________________
10
15
प्रभावकचरिते स्वस्य नामान्तरस्थस्य प्रतिभू त्वं यदीच्छसि । तद्रक्ष तेऽन्यथाभावि स्थिरमस्थैर्यदुर्यशः ।। १६० ॥ सूरौ श्रुत्वेति तूष्णीके लल्लः फुल्लयशा जगौ । मद्विज्ञप्तिं द्विजा यूयमेकां शृणुत सूनृताम् ॥ १६१ ॥ विरक्तोऽहं भवद्धर्माद् दृष्ट्वा जीववधं ततः । अस्मिन् धर्मे दयामूले लग्नो ज्ञातात् स्वकान्ननु ॥ १६२ ॥ जैनेष्वसूयया यूयमुपद्रवपरंपराम् । विधत्थ प्रतिमल्लः कस्तत्र वः स्वल्पशत्रवः ॥ १६३ ॥ मर्यादामिह कांचिञ्चेत् यूयं दर्शयत स्थिराम् । तदहं पूज्यपादेभ्यः किंचित् प्रतिविधापये ॥ १६४ ॥ अथ प्रोचुः प्रधानास्तं त्वं युक्तं प्रोक्तवानसि । कः समः क्षमयाऽमीषां दुर्वारेऽस्मदुपद्रवे ॥ १६५ ॥ खरुच्या सांप्रतं जैनधर्मे सततमुत्सवान् । कुर्वतां धार्मिकाणां न कोऽपि विघ्नान् करिष्यति ॥ १६६ ।। अस्तु च प्रथमो बंटः श्रीवीरव्रतिनां तथा । सदाऽन्तरं न कर्त्तव्यं भूमिदेवैरतः परम् ॥ १६७ ॥ प्रतिष्ठितो नवाचार्यः सौवर्णमुपवीतकम् । परिधाप्याभिषेक्तव्यो ब्राह्मणैर्ब्रह्ममन्दिरे ॥ १६८॥ इत्यभ्युपगते तैश्च लल्लः सद्गुरुपादयोः । निवेश्य मौलिमाचख्यौ महास्थानं समुद्धर ॥ १६९ ॥ श्रीजीवदेवसूरिश्च प्राहोपशमवर्मितः । कालत्रयेऽपि नास्माकं रोष-तोषौ जनद्विषौ ॥ १७० ॥ प्रत्यूहव्यूहघातिन्यः परं शासनदेवताः । इदानीमपि ता एव भलिष्यन्ति मम स्मृतौ ॥ १७१ ॥ इत्युक्त्वाऽन्तर्मठं ध्यानासने संस्थाय सूरयः । निगृह्य रेचकं कुम्भकेन नासाग्रदृष्टयः ॥ १७२ ॥ तस्थुर्मुहूर्त्तमात्रेण तावद् गौब्रह्मवेश्मतः । उत्थाय चरणप्राणं कुर्वती निर्जगाम सा ॥ १७३ ॥ कौतुकाद् दृश्यमानाऽसौ हर्षोत्तालद्विजवजैः । पुरो बाह्यप्रदेशोळ निरालम्बाऽपतद् द्रुतम् ॥ १७४ ॥ आस्थानं पुनराजग्मुर्गुरवो गुरवो गुणैः । वेदोदिताभिराशीभिर्विप्रैश्चक्रे जयध्वनिः ॥ १७५ ॥
ततः प्रभृति सौदर्यसम्बन्धादिव वायटे । स्थापितस्तैरिह स्नेहो जैनैरद्यापि वर्त्तते ॥ १७६ ॥ ६७. विजदुरन्यतः पूज्या ज्ञात्वा कालं तु ते पुनः । स्वस्थानमागमन् योग्यं शिष्यं पट्टे न्यवीविशन् ॥ १७७॥
स्वयं सर्वपरित्यागं कृत्वा धृत्वाऽऽर्जवे मनः । ददुः शिक्षा गणस्याथ नवसूरेश्च सूरयः॥ १७८॥ गच्छप्रवर्तकस्याथादेशं राहस्यिकं ददुः । योगी प्रतिहतोऽस्माभिर्यः पुरा सिद्ध एव सः ॥ १७९ ।। अनेकसिद्धिसंयुक्त एकखंडकपालवान् । अस्माकं निधनं ज्ञात्वा स चागन्तात्र निश्चितम् ॥ १८॥ अप्यस्माकं कपालं चेत् सैष प्राप्स्यत्यधर्मधीः । शासनस्योपसर्गास्तद् विधास्यति तथाविधान् ॥ १८१ ॥ ततः स्नेहं परित्यज्य निर्जीवेऽस्मत्कलेवरे । कपालं चूर्णयध्वं चेत् तत्र स्यान्निरुपद्रवम् ॥ १८२ ।। इहार्थे मामकीनाज्ञापालनं ते कुलीनता । एतत्कार्य ध्रुवं कार्य जैनशासनरक्षणे ॥ १८३ ॥ इति शिक्षा प्रदायास्मै प्रत्याख्यानविधि व्यधुः । विधायाराधनां दध्युः परमेष्ठिनमस्कृतीः ॥ १८४ ।। निरुध्य पवनं मूर्धा मुक्त्वा प्राणान् गुणाब्धयः । वैमानिकसुरावासं तेऽतिश्रियमशिश्रियन् ॥ १८५ ।। लब्धलक्षस्ततो दण्डमुद्दण्डं परिगृह्य सः । कपालं चूर्णयामास यथाऽऽकारोऽपि नेक्ष्यते ॥ १८६ ॥ लोकशोकोत्सवोन्मुद्रशब्दाद्वैते भवत्यथ । शिविकास्थं गुरुवपुतिार्था अवहन्त तत् ॥ १८७ ॥ योगी डमरुकध्वानभैरवस्तत्र चाययौ । क एष पुरुषोऽतीत इत्यपृच्छच्च तं जनम् ॥ १८८॥ प्रधानब्राह्मणश्चैकः पुरस्तस्येत्यथावदत् । क्लिन्नश्मश्रुणि सोऽश्रूणि विमुञ्चन् गद्गदस्वरम् ॥ १८९ ॥ वायोरिवापरा मूर्तिीवदेवो मुनीश्वरः। महास्थानधरोद्धारवराहो दिवमीयिवान् ॥ १९०॥ श्रुत्वा स कपटात् शोकं बिभ्रद् वक्षो विघातयन् । विधायोर्जितपूत्कारं रोदन भृशमब्रवीत् ॥ १९१ ॥ एकदा भो! मदीशस्य वक्रं दर्शयताधुना । अन्यथा स्वशिरोधातं कृत्वा त्यक्षाम्यसून ध्रुवम् ॥ १९२ ॥
20
25
30
1 N ते। 2 A विघ्नं । 3 B बूढः । 4 B स्मृतेः। 5 N अपद्रुतं । 6 N जिन।