________________
10
15
प्रभावकचरिते ते च प्राहुर्दया धर्मः सर्वज्ञो देवता जिनः । महाव्रतधरो धीरो गुरुख़स्तान्तरद्विषन् ॥ ९८॥ रागाद्याश्रयो देवो गुरुश्च सपरिप्रहः । धर्मश्च पशुहिंसाभिरेष मिथ्याभ्रमो महान् ॥ ९९ ॥ तस्मात् परीक्षया धर्म प्रतिपद्यस्व धार्मिक!। परीक्षापूर्वकं टंकाद्यपि युष्माभिरिष्यते ॥१०॥ श्रत्वेति स प्रपेदेऽथ ससेम्यक्त्वां व्रतावलीम । धर्म चतुर्विधं ज्ञात्वा समाचरदहर्निशम'॥१०१॥ आह चैष प्रभो! किंचिदवधारयताधुना । द्रव्यलक्षस्य सङ्कल्पो विहितः सूर्यपर्वणि ॥ १०२ ॥ तदर्धं व्ययितं धर्माभासे वेद-स्मृतीक्षिते । कथमई' मया शेषं व्ययनीयं तदादिश ॥ १०३ ॥ मम चेतसि पूज्यानां दत्तं बहुफलं भवेत् । तद् गृह्णीत प्रभो यूयं यथेच्छं 'दत्तमादरात् ॥ १०४ ॥ अथाहुर्गुरवो निष्किश्चनानां नो धनादिके । स्पर्शोऽपि नोचितो यस्माद् वक्तव्यं किं नु संग्रहे ॥ १०५॥ चिन्तां भवांस्तु मा कार्षीत् श्वः सन्ध्यासमये तव । प्रक्षालितैकपादस्य प्राभृतं यत् प्रढौकते ॥ १०६ ॥ समीपे नस्तदानेयं कथयिष्यामहे ततः । श्रुत्वेति सदनं सोऽगाद् विमृशन स्वगुरोर्वचः॥ १०७॥ परेऽह्नि चोक्तवेलायां कश्चिद् वर्द्धकिरानयत् । तां शय्यापालिकां नो या भूपस्यापि परिग्रहे ।। १०८ ॥ स्मरन् गुरुवचः श्रेष्ठी तेन सार्द्धमुपाश्रये । गत्वा व्यजिज्ञपत् पूज्यपुरतो विस्मयोन्मुखः ।। १०९॥ प्रभवः पुनरागत्य वासान् निक्षिप्य धूर्वहौ । तदाधिवासयामासुरादिशंश्चेति तं स्फुटम् ।। ११० धुरंधराविमौ यत्र प्रयान्तौ तिष्ठतः स्वयम् । तत्र जैनालयं रम्यं द्रव्येणानेन कारय ॥ १११ ॥
ओमिति प्रतिपद्याथ धौरेयौ मुश्चति स्म सः । मुत्कलौ जग्मतुर्मामे पिप्पलानकनामनि ॥ ११२ ॥ तत्रावकरदेशे च' स्थितौ न चलतस्ततः । प्रामाधिपतिरेतस्य गौरवाद् भूमिमार्पयत् ॥ ११३ ॥ तत्र कर्मान्तरे सूत्रधारै ग् विहिते सति । शिखरं मण्डप प्रासादस्य संपूर्णतामगात् ॥ ११४ ॥ अवधूतः पुमान् कश्चिदपरेयुः समाययौ । दृष्ट्वा प्रासादमाधत्त प्रशंसां घ्राणकूणकः ॥ ११५॥ जनैस्तदूषणं पृष्टो जगाद प्रकटं स च । स्त्रियोऽस्थिशल्यमत्रास्ति विश्वदूषणशेखरः ॥ ११६ ॥ विज्ञापिते च पूज्यानां मानयित्वा च तेऽदिशन् । उत्कील्य शल्यमाधाय चैत्यमारभ्यतां पुनः ॥ ११७ ॥ द्रव्याभावोद्भवा चिन्ता का- लल्ल ! नहि त्वया । द्रव्यं ते तदधिष्ठाव्यः पूरयिष्यन्ति पुष्कलम् ॥११८॥ उत्कीलने समारब्धे निशि शुश्रुविरे स्वराः । नोत्कील्यमित्यवज्ञाते" निपतन्त्यत्र लोष्टकाः ॥ ११९ ॥ पुनराख्यापिते वन्द्यपादा ध्यानमपूरयन् । देवाह्वाने कृते तत्र देवी साक्षादथाह तान् ॥ १२०॥ *कन्यकुञ्जमहीभर्तुर्महिता दुहिता ह्यहम् । स्वीये सुखादिकादेशे तिष्ठन्ती गूर्जराभिधे ॥ १२१ ॥ म्लेच्छभङ्गभयादव कूपेऽहं न्यपतं तदा । अभूवं भूम्यधिष्ठात्री मृत्वा स्वं चास्ति मे बहु ॥ १२२ ॥ ततः स्वाङ्गास्थिशल्यानि नानुमन्ये विकर्षितुम् । ममाननुमतौ कोऽपि किंचित् कर्तुं नहि प्रभुः ॥ १२३ ॥ धर्मस्थानेषु पूज्यत्वं वारये प्रभवस्ततः । एनामन्वनयन् शान्ता ततोऽमीषां वचोऽमृतैः ॥ १२४॥ अवोचद् यदि मामत्राधिष्ठात्री कुरुताधुना । तद्र्व्यसहिताभूमिधर्मस्थानाय गृह्यताम् ॥ १२५ ॥ गुरुभिः प्रतिपन्ने च चैत्ये निर्वर्तिते वरे । ते देवकुलिकां तस्या योग्यां पृथगचीकरन् ॥ १२६ ॥
आख्या भ व न दे वी ति कृता तस्यास्तदत्र च । अचिंत्यशक्तिरद्यापि पूजां प्राप्नोति धार्मिकैः ॥ १२७ ॥ ६६. अथ लल्लं द्विजा दृष्ट्वा जिनधम्मॆकसादरम् । स्वभावं स्वमजानाना दधुजैनेषु मत्सरम् ।। १२८ ॥
ततः संचरतां मार्ग साधूनां गोचरादिके । उद्वेगं ते प्रकुर्वन्ति गिरीणां वारणा इव ॥ १२९॥
20
25
30
1A अहर्दिवम् । 2 A कथमर्थ । 3N व्यपनीयं । 4 B C दत्तं वा (चा?) दरात् । 5N तव । 6N पूज्यं । 7 Nऽथ। 8A भूमिरार्पयत् । 9N मण्डपं; B मण्डपः। 10 BN विज्ञाते। * 'छत्रीस लाष गाम कनूज देसि इति B टि. 'सूखडी' इति C टि।