________________
10
११. बप्पभट्टिसूरिचरितम् । गाथोत्तरार्धमाचख्यौ सख्यौ स्नेहं वहन् नृतम् ।
'सुत्तविउद्धेण' तए जीसे पच्छाइयं अंगं' ॥ १५२ ॥ हृद्वेदिवचसा तुष्टः प्रशंसन् कविकर्म तत् । तस्थौ किञ्चिदिव भ्रान्तः पुनरभ्रान्तलोचनः ॥ १५३ ॥ नृपो निरुपमप्रेमनिधिः शमभृता सह । अन्यदा ददृशे देवीं संचरन्तीं पदे पदे ॥ १५४ ॥ व्यथ्यमानामिव कापि मुखभङ्गविकारिणीम् । कृपापरिष्कृतवान्त इव गाथार्धमब्रवीत् ॥ १५५॥
तद् यथा'बाला चंकंमंती पए पए कीस कुणइ मुहभंगं ।' ___ततः सत्यवचोवीचिबन्धुरं प्रावदत् प्रभुः ।। १५६ ॥ असूनृतं न जल्पेत कल्पान्तेऽपि हि सिद्धवाक् ।
'नूनं रमणपएसे मेहलया छिवइ नहपंती' ॥ १५७ ॥ श्रुत्वेति भूपतिः किंचित् सभ्रान्तो विकृतं मुखम् । चके हिमोर्मिसंक्लिष्टसरोरुहमिवाद्युति ॥ १५८ ॥ इत्यालोक्य समुत्थाय प्रतिश्रयगतो मुनीन् । विहारहेतुं संवाह्य स्नेहमोहापराजितः ॥ १५९ ॥ काव्यमेतद् विलिख्याथ बहिारकपाटयोः । श्रीसंघमप्यनापृच्छय निरगानगराद् बहिः॥१६०॥-युग्मम् ।
तद्यथायामः खस्ति तवास्तु रोहणगिरमत्तः स्थितिप्रच्युता
15 वर्तिष्यन्त इमे कथं कथमिति स्वप्नेऽपि मैवं कृथाः। श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा
ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः॥१६१॥ ६६. दिनैः कतिपयैौडदेशान्तर्विहरन् गुरुः । श्रीलक्षणावतीपुर्याः प्रापारामावनीतलम् ॥ १६२ ॥
तत्र वाक्पतिराजोऽस्ति श्रीधर्मक्षमापपर्षदि । विदुषां मौलिमाणिक्यं प्रबन्धकविरद्भुतः ॥ १६३ ॥ 20 प्रभोरागमनं ज्ञात्वा जलदस्येव चन्द्रकी' । तदागमनगीर्भिः स भूपालं पर्यतोषयत् ॥ १६४ ॥ वशे वाग्देवता यस्य कविमें प्राच्यसंस्तुतः । स इहागात् प्रभोः पुण्यैप्पभहिर्मुनीश्वरः ॥ १६५ ॥ ज्योत्स्नाप्रिय इवैणांकोदयादेष विशांपतिः । अजल्पदुद्भुपद्रोमा विद्वन्मण्डलमण्डनम् ॥ १६६ ॥ विश्वकोविदकोटीरमेष जैनमुनीश्वरः । ध्रुवं यत्र समभ्येति कृतपुण्यः स वासरः ॥ १६७ ॥-युग्मम् । परं मेऽस्त्यामराजेन दुर्घहो विग्रहाग्रहः । तदाह्वानाद् यदा पश्चाद् याति तन्मे तिरस्कृतिः ॥ १६८॥ 25 प्रष्टव्यस्तन्मुनिस्वामी स चेदागत्य मां नृपः । साक्षादापृच्छते" प्रस्थातव्यं तन्नान्यथा त्वया ॥ १६९ ॥ सुधीभिः कथितेऽर्थेऽस्मिन् सूरिणांगीकृते सति । तज्ज्ञात्वा धर्मभूपालः परमानन्दमाप्तवान् ।। १७०॥ आमराजप्रवेशाच सहस्रगुणितं ततः । प्रवेशोत्सवमाधत्त पुर्यामाचार्यभूपतेः ॥ १७१ ॥ धर्मभूपे तदा साक्षादिव धर्मे पुरःस्थिते । चक्रवर्ती सुधीवृन्दे प्रोचे वृत्तमिदं तदा ॥ १७२ ॥ तद् यथा*
30 रुचिरचरणारक्ताः सक्ताः सदैव हि सद्गती
परमकवयः काम्याः सौम्या वयं धवलच्छदाः।
__1 A विउटेण; B विउहेण । 2 A B संचरती। 3 A °खांग। 4 N चंकमती पए कीस । 5 A नहुपंती। 6 N कविरुत्तरः। 7N चन्द्रिका । 8 A यन्नः। 9 N °दापृच्छयते । * केवलं A आदर्श लभ्यते पदमिदम् ।