________________
प्रभावकचरिते
10
15
ताश्चेमा:पठितं लिखितं सम्यग्गणितं गीत-नर्त्तने । वाद्यं व्याकरणं छन्दो ज्योतिष शिक्षयों सह ॥ ६२ ।। निरुक्तं च तथा कात्यायनं च सनिघंटुकम् । पत्रच्छेद्यं नबच्छेद्यं सह रत्नपरीक्षयौँ । ६३ ।। आयुधाभ्यासयोगश्च गजारोहणमेव च । तुरंगारोहणं शिक्षा तयोः प्रत्येकमद्भुता ॥ ६४ ॥ मत्रवादो रसवादः खन्यवादस्तथैव च । रसायनं च विज्ञानवादो मतिविबोधकः ॥ ६५ ।। तर्कवादश्च सिन्तिो विषनिग्रह-गारुडे । शौकुने वैद्यकं चैवाचार्यविद्या तथागमः ॥ ६६ ॥ प्रासादलक्षणं चैवं सामुद्रिकमथ स्मृतिः । पुराणं इतिहाँसश्च तथा वेदविधिर्वरः ॥ ६७ ॥ विद्यानुवाद-दर्शनसंस्कारौ खेचरी कलौं । अमरीकरणं चेन्द्रजीलं पातालसिद्धिर्भृत् ॥ ६८ ॥ धूर्तानां शंबलं गंधैंयुक्तिः वृक्षचिकित्सयो । कृत्रिममणिमर्माणि सर्ववस्तुकृतिस्तथा ॥ ६९ ॥ वर्शकर्म पुष्कर्म चित्रकर्म कलाद्भुतम् । काष्ठे-पाषाणयोः कर्म लेपकर्म तथापि च ।। ७०॥ चर्मकर्म यंत्रकर्म तथा रसवतीविधिः । काव्यालंकार-हसिते संस्कृत-प्रकृिते तथा ॥ ७१ ॥ पैशाचिकं अपभ्रंशः कपटं देशभाषयों । धातुकर्म प्रयोगाणामुपायोः केवलीविधिः ॥ ७२ ॥ एवंविधकलानां च द्वासप्ततिमधीतवान् । अनन्यसदृशः कोविदानां पर्षदि सोऽभवत् ॥ ७३ ॥ तथा चाभ्यस्यतस्तस्य प्रज्ञादर्पणबिम्बितः । ययौ लक्षणतर्कादिशास्त्रत्रातः स्ववश्यताम् ॥ ७४ ॥ सब्रह्मचारितासख्याद् राजपुत्रः प्रपन्नवान् । बप्पभहे ! प्रदास्यामि प्राप्तं राज्यं तव ध्रुवम् ॥ ७५ ॥ कालेन केनचित् तस्यातंकिना जनकेन च । प्रधानाः प्रेषिताः पट्टाभिषेककृतिहेतवः (°वे?) ॥ ७६ ॥ कृच्छ्रादापृच्छय तं प्राप्तपुरं राज्येऽभ्यषिच्यत'। पित्रा स स्वर्गतेरस्य कृतवानौलदेहिकम् ॥ ७७ ॥
लक्षद्वितयमश्वानां चतुर्दशशतानि च । रथानां हस्तिनां पत्तिकोटी राज्यमसाधयत् ॥ ७८॥ ६३. स्वकीयसुहृदः प्रैषीदाबानाय नरानथ । आमनामा नृपः श्रीमानतिमानवविक्रमः ॥ ७९ ॥
तेषां चात्यादरात् संघानुमत्या गुरवस्ततः । प्राहिण्वन् बप्पभहिं तं गीतार्थैः परिवारितम् ॥ ८॥ तीर्थप्रभावनोन्नत्यै शनैः संयमयात्रया । जगामाध्यामधामश्रि पुरमाममहीशितुः ॥ ८१ ॥ तदागमलसद्वर्णाकर्णनादर्णवो यथा । द्विजराजसमुद्योतादुद्वेलः स तदाऽभवत् ॥ ८२॥ भूपः समग्रसामग्र्या संमुखीनस्ततोऽगमत् । कुञ्जरारोहणे 'विद्वत्कुञ्जरस्यार्थनां व्यधात् ॥ ८३ ॥ बप्पभट्टिरुवाचाथ भूपं शमवतां पतिः । सर्वसङ्गमुचां नोऽत्र प्रतिज्ञा हीयतेतमाम् ॥ ८४ ॥ राजोचे वः पुरा पूर्व यन्मया प्रतिशुश्रुवे । राज्यमाप्तं प्रदास्यामि तल्लक्ष्म वरवारणः ॥ ८५॥ काममेवामुमाधत्त चेद् यूयं तन्मम प्रभो! । 'उक्तदोषार्तिदानेनासुखं कर्तुं न साम्प्रतम् ॥ ८६॥ इत्यारोप्य बलात् पट्टकुञ्जरे धरणीधरः । जितक्रोधाद्यभिज्ञानधृतच्छत्रचतुष्टयम् ॥ ८७ ॥ विश्वस्य दर्शयन्तं सच्चामरैर्वीजितं प्रभुम् । प्रावेशयत् शमिश्रेणीश्वरमत्युत्सवात् पुरम् ॥ ८८ ॥-युग्मम् । राज्यचिह्नमिदं धुर्यमिति सिंहासनासनम् । सौधान्तरमनुत्वाहं भूपं मुनिरथावदत् ॥ ८९ ॥ जाते सूरिपदेऽस्माकं कल्प्यं सिंहासनासनम् । इति तस्य वचः श्रुत्वा खिन्नोऽन्यासन्यवीविशत् ॥ ९० ॥ दिनानि कतिचित्तत्रावस्थाप्य गुरुसन्निधौ । प्राजीयत् प्रधानौधैः समं मुनिपति नृपः ॥ ९१ ॥ मोढेरकस्थितं श्रीमसिद्धसेनमुनीश्वरम् । प्रणम्य प्रह्ववाणीभिरथ व्यज्ञपयन्नमी ।। ९२ ॥
20
30
___ 1 N °ऽभिषिच्यताम् ; A ऽभिषिच्यत । 2 N विद्वान् । 3 A काममेवाममा । 4 N उक्तवेशार्ति। 5 BN वीजितुं । 6 A °सनासनी। 7 N प्रधानायैः । 8N स्थिति।