________________
प्रभावकचरिते
११. श्रीवप्पभट्टिसूरिचरितम् ।
10
15
१. बप्पभट्टिः श्रिये श्रीमान् यद्वृत्तगगनाङ्गणे । खेलति स्म गतायातै राजा सूरः' कविर्बुधः ॥ १॥
पीत्वा यद्गोरसं तृप्ता दृप्यन्तः कवितर्णकाः । बिभ्राणाः शृंगितां विज्ञगोपालैरपि दुर्दमाः ॥ २ ॥ तस्यैव चरितं किश्चित् कीर्तयिष्ये यथाश्रुतम् । मत्प्रज्ञामुकुरी(रो ?)द्योति साधुशृङ्गारभूषणम् ॥ ३ ॥ अस्ति स्वस्तिनिधिः श्रीमान् देशो गूर्जरसंज्ञया । अनुत्सेकविवेकाढ्यलोकः शोकाचलस्वरुः ॥ ४ ॥ यदेकांश प्रतिच्छन्दस्वरभ्रमुकुरस्थितम् । गौरीशमुनिबाहुल्यात् तत्पुरं पाटलाभिधम् ॥ ५॥ जितशत्रुर्महीनाथः पाथःपतिगभीरिमा । तत्रास्ति त्रासिताशेषबाह्यान्तररिपुव्रजः ॥ ६ ॥ चित्रशास्त्ररहस्यालिकन्दकन्दलनाम्बुदः । आश्लिष्टपरमब्रह्मामन्दपीयूषसागरः ॥ ७ ॥ मोढाख्यप्रौढगच्छश्रीविवोढानूढमूढतः । श्रीसिद्धसेन इत्यासीन्मुनीन्द्रस्तत्र विश्रुतः ॥ ८॥-युग्मम् । विश्वविद्यावदातश्रीर्मान्यः क्षितिभृतामपि । मोढेरे श्रीमहावीरं प्रणन्तुं सोऽन्यदाययौ ॥ ९॥ प्रणम्य विधिवत् तीर्थ पृथगाश्रयसंश्रितः । निशायां योगनिद्राभृद् ददर्श स्वप्नमीदृशम् ॥ १० ॥ उन्मीलल्लीलया नेत्रे यत्केसरिकिशोरकः । आरूढश्चैत्यशृङ्गाग्रमुत्फालः सत्त्वशालितः ॥ ११ ॥ इति दृष्ट्वा जजागारानगारपतिरद्भुतम् । प्रीतश्च श्रावयामास प्रातर्मुनिमतल्लिकाः ॥ १२ ॥ कल्याणानामुपादानं हेतुत्वं विनयस्य तैः । ख्यापयद्भिर्नतैः पृष्ट आख्यादर्थं च तत्पुरः॥ १३॥ शिष्योऽन्यवादिकुम्भीन्द्रकुम्भनिर्भेदनोद्यमः । भाग्यैः संघस्य कोऽप्यद्य समेष्यति महामतिः ॥ १४ ॥ भाविप्रभावसंसूचिस्वप्नानन्दाभिनन्दितैः । तैः समं सूरिरागच्छज्जैनालयमनालयः ॥ १५ ॥ त्रिः प्रदक्षिणयित्वा च यावन्नाथं विवन्दिषुः । तावत्षड्वार्षिको बाल एकस्तत्पुर आगमत् ॥ १६ ॥ कस्कः कौतस्कुतस्त्वं भो ! असौ पृष्टस्तदाऽवदत् । 'पञ्चालदेश्य-बप्पाख्यपुत्रोऽहं भट्टिदेहभूः ॥१७॥ सूरपालाख्यया शत्रून निघ्नन् पित्रा निवारितः । अजानतेति वात्सल्यादहेतुर्विक्रमे वयः ॥ १८ ॥ एकोऽम्बामप्यनापृच्छयानुशयातिशयात्ततः । आगमं प्रभुपादान्ते प्रान्ते स्वस्नेहतः स्थितः ॥ १९ ॥ अस्यामानुष्यकं तेजो ध्यात्वेति गुरुभिस्ततः । किं त्वं नोऽन्तेऽवतिष्ठासुरित्यजलप्यत हर्षतः ॥ २० ॥ मद्भाग्यैः फलितं पूज्या इत्युक्त्वा सोऽप्यवस्थितः । अलिः किं नाम नो तिष्ठेद् विकाशिनि सरोरुहे ॥२१॥ एकशः श्रुतमात्रेणावधारयति निश्चलम् । अनुष्टुभां सहस्रं तु प्रज्ञायां तस्य का कथा ॥ २२ ॥ जडदुस्तर्कसंक्लिष्टा देवी वागधिदैवतम् । दुर्बोधशास्त्रह दि सुहत्त्वं यस्य वाञ्छति ॥ २३ ॥ प्रेक्षाभियोगसन्तुष्टाः प्रभवस्तस्य पैतृके । गत्वा डुवाउधीग्रामे" पितरौ प्रार्थयन्त ते ॥ २४ ॥ स प्राह यातयामो"ऽहमेतदंबैकपुत्रका | आशाधारोऽयमावाभ्यां कथं मोक्तुं हि शक्यते ॥ २५ ॥ निर्बन्धो यदि पूज्यानां तदा नावभिधां यदि । विश्रुतां बप्पभट्टीति कुरुध्वे तत्सुतोऽस्तु वः ॥ २६ ॥
ओमित्युक्ते जगत्पूज्यैः श्रद्धालुनिवहस्तयोः । आजन्मकसि (शि)पु" प्रादान्महदास्था न निष्फला" ॥२७॥ शताष्टके च वर्षाणां गते विक्रमकालतः । सप्ताधिके राधशुक्लतृतीयादिवसे गुरौ ॥ २८॥ मोढेरे ते विहृत्यामुं दीक्षित्वा नाम चादधुः । स्वाख्या त्रिकैकादशकाद् भद्रकीर्तिरिति श्रुतम् ॥२९॥
20
25
30
1AB शूरः । 2 N Bअप्यन्तः। * 'वाछडा' इति B टिप्पणी । 3A गोपालैरिव । 4 A शोकाचलस्वरुः; N°चलस्तहः । 5A यदेकांशे। 6N नाशिता। 7 A तथावदत् । 8 BC पाञ्चाल°। 9AC प्यवास्थित। 10 N दुवातिधीप्रामे । 11 N याचयामो। 12 A °पुत्रिका N पुत्रकः । 13 A नवविधां। 14 AC °कसि पुः । 15 A निर्मला ।