________________
११. बप्पभट्टिसूरिचरितम् । तपित्रोः प्रतिपन्नेन पूर्वाख्या तु प्रसिद्धिभूः । शिष्यमौलिमणेरस्य कलासङ्केतवेश्मनः ॥ ३०॥ संघश्च तद्गुणग्रामरामणीयकरञ्जितः । विदधेऽभ्यर्थनां तेषामत्रावस्थानहेतवे ॥ ३१ ॥ योग्यतातिशयं चास्य ज्ञात्वा सद्गुरवस्ततः । सारस्वतं महामन्त्रं तत्रस्थास्तस्य ते ददुः ॥ ३२ ॥ परावर्त्तयतस्तस्य निशीथे तं सरस्वती । स्वर्गङ्गास्रोतसि स्नान्त्यनावृतासीद् रहोभुवि ॥ ३३ ॥ तन्मत्रजापमाहात्म्यात् तादृगपा' समाययो । ईषदृष्ट्वा च तां वकं परावर्त्तयति स्म सः ॥ ३४ ॥ खं रूपं विस्मरन्ती च प्राह वत्स ! कथं मुखम् । विवर्त्तसे भवन्मंत्रजापात् तुष्टाहमागता ॥ ३५॥ वरं वृण्विति तत्प्रोक्तो बप्पभट्टिरुवाच च । मातर् ! विसदृशं रूपं कथं वीक्षे तवेदृशम् ॥ ३६॥ स्वां तनुं पश्य निर्वस्वामित्युक्ते खं ददर्श सा । अहो निबिडमेतस्य ब्रह्मव्रतमिति स्फुटम् ॥ ३७॥ उच्चैश्च मन्त्रमाहात्म्यं येनाहं गतचेतना । ध्यायन्ती दृढतोषेण त्वत्पुरः समुपस्थिता ॥ ३८॥
वरेऽपि निस्पृहे त्वत्र दृढं चित्रातिरेकतः । गत्यागत्योर्मम स्वेच्छा त्वदीया निवृतो भव ॥ ३९ ॥ 10 १२. अन्यदा तत्र संस्थानां (नो ?) भद्रकीर्तिर्बहिर्गतः । वृष्टौ देवकुलं श्रित्वा तस्थौ स स्थैर्यसुस्थितः॥४०॥
तत्रस्थस्य पुमानेको नाकिपाकविडंबकः । समगस्त प्रशस्तश्रीवृष्टिव्याकुलितस्तदा ॥४१॥ श्यामाश्मोत्कीर्णवर्णोघा सहारहृदिवांगना । खस्तिप्रशस्तिरत्रास्ति विहस्तितजडस्थितिः ॥ ४२ ॥ काव्यानि वाचयामास महार्थानि सुधीरसौ । सख्याद् व्याख्यापयामास 'प्रत्यमाद् बप्पभहितः॥४३॥ तदाख्यारंजितस्वान्तः शान्ते वर्षेऽतिहर्षतः । ययौ सहैव वसतौ वसतौ तत्र च स्थितः ॥४४॥ 15 ततो गुरुभिराशीर्भिरानन्द्य समपृच्छयत । आमुष्यायणतां स्वस्याचख्यौ ब्रीडावशानतः ॥ ४५ ॥ वर्यमौर्यमहागोत्रसंभूतस्य महाद्युतेः । श्रीचन्द्रगुप्तभूपालवंशमुक्तामणिश्रियः ॥ ४६॥ कान्यकुञ्जयशोवर्मभूपतेः सुयशोऽङ्गभूः । पित्रा शिक्षावशात् किंचिदुक्तः कोपादिहागमम् ॥४७॥ अलेखीद् आमनाम खं क्षितौ खटिकया ततः । स्वनामाग्रहणेनास्य विवेकात् ते चमत्कृताः ॥४८॥ व्यमृशन् सूरयस्तत्र नखच्छोटन पूर्वकम् । पूर्व श्रीरामसैन्येऽसौ दृष्टः पाण्मासिकः किल ॥ ४९॥ 20 पीलुवृक्षमहाजाल्यां वस्त्रान्दोलकसंस्थितः । अचलच्छाययाऽस्माभिर्विज्ञातः पुण्यपूरुषः ॥५०॥ ततस्तज्जननी वन्यफलवर्ग विचिन्वती । अस्माभिर्गदिता वत्से ! का त्वं किं वा भवत्कुलम् ॥ ५१ ॥ कथमीहगवस्था च सर्वमाख्याहि नः पुरः। विश्वस्ता” यद्वयं त्यक्तसंगामुक्तपरिग्रहाः॥ ५२ ॥ साऽवादीत् तातपादानां किमकथ्यं ततः प्रभो! । श्रीकन्यकुब्जभूपालयशोवर्मकुटुम्बिनी ॥ ५३ ॥ अहं सुतेऽत्र गर्भस्थे सपन्या मत्सरोदयात् । पुरा लभ्यवरं प्रार्थ्य नृपानिर्वासितास्म्यहम् ।। ५४ ॥ 25 ततोऽनुशयतो हित्वा पितृ-श्वशुरमन्दिरे । स्थाने व आगमं वन्यवृत्त्या वर्ते प्रभोऽधुना ॥ ५५ ॥ श्रुत्वेति सान्त्विताऽस्माभिश्चैत्यशुश्रूषया स्थिरा । तिष्ठ बालं प्रवर्द्धख जनकस्येव वेश्मनि ॥५६॥ तत्सपत्नी च केनापि कालेन व्यनशत् स्वयम् । सा च राज्ञा चरैः शोधयित्वा पश्चादनीयत ॥ ५७॥ प्राच्यासंख्यगुणेनाथ मानेन बहुमानिता । वयं चात्र ततो देशाद् भूमावस्यां विजह्रिम ॥ ५८ ॥ इति श्रुतश्च वृत्तान्तस्तद्देश्यपुरुषव्रजात् । अनेन सांप्रतं भाव्यं तत्पुत्रेणैव धीमता ।। ५९॥
30 यदाकृतिः शरीरस्य लक्षणानीदृशानि च । नर्ते नृपसुतं पूज्या इति ध्यात्वाभ्यधुस्ततः ॥ ६०॥
तत्राव वत्स! निश्चिन्तो निजेन सुहृदा समम् । शीघ्रं गृहाण शास्त्राणि संगृहाणामलाः कलाः ॥६॥ 1 N तद्रूपा सा । 2 A B C वीक्ष्ये। 3 N प्रत्यगाद् । 4 N वशाननः। 5 C छोदन। 6 A विश्वस्था । 7 A संगात् । 8N°दनायिता ।
प्र०११