________________
७. जीवसूरिचरितम् ।
५३ तत्र प्रवर्तकोऽवोचन्मुच्यतां शिबिका भुवि । प्रभोर्मित्रमसौ योगी दृष्ट्वास्यं जीवताद् धनम् ।। १९३ ॥ विमुक्ते याप्ययाने च प्रकाशे तन्मुखे कृते । चूर्णितं तच्च दृष्ट्वासौ हस्तौ घृष्ट्वाऽब्रवीदिदम् ॥ १९४ ॥ एकखंडं कपालं श्रीविक्रमादित्यभूपतेः । ममाचार्यस्य चास्य स्यात् पुण्यपुरुषलक्षणम् ॥ १९५ ॥ करे मेऽस्य कपालं चेदारोक्ष्यन्मे मनोरथाः । अपूरिष्यन्त' किं कुर्मो नाभाग्यैः प्राप्यमीदृशम् ॥ १९६ ॥ जीवता च मृतेनापि सख्याहं घृष्ट 'एव यत् । मर्येषु स पुमानेको येनाहं स्वमतेर्जितः ॥ १९७ ॥ 5 परं तथापि लोकोऽस्य संस्कारे मां दिशत्वसौ । ममाप्यद्य विभागोऽस्तु पुण्यस्यागण्यसौहृदात् ॥ १९८॥ एवं कृते च स व्योम्नाऽत्रानयन् मलयाचलात् । श्रीखंडागुरुकाष्ठानि विदधेऽङ्गं च भस्मसात् ।। १९९॥ अद्यापि तत्प्रभावेण तस्य वंशे कलानिधिः । भवेत् प्रभावकः सूरिरमराभः स्वतेजसा ॥ २०० ।। इत्थं चरित्रमधिगम्य महाप्रभावं श्रीजीवदेवसुगुरोर्दुरितापहारि। नित्यं स्मरन्तु विबुधा अवधानधीरा नन्द्याच सूरिगरिमस्फुरणैकहेतुः ॥ २०१॥ 10
श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि ते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ शृङ्गोऽगमत् सप्तमः
प्रद्युम्नप्रभुशोधितः सुचरितं श्रीजीवदेवप्रभोः ॥ २०२ ॥ वाग्दारियप्रमथननन्दमनोरतिलतादृढाधारः। सुमनःप्रसरोल्लासः श्रीमत्प्रद्युम्नकल्पतरोः ॥ २०३ ।।
॥ इति श्रीजीवसूरिप्रबंधः सप्तमः ॥ ॥ ग्रं० २०६ अ० २ । उभयं १४९३ अ० २॥
15
1 BC इति। 2 A अपूरिष्यति । 3 B एव घृष्ट । 4 AC हेतु। * AC नास्ति समाप्तिसूचका पङ्किरियम् ।