Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
- पंचमओ बंभलोए, छट्ठो लतए, सत्तमओ महामुक्के, अट्ठमओ सहस्सारे, नवमओ पाणते, दसमओ अच्चुए । सवत्य उक्कोसलिई भाणियहा, महाविदेहे सिद्धे ॥१०॥
कप्पवडिसियाओ संमताओ। बितितो वग्गो दस अज्झयणा ॥२॥
॥ बीओ वग्गो सम्मत्तो॥
पञ्चमः सुकृष्णसत्कपुत्रो वर्षचतुष्टयं व्रतपर्यायं परिपाल्य ब्रह्मलोके पञ्चमकल्पे दश सागरानुत्कृष्टमायुरनुपाल्य ततश्युतो महाविदेहे सेत्स्यतीति पञ्चममध्ययनम् ५। षष्ठाध्ययने महाकृष्णसत्कपुत्रस्य वक्तव्यता, सप्तमे वीरकृष्णसत्कपुत्रस्य, अष्टमे रामकृष्णसत्कपुत्रस्य वक्तव्यता । तत्र प्रयोऽप्येते वर्षत्रयव्रतपर्यायपरिपालनपरा अभूवन् । एवं च महाकृष्णाङ्गजो वर्षत्रयपर्यायाल्लान्तककल्पे षष्ठे उत्पद्य चतुर्दशसागरोपमाण्युत्कृष्टस्थितिकमायुरनुपाल्य ततश्श्युत महाविदेहे सेत्स्यतीति षष्ठमध्ययनम् ६ । वीरकृष्णाङ्गजः सप्तमः वर्षत्रयं व्रतपर्यायं परिपाल्य महाशुक्र सप्तमे कल्पे समुत्पद्य सप्तदश सागराण्यायुरनुपाल्य ततध्युतो विदेहे सेत्स्यतीति सप्तममध्ययनम् ७ । रामकृष्णाङ्गजोऽष्टमो वर्षत्रयं व्रतपर्याय परिपाल्य सहस्रारेऽष्टमे कल्पेऽष्टादश सागराण्यायुरनुपाल्य ततश्युतो विदेहे सेत्स्यतीति अष्टममध्ययनम् ८। पितृसेनकृष्णाङ्गजो नवमो वर्षद्वयव्रतपर्यायपरिपालनं कृत्वा प्राणतदेवलोके दशमे उत्पद्य एकोनविंशति सागरोपमाण्यायुरनुपाल्य ततभ्युतो विदेहे सेत्स्यतीति नवममध्ययनम् ९। महासेनकृष्णाङ्गजश्च दशमो वर्षद्वयव्रतपर्यायपालनपरोऽनशनादिविधिनाऽच्युते द्वादशे देवलोके समुत्पद्य द्वाविंशतिसागरोपमाण्यायुरनुपाल्य ततश्युतो महाविदेहे सेत्स्यतीति दशममध्ययनम् १० । इत्येवं कल्पावतंसकदेवप्रतिबद्धग्रन्थपद्धतिः कल्पावतंसिकेत्युच्यते । ता पताः परिसमाप्ताः द्वितीयवर्गश्च २॥ onal
For Personal & Private Use Only
dalin Educat
i
nelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86