Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
तते णं से काले कुमारे अन्नया कयाइ तिहिं दंतीसहस्सेहिं तिहिं रहसहस्सेहिं तिहिं आससहस्सेहिं तिहिं मणुयकोडीहिं गरुलवूहे। एक्कारसमेणं खंडेणं. कूणिएणं भणितम्-एष सजोऽस्मि । ततः कृणिकेन सह कालादयो दश स्वीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सनामाय याताः । तत्रैकैकस्य त्रीणि त्रीणि हस्तिनां सहस्राणि, एवं रथानामश्वानां च, मनुष्याणां च प्रत्येक तिम्रस्तिनः कोटयः। कणिकस्याप्येवमेव । तत्र एकादशभागीकृतराज्यस्य कूणिकस्य कालादिभिः सह निजेन एकादशांशेन समामे काल उपगतः। एतमर्थ वक्तुमाह-'तए णं से काले' इत्यादिना । एनं च व्यतिकरं ज्ञात्वा चेटकेनाप्यष्टादश गणराजानी मेलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिबलपरिमाण, ततो युद्धं संप्रलमम् । चेटकराजस्य तु प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुश्चति अमोबबाणश्च सः। तत्र च कूणिकसैन्ये गरुडव्यूहः चेटकसैन्ये (च) सागरव्यहो विरचितः। ततश्च कणिकस्य कालो इण्डनायको निजबलान्धिती युध्यमानस्तावद्गतो यावच्चेटकः, ततस्तेन एकशरनिर्घातेनासी निपातितः१। भग्नं च कणिकबलम, गते च हे अपि बले निजं निजमावासस्थानम् । द्वितीयेऽहि सुकालो नाम दण्डनायको निजबलान्वितो युध्यमानस्तावद्गतो यावच्चेटकः, एवं सोऽप्येक /रेण निपातितः २। एवं तृतीयेऽति महाकालः, सोऽप्येवम ३।चतुर्थेऽद्वि कृष्णकुमारस्तथैव ४ पञ्चमे सुकृष्णः ५, षष्ठे महाकृष्णः ६, सप्तमे वीरकृष्णः ७, अष्टमे रामकष्णः ८. नवमे पितसेन कृष्णः ९ दशमे पितृमहासनकृष्णः १० चेटकेनकेकशरेण निपातिताः। एवं दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः। एकादशे तु दिवसे चेटकजयार्थ देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह । ततः शक्रचमरावागतौ। ततः शक्रो बभाषे-"चेटकः श्रावक इत्यहं न ते प्रति प्रहरामि, नवरं भवन्तं संरक्षामि"। ततोऽसौ तद्रक्षार्थ वनप्रतिरूपकमभेद्यकवचं कृतवान् । चमरस्तु हो सङ्ग्रामौ विकुक्तिवान् महाशिलाकण्टकं रथमुशलं चेति । तत्र महाशि
Jain Educ=
For Personal & Private Use Only
Inelbrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86