________________
७. जीवसूरिचरितम् ।
अमानयति तां वाचं तत्र ते पुत्रकाङ्गुलिम् । द्वितीयां पश्यतस्तस्याछिन्दन साऽप्यत्रुटद् द्रुतम् ।। ६५ ॥ अथाभ्यधुर्दण्डसाध्या नीचास्तत्कृपयाऽङ्गुली । तव छिन्ना शिरश्चैवं छिनमश्चेत् त्वकं कुतः ।। ६६ । मुञ्च साध्वीं न चेत् पापं छेत्स्यामस्तव मस्तकम् । न जानासि परे स्खे वा शक्त्यन्तरमचेतन ! ॥ ६७ ॥ सम्यग भीतस्ततः सोऽपि प्राह नीरेण सिच्यताम् । अस्याः शिरस्ततो यातुं निजं स्थानमनाकुला ॥ ६८॥ तथा कृते च तैः साध्वी तत्र साऽभूत् सचेतना । आगत्य च निजं स्थानं सा बालाऽऽलोचनां ललौ ॥६९॥5
भीतभीतः' पलाय्यासौ योगी देशान्तरं ययौ । तादृशां किं वराकाणां गम्या गुरव ईदृशाः ॥ ७० ॥ ६४. इतः श्रीविक्रमादित्यः शास्त्यवन्तीं नराधिपः । अनृणां पृथिवीं कुर्वन् प्रवर्तयति वत्सरम् ॥ ७१ ॥
वायटे प्रेषितोऽमात्यो लिम्बाख्यस्तेन भूभुजा । जनानृण्याय जीर्ण चापश्यच्छीवीरधाम तत् ॥७२॥ उद्दधार स्ववंशेन निजेन सह मन्दिरम् । अर्हतस्तत्र सौवर्णकुम्भदण्डध्वजालिभृत् ॥ ७३ ॥ संवत्सरे प्रवृत्ते सपट्सु वर्षेषु पूर्वतः । गतेषु सप्तमस्यान्तः प्रतिष्ठां ध्वज-कुम्भयोः ॥ ७४ ॥ 10
श्रीजीवदेवमूरिभ्यस्तेभ्यस्तत्र व्यधापयत् । अद्याप्यभङ्गं तत्तीर्थममूहग्भिः प्रतिष्ठितम् ।। ७५ ॥ ६५. इतश्चास्ति महास्थाने प्रधानो नैगमबजे । दारिद्र्यारिजये मल्लः श्रेष्ठी लल्लः कलानिधिः ॥ ७६ ॥
महामाहेश्वरः कोटिसंख्यद्रव्येण भास्वरः । महादानं मुदा सोऽदात् सूर्यग्रहणपर्वणि ॥ ७७ ॥ तथा होमं समारब्धवता तेन द्विजोत्तमाः । ऋत्विजो यायजूकाश्चाहूता अध्वरदीक्षिताः ॥ ७८ ॥ तानभ्यर्च्य महाभक्त्या वेदविद्याविशारदान । प्रावर्त्यत ततो होमः प्रौढमत्रस्वरोर्जितः ॥ ७९ ॥ 15 तत्र कुण्डोपकण्ठेऽहिस्तदूर्ध्वस्थाम्लिकाद्रुमात् । धूमाकुलाक्षियुग्मोऽसौ फटत्फटिति चापतत् ॥ ८०॥ आदातुमेष भोगीन्द्रः स्वयमागत आहुतीः । वाचालेषु द्विजेष्वेवं कोऽपि वह्नौ तमक्षिपत् ॥ ८१ ॥ जाज्वल्यमानमुद्वीक्ष्य यजमानः सुधीश्च तम् । कृपया कम्पमानाङ्गः प्राह किं दुष्कृतं कृतम् ॥ ८२ ॥ जीवन् पश्चेन्द्रियो जीवः स्फुटं दृश्यः सचेतनः । सहसैव ज्वलद्वह्रौ क्षिप्यते धर्म एष कः ॥ ८३ ॥ अध्वर्युराह च श्रेष्ठिन् ! नहि दोषोऽस्ति कश्चन । सुमत्रसंस्कृते वह्नौ पतितः पुण्यवानहिः ॥ ८४ ॥ 20 यतोऽत्र ज्वलने मृत्वा हिंस्रजीवा महांहसः । प्राप्नुयुर्देवभूयं ते 'सुमानुष्यमथ ध्रुवम् ॥ ८५ ॥ तत् प्रत्युतोपकारोऽयं विदधे बटुनाऽमुना । अतोऽल्पमपि नैव त्वं सन्तापं कर्तुमर्हसि ॥ ८६ ॥ कृपालुरास्तिकश्चेत् त्वं प्रायश्चित्तं ततः कुरु । सौवर्ण द्विगुणं तस्मादहिं देहि द्विजव्रजे ॥ ८७ ॥ तदादेशादसौ सर्प क्षिप्रं हैममचीकरत् । मत्रैस्तं संस्कृतं दृष्ट्वा छेदकाले तमब्रवीत् ॥ ८८॥ पूर्वस्य फणिनो हिंसापापेऽसौ कारितो मया । एतद्वधेऽपरः कार्योऽनवस्थाऽऽपद्यतात्र तत् ॥ ८९॥ 25 ततोऽहं नावगच्छामि धर्ममेनं कथं मृषा । विप्लावयत मां तस्माद् विसृष्टं सकलं मया ॥ ९०॥ वह्निर्विध्यापितः कुण्डमुद्धृत्तं प्रेषिता द्विजाः । शान्ते मैरेयमाहात्म्ये न कोऽप्यसदृशं चरेत् ॥ ९१ ॥ ततःप्रभृत्यसौ धर्मे दर्शनानि समीक्षते । भिक्षायै तद्गृहे प्राप्तं श्वेताम्बरमुनिद्वयम् ॥ ९२ ॥ अन्नं संस्कृत्य चारित्रपात्राणां यच्छत ध्रुवम् । अमीषां ते ततः प्रोचुर्नास्माकं कल्पते हि तत् ॥ ९३ ॥ पृथिव्यापस्तथा वह्निर्वायुः सर्वो वनस्पतिः । त्रसाश्च यत्र हन्यन्ते कार्ये नस्तन्न गृह्यते ॥ ९४ ॥ 30 अथ चिन्तयति श्रेष्ठी वितृष्णत्वादहो ! अमी । निर्ममा निरहङ्काराः सदा शीतलचेतसः ॥ ९५ ॥ ततोऽवददसौ धर्म निवेदयत मे स्फुटम् । ऊचतुस्तौ प्रभुश्चैत्ये स्थितस्तं कथयिष्यति ॥ ९६ ॥ इत्युक्त्वा गतयोः स्थानं खं तयोरपरेऽहनि । ययौ लल्लः प्रभोः पार्श्वे चक्रे धर्मानुयोजनम् ।। ९७ ।।
1A B भीतो भीतः। 2 N तान् । 3 A सचेतनैः। 4 N समानुष्य । 5 A वृथा ।