Book Title: Niryavalikasutram
Author(s): Chandrasuri,
Publisher: Agamoday Samiti
View full book text
________________
निरया - ॥२०॥
Jain Educati
सरिसनामाओ । कालादीणं दसहं पुत्ता आणुपुवी
दो च पंच चत्तारि ति तिण्डं च होंति तिन्नेव । दोण्डं च दोणि वासा, सेणियनचूण परियातो ॥ १ ॥ उववातो आणुपुवीते, पढमो सोहम्मे, बितितो ईसागे, ततितो सणकुमारे, चउत्थो माहिंदे,
श्रेणिकां-पौत्राणां कालमहाकालाचङ्गजानां क्रमेण व्रतपर्यायाभिधायिका 'दोहं च पंच' इत्यादिगाथा, अस्या अर्थ:दससु मध्ये द्वयोराद्ययोः कालसुकालसत्कयोः पुत्रयोर्व्रतपर्यायः पञ्च वर्षाणि, त्रयाणां चत्वारि, त्रयाणां त्रीणि, द्वयोर्बे-द्वे वर्षे व्रतपर्यायः । तत्राद्यस्य यः पुत्र पद्मनामा स कामान् परित्यज्य भगवतो महावीरस्य समीपे गृहीतव्रत एकादशाङ्गधारी मूत्वाऽत्युग्रं बहु चतुर्थषष्ठाष्टमादिकं तपःकर्म कृत्वाऽतीव शरीरेण कृशीभूतश्चिन्तां कृतवान्- यावदस्ति मे बलवीर्यादिशतिस्तावद्भगवन्तमनुज्ञाप्य भगवदनुज्ञया मम पादपोपगमनं कर्तुं श्रेय इति तथैवासौ समनुतिष्ठति, ततोऽसौ पञ्चवर्षव्रतपालनपरो मासिक्या संलेखनया कालगतः सौधर्मे देवत्वेनोत्पन्नो द्विसागरोपमस्थितिकस्ततश्चयुत्वा महाविदेह उत्पच सेत्स्यते (ति) इति कल्पावतंसकोत्पन्नस्य प्रथममध्ययनम् १ । एवं सुकालसत्कमहापद्मदेव्याः पुत्रस्य महापद्मस्यापीयमेव वक्तव्यता, स भगवत्समीपे गृहीतव्रतः पञ्चवर्षव्रतपर्यायपालनपर एकादशाङ्गधारी चतुर्थषष्ठाष्टमादि बहु तपःकर्म कृत्वा ईशानकल्पे देवः समुत्पन्नो द्विसागरोपमस्थितिकः सोऽपि ततश्युतो महाविदेहे सेत्स्यतीति द्वितीयमध्ययनम् २ | तृतीये महाकालसत्कपुत्र वक्तव्यता, चतुर्थे कृष्णकुमारसत्कपुत्रस्य पञ्चमे सुकृष्णसत्कपुत्रस्य वक्तव्यता इत्येवं त्रयोऽप्येते वर्षचतुष्टयव्रतपर्यायपरिपालनपरा अभूवन् । एवं तृतीयो महाकालाङ्गजश्चतुर्वर्षव्रतपर्यायः सनत्कुमारे उत्कृष्टस्थितिको देवो भूत्वा सप्त सागरोपमाण्यायुरनुपाल्य ततश्युतो महाविदेहे सेत्स्यतीति (तृतीयमध्ययनम् । चतुर्थं कृष्णकुमारात्मजश्चतुर्वर्षव्रतपर्यायः माहेन्द्रकल्पे देवो भूत्वा सप्त सागरोपमाण्यायुरनुपाल्य ततयुतो महाविदेहे सेत्स्यतीति) चतुर्थमध्ययनम् ४ |
ational
For Personal & Private Use Only
बलिका●
112011
ainelibrary.org

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86