Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown
View full book text
________________
प्रभावकचरिते
६९. इतश्च श्रीभृगुक्षेत्रात् यतिद्वितयमागमत् । तेन प्रोचे प्रभो ! प्रैषीत् संघो नौ भवदन्तिके ॥ १६९ ॥
स्वस्रीयः स विनेयो *वः 'बलात् कपलिकां ततः । उन्मोच्य पत्रमेकं सोऽवाचयद्वारितप्रियः ॥१७॥ तत्राकृष्टिर्महाविद्या पाठसिद्धाऽस्य संगता । तत्प्रभावाद् वराहारमानीय स्वादतेतराम् ॥ १७१ ॥ स्थविरैः शिक्षितः कोपात्* सौगतान्तः स्वयं गतः । अतीव भोजने गृद्धः स्वविद्यागर्वनिर्भरः ।। १७२ ॥ तत्प्रभावेण पात्राणि गतानि गगनाध्वना । भोज्यपूर्वान्युपायान्ति बौद्धोपासकवेश्मतः ॥ १७३ ॥ पात्राणां पुरतः श्राद्धगृहे याति पतगृहः । स प्रधानासने न्यस्य भ्रियते सह पात्रकैः ॥ १७४ ॥ प्रातिहार्यमिदं दृष्ट्वा श्राद्धा' अपि तदादृताः । ततोऽपभ्राजनामेतां हरतागत्य वेगतः ॥ १७५ ॥ गुडशस्त्रपुरात् ते च भृगुकच्छं समाययुः । भुवनेन च पात्राणि प्रैष्यन्त श्राद्धवेश्मनि ॥ १७६ ॥ पूर्णानि तानि भोज्यानामायान्ति गगनाध्वना । गुरुभिः कृतयाऽदृश्यशिलया व्योम्नि पुस्फुटुः ॥ १७७ ॥ स प्रभूनागतान ज्ञात्वा चिह्ननानेन भीतिभृत् । प्राणेशदथ पूज्याश्च बौद्धानामालये ययुः ॥ १७८ ॥ बौद्धैर्बुद्धनतावुक्तैः सूरिभिर्जल्पितं तथा । वत्स शुद्धोदनसुत' ! वन्दस्वाभ्यागतं हि माम् ॥ १७९ ॥ प्रतिमास्थस्ततो बुद्ध आगत्यांतिपुरोऽपतत् । तद्द्वारे चास्ति बुद्धांडः प्रोक्तस्तैः स पदोः पत ॥ १८० ॥ समेत्य प्रणतः सोऽपि प्रभुपादाम्बुजद्वये । उत्तिष्ठेति गिरा सूररेषोऽर्द्धावनतः स्थितः ॥ १८१ ॥ अद्यापि स तथैवास्ति 'नि घन्थ न मि ताभिधः । बुद्धस्थाने तदादेशादेकपार्श्वेन तु स्थितः ॥ १८२ ॥
20
15६१०. अथो महेन्द्रनामाऽस्ति शिष्यस्तेषां प्रभावभूः । सिद्धप्राभृतनिष्णातस्तद्वृत्तं प्रस्तुवीमहि ॥ १८३ ॥
नगरी पाटलीपुत्रं वृत्रारिपुरसप्रभम् । दाहडो नाम राजाऽत्र मिथ्यादृष्टिर्निकृष्टधीः ॥ १८४ ॥ दर्शनव्यवहाराणां विलोपेन वहन्मुदम् । बौद्धानां नग्नतां शैवव्रजे निर्जटतां च सः ॥ १८५ ॥ वैष्णवानां विष्णुपूजात्याजनं कौलदर्शने । धम्मिल्लं मस्तके नास्तिकानामास्तिकतां तथा ॥ १८६ ॥ ब्राह्मणेभ्यः प्रणामं च जैनर्षीणां स पापभूः । तेषां च मदिरापानमन्विच्छन् धर्मनिहवी ॥ १८७ ॥ आज्ञां ददौ च सर्वेषामाज्ञाभङ्गे स चादिशत् । तेषां प्राणहरं दण्डमत्र प्रतिविधिर्हि कः ॥ १८८ ॥ नगरस्थितसंघाय समादिष्टं च भूभुजा । प्रणम्या ब्राह्मणाः पुण्या भवद्भिर्वोऽन्यथा वधः ॥ १८९ ॥ धन-प्राणादिलोभेन मेने तद्वचनं परैः । निष्किचनाः पुनर्जेनाः पर्यालोचं प्रपेदिरे ॥ १९० ॥ देहत्यागान्न नो दुःखं शासनस्याप्रभावना । तत् पीडयति को मोहो देहे यायावरे पुनः ॥ १९१ ॥ विमृश्य गुरुभिः प्रोचे श्रीआर्यखपुटप्रभोः । शिष्याग्रणीमहेन्द्रोऽस्ति सिद्धप्राभृतसंभृतः ॥ १९२ ॥ भृगुक्षेत्रे ततः संघो गीतार्थ स्थविरद्वयम् । प्रहिणोतु स चामुष्मिन्नर्थे प्रतिविधास्यति ॥ १९३ ॥ तथाकृते" च संघेन तत्पूज्यैः प्रहितोऽथ सः । अभिमन्त्रितमानैषीत् करवीरलताद्वयम् ॥ १९४ ॥ उवाच च नृपादेशः प्रमाणं गणकैः पुनः । वीक्षणीयो मुहूर्तोऽसौ य आयतिशुभावहः ॥ १९५ ॥ इति स ज्ञापयामास भूपालाय कृतीश्वरः । स चोत्सेकं दधौ शक्तिरपूर्वकरणे मम ॥ १९६ ॥
दैवज्ञैश्चर्चिते लग्ने स्वीयप्रज्ञानुमानतः । महेन्द्राधिष्ठिता जग्मुः सूरयस्तन्नरैः सदः ॥ १९७ ॥ 30 याज्ञिका दीक्षिता वेदोपाध्याया होमशालिनः । सायंप्रातव्रता आवसथीयाः स्मार्तऋत्विजः ॥ १९८ ॥
गाङ्गमृञ्चन्दनालेपतिलकौघपवित्रिताः । काषायधौतपोताढ्याः सोपवीतपवित्रिकाः ॥ १९९ ॥
* द्वितारकान्तर्गतः पाठो नोपलभ्यते A आदर्शे । 1 Cय भवत्कपलि 1 2 B वापि च प्रियः। 3 CN वेश्मनः। 4 BN शास्त्रा। 5A प्रस्फुटुः । 6N चिहेन तेन । 7 N सुद्धोदनि। 8 N राजास्ति । N प्रमाणं । 10 N°कृतेन ।

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252