________________
७. जीवसूरिचरितम् । इत्थमालोचिते तैश्च गुरुः प्राह क्षमावशात् । उपसर्गा विलीयन्ते रहस्यमिदमेव नः ॥ १३०॥ अन्यदा बटवः पापपटवः कटवो गिरा । आलोच्य सुरभि कांचिदंचन्मृत्युदशास्थिताम्* ॥ १३१ ॥ उत्पाट्योत्पाट्य चरणान् निशायां तां भृशं कृशाम् ।
श्रीमहावीरचैत्यान्तस्तदा प्रावेशयन् हठात् ॥ १३२ ॥-युग्मम् । गतप्राणां च तां मत्वा बहिः स्थित्वाऽतिहर्षतः । ते प्राहुरंत्र विज्ञेयं जैनानां वैभवं महत् ।। १३३ ॥ 5 वीक्ष्यः प्रातर्विनोदोऽयं श्वेताम्बरविडम्बकः । इत्थं च कौतुकाविष्टास्तस्थुर्देवकुलादिके ॥ १३४ ॥ ब्राह्म मुहूर्त उत्थाय यतयो यावदङ्गणे । पश्यन्ति तां मृतां चेतस्य कस्माद् विस्मयावहाम् ॥ १३५ ॥ निवेदिते गुरूणां च चित्रेऽस्मिन्नरतिप्रदे । अचिन्त्यशक्तयस्ते च नाक्षुभ्यन सिंहसन्निभाः ॥ १३६ ॥ मुनीन् मुक्त्वाऽङ्गरक्षार्थ मठान्तः पट्टसन्निधौ । अमानुषप्रचारेऽत्र ध्यानं भेजुः स्वयं शुभम् ॥ १३७ ॥ अन्तर्मुहूर्तमात्रेण सा धेनुः स्वयमुत्थिता । चेतनाकेतनाचित्रहेतुश्चैत्याद् बहिर्ययौ ॥ १३८ ॥ 10 पश्यन्तस्तां च गच्छन्तीं प्रवीणब्राह्मणास्तदा । दध्युरध्युषिता रात्रौ मृता चैत्यात् कथं निरत् ॥ १३९ ॥ नाणुकारणमत्रास्ति व्यसनं दृश्यते महत् । अबद्धा विप्रजातिर्यद् दुर्ग्रहा बटुमंडली ॥ १४०॥ एवं विमृशतां तेषां गौर्ब्रह्मभवनोन्मुखी । खत्पदोदया पित्र्यस्नेहेनेव द्रुतं ययौ ॥ १४१ ॥ यावत् तत्पूजकः प्रातारमुद्घाटयत्यसौ । उत्सुका सुरभिर्ब्रह्मभवने तावदाविशत् ॥ १४२ ॥ खेटयन्तं बहिः शृङ्गयुगेनामुं प्रपात्य च । गर्भागारे प्रविश्यासौ ब्रह्ममूर्तेः पुरोऽपतत् ॥ १४३ ॥ 15 तद्ध्यानं पारयामास जीवदेवप्रभुस्ततः । पूजको झल्लरीनादान्महास्थानममेलयत् ॥ १४४ ॥ विस्मिता ब्राह्मणाः सर्वे मतिमूढास्ततोऽवदन् । तदा दध्युरयं स्वप्नः सर्वेषां वा मतिभ्रमः ॥ १४५ ॥ समकालमभूत् तत्किं गौzता चलिताऽपि च । तदप्यस्तु कथं ब्रह्मशालामाजग्मुषी स्वयम् ।। १४६ ॥ दैवदुर्घटितस्यास्य शक्या नहि विचारणा।
ज्योतिर्विदामपि ज्ञानादतीतं कार्यमागतम् ॥ १४७ ॥-त्रिभिर्विशेषकम् । 20 अन्ये प्रोचुर्विचारः को बटूनां दुर्नयाम्बुधिः । भृशमुल्लंध्य मर्यादां स्थानमुत्पातयिष्यति ॥ १४८ ॥ अन्यत्र स्थानमाधत्त स्थानवासिद्विजवजाः । वायुनैव गता वायोः कीर्तिः स्थानादतो ध्रुवम् ॥ १४९ ॥ अपरे प्राहुरेको न उपायो व्यसने गुरौ । मृगेन्द्रविक्रमं श्वेताम्बरं चैत्यान्तरस्थितम् ।। १५० ॥ प्रणिपत्य प्रपद्यन्तां तं तथ्यं पुरुषं रयात् । अपारोऽयं हि चिन्ताब्धिस्तेन पोतेन तीर्यते ॥ १५१ ॥-युग्मम् । अन्ये प्राहुः स्फुरदम्भैयुष्मड्डिम्भैविराधितः । अहर्निशं प्रसत्तिं स भवतां भजतां कथम् ॥ १५२ ॥ 25 कृतानुपद्रवानित्थं प्राकृतोऽपि न मृध्यति । किममानुषसामर्थ्यो जैनर्षिमूर्तिमान विधिः ॥ १५३ ॥ एकेऽवोचन् तथाप्यस्योपरोधः क्रियतेऽधुना । उत्तमप्रकृतिर्यस्मात् प्रणामाद् वैरमुज्झति ॥ १५४ ॥ एवमेकमतीभूय द्वेधा श्रीवीरमन्दिरे । भूमिदेवा ययुः पूज्यास्थानं धार्मिकमण्डितम् ।। १५५ ॥ योजयित्वाऽथ ते प्रोचुर्ललाटे करसम्पुटम् । अवधारय वाचं नो मनानामार्तिपञ्जरे ॥ १५६ ॥ वायुर्नाम सुरः पूर्व स्थानमेतन्न्यवीविशत् । तत्तुल्यजीवदेवाख्यावशतः सारतस्तव ॥ १५७ ॥ 30 ततोऽस्य व्यसने प्राप्ते बटुकूटापराधतः । प्रतिकर्तुं तवैवास्य बलो नान्यस्य भूतले ॥ १५८ ॥ ततस्तदवतारस्त्वं पालयापालय प्रभो! । स्थानं स्वयशसः स्थानं जीवदानं ददजने' ॥ १५९ ।।
* 'मृत्युकाल इकडु' इति B टि०। 10 हृता। 2N च। 3 CN मुत्पाटयिष्यति। 4 N विशेषितः। 5A जैनमन्दिरे । 6°तथा। 7N ददख नः ।