Book Title: Prabhavaka Charita
Author(s): Prabhachandracharya, Jinvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 75
________________ 10 15 प्रभावकचरिते स्वस्य नामान्तरस्थस्य प्रतिभू त्वं यदीच्छसि । तद्रक्ष तेऽन्यथाभावि स्थिरमस्थैर्यदुर्यशः ।। १६० ॥ सूरौ श्रुत्वेति तूष्णीके लल्लः फुल्लयशा जगौ । मद्विज्ञप्तिं द्विजा यूयमेकां शृणुत सूनृताम् ॥ १६१ ॥ विरक्तोऽहं भवद्धर्माद् दृष्ट्वा जीववधं ततः । अस्मिन् धर्मे दयामूले लग्नो ज्ञातात् स्वकान्ननु ॥ १६२ ॥ जैनेष्वसूयया यूयमुपद्रवपरंपराम् । विधत्थ प्रतिमल्लः कस्तत्र वः स्वल्पशत्रवः ॥ १६३ ॥ मर्यादामिह कांचिञ्चेत् यूयं दर्शयत स्थिराम् । तदहं पूज्यपादेभ्यः किंचित् प्रतिविधापये ॥ १६४ ॥ अथ प्रोचुः प्रधानास्तं त्वं युक्तं प्रोक्तवानसि । कः समः क्षमयाऽमीषां दुर्वारेऽस्मदुपद्रवे ॥ १६५ ॥ खरुच्या सांप्रतं जैनधर्मे सततमुत्सवान् । कुर्वतां धार्मिकाणां न कोऽपि विघ्नान् करिष्यति ॥ १६६ ।। अस्तु च प्रथमो बंटः श्रीवीरव्रतिनां तथा । सदाऽन्तरं न कर्त्तव्यं भूमिदेवैरतः परम् ॥ १६७ ॥ प्रतिष्ठितो नवाचार्यः सौवर्णमुपवीतकम् । परिधाप्याभिषेक्तव्यो ब्राह्मणैर्ब्रह्ममन्दिरे ॥ १६८॥ इत्यभ्युपगते तैश्च लल्लः सद्गुरुपादयोः । निवेश्य मौलिमाचख्यौ महास्थानं समुद्धर ॥ १६९ ॥ श्रीजीवदेवसूरिश्च प्राहोपशमवर्मितः । कालत्रयेऽपि नास्माकं रोष-तोषौ जनद्विषौ ॥ १७० ॥ प्रत्यूहव्यूहघातिन्यः परं शासनदेवताः । इदानीमपि ता एव भलिष्यन्ति मम स्मृतौ ॥ १७१ ॥ इत्युक्त्वाऽन्तर्मठं ध्यानासने संस्थाय सूरयः । निगृह्य रेचकं कुम्भकेन नासाग्रदृष्टयः ॥ १७२ ॥ तस्थुर्मुहूर्त्तमात्रेण तावद् गौब्रह्मवेश्मतः । उत्थाय चरणप्राणं कुर्वती निर्जगाम सा ॥ १७३ ॥ कौतुकाद् दृश्यमानाऽसौ हर्षोत्तालद्विजवजैः । पुरो बाह्यप्रदेशोळ निरालम्बाऽपतद् द्रुतम् ॥ १७४ ॥ आस्थानं पुनराजग्मुर्गुरवो गुरवो गुणैः । वेदोदिताभिराशीभिर्विप्रैश्चक्रे जयध्वनिः ॥ १७५ ॥ ततः प्रभृति सौदर्यसम्बन्धादिव वायटे । स्थापितस्तैरिह स्नेहो जैनैरद्यापि वर्त्तते ॥ १७६ ॥ ६७. विजदुरन्यतः पूज्या ज्ञात्वा कालं तु ते पुनः । स्वस्थानमागमन् योग्यं शिष्यं पट्टे न्यवीविशन् ॥ १७७॥ स्वयं सर्वपरित्यागं कृत्वा धृत्वाऽऽर्जवे मनः । ददुः शिक्षा गणस्याथ नवसूरेश्च सूरयः॥ १७८॥ गच्छप्रवर्तकस्याथादेशं राहस्यिकं ददुः । योगी प्रतिहतोऽस्माभिर्यः पुरा सिद्ध एव सः ॥ १७९ ।। अनेकसिद्धिसंयुक्त एकखंडकपालवान् । अस्माकं निधनं ज्ञात्वा स चागन्तात्र निश्चितम् ॥ १८॥ अप्यस्माकं कपालं चेत् सैष प्राप्स्यत्यधर्मधीः । शासनस्योपसर्गास्तद् विधास्यति तथाविधान् ॥ १८१ ॥ ततः स्नेहं परित्यज्य निर्जीवेऽस्मत्कलेवरे । कपालं चूर्णयध्वं चेत् तत्र स्यान्निरुपद्रवम् ॥ १८२ ।। इहार्थे मामकीनाज्ञापालनं ते कुलीनता । एतत्कार्य ध्रुवं कार्य जैनशासनरक्षणे ॥ १८३ ॥ इति शिक्षा प्रदायास्मै प्रत्याख्यानविधि व्यधुः । विधायाराधनां दध्युः परमेष्ठिनमस्कृतीः ॥ १८४ ।। निरुध्य पवनं मूर्धा मुक्त्वा प्राणान् गुणाब्धयः । वैमानिकसुरावासं तेऽतिश्रियमशिश्रियन् ॥ १८५ ।। लब्धलक्षस्ततो दण्डमुद्दण्डं परिगृह्य सः । कपालं चूर्णयामास यथाऽऽकारोऽपि नेक्ष्यते ॥ १८६ ॥ लोकशोकोत्सवोन्मुद्रशब्दाद्वैते भवत्यथ । शिविकास्थं गुरुवपुतिार्था अवहन्त तत् ॥ १८७ ॥ योगी डमरुकध्वानभैरवस्तत्र चाययौ । क एष पुरुषोऽतीत इत्यपृच्छच्च तं जनम् ॥ १८८॥ प्रधानब्राह्मणश्चैकः पुरस्तस्येत्यथावदत् । क्लिन्नश्मश्रुणि सोऽश्रूणि विमुञ्चन् गद्गदस्वरम् ॥ १८९ ॥ वायोरिवापरा मूर्तिीवदेवो मुनीश्वरः। महास्थानधरोद्धारवराहो दिवमीयिवान् ॥ १९०॥ श्रुत्वा स कपटात् शोकं बिभ्रद् वक्षो विघातयन् । विधायोर्जितपूत्कारं रोदन भृशमब्रवीत् ॥ १९१ ॥ एकदा भो! मदीशस्य वक्रं दर्शयताधुना । अन्यथा स्वशिरोधातं कृत्वा त्यक्षाम्यसून ध्रुवम् ॥ १९२ ॥ 20 25 30 1 N ते। 2 A विघ्नं । 3 B बूढः । 4 B स्मृतेः। 5 N अपद्रुतं । 6 N जिन।

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252