिरातनोत् ॥ १२१ ॥
-त्रिभिर्विशेषकम् । प्ररूढप्रौढसौहार्दवसुधाधीशसंस्तुतः । पुरं पौरपुरन्ध्रीभिराकुलाट्टालकं ततः ॥ १२२ ॥
| 10 घातॊ। 2N °पक्षान्ते । 30 °धिष्ठान 14 °विश्वभरक्लमं। 5 B कृतीश्वरः। 6 A पथि; N पतिं । 7 N खस्थैः । 8N श्रधांगतां । 9N B विज्ञप्ते ।