Book Title: Niryavalikasutram
Author(s): Chandrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 49
________________ जहा पण्णत्तीए । सोमिलो निग्गतो खंडियविहुणो जाव एवं वयासि-जत्ता ते भंते ! जवणिज्जं चं ते ! पुच्छा सरिसवया मासा कुलत्था एगे भवं जाव संबुद्धे सावगधम्म पडिवज्जिता पडिगते । तते णं पासे णं अरहा अण्णया कदायि वाणारनिर्गतः। खंडियविहुणो' त्ति छात्ररहितः, गत्वा च भगवत्समीप एषमवादीत्-'जत्ता ते भंते! जवणिज्जं च ते!' इति प्रश्नः, तथा सरिसवया मासा कुलत्था एते भोजएण एगे भवं दुवे भवं इति च एतेषां च यात्रादिपदानामागमिकगम्भीरार्थत्वेन भगवति तदर्थपरिज्ञानमसंभावयताऽपनाजनार्थ प्रश्नः कृत इति 'सरिसवय'त्ति एकत्र सहशवयसः अन्यत्र सर्षपा:-सिद्धार्थकाः, 'मास' त्ति एकत्र माषो-दशार्धगुञ्जामानः सुवर्णादिविषयः अन्यत्र माषो-धान्यविशेषः उडद इति लोके रूढः, 'कुलस्थ' त्ति एकत्र कुले तिष्ठन्ति इति कुलस्थाः, अन्यत्र कुलस्था-धान्यविशेषः। सरिसवयादिपदप्रश्नश्च च्छलग्रहणेनोपहासाथै कृतः इति, 'एगे भवं' ति एको भवान् इत्येकत्वाभ्युपगमे आत्मनः कृते भगवता श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकश उपलब्ध्या एकत्वं दूषयिष्यामीति बुद्धया पर्यनुयोगो द्विजेन कृतः यावच्छब्दात् ' दुवे भवं ' ति गृह्यते द्वौ भवान् इति च द्वित्वाभ्युपगमेऽहमेकत्व विशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीति बुद्धया पर्यनुयोगो विहितः। अत्र भगवान् स्याद्वादपक्षं निखिल दोषगोचरातिक्रान्तमवलम्ब्योत्तरमदायि (मदित)-एकोऽप्यहं, कथं ? द्रव्यार्थतया जीवद्रव्यस्यैकत्वात् न तु प्रदेशार्थतया (प्रदेशार्थतया) ह्यनेकत्वात् , ममेत्यवादीनामेकत्वोपलंभो न बाधकः, ज्ञानदर्शनार्थतया कदाचित् द्वित्वमपि न विरुद्धमित्यत उक्तं द्वावप्यहं, किं चैकस्यापि स्वभावभेदेनानेकधात्वं दृश्यते,तथाहि-पको हि देवदत्तादि पुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृव्यत्वमातुलत्वभागिनेयत्वादीननेकान् स्वभावान् लभते । 'तहा अक्खए अव्वए निच्चे अवडिए आय' त्ति यथा जीवद्रव्यस्यैकत्वादेकस्तथा प्रदेशार्थतयाऽसङ्ख्येयप्रदेशतामाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयाभावात्, तथाऽव्ययः कियतामपि व्ययत्वाभावात्, असङ्ख्येयप्रदेशता हि न कदाचनाप्यपैति, अतो व्यवस्थितत्वान्नित्यताऽभ्युपगमेऽपि न कश्चिद्दोषः, इत्येवं भगवताऽभिहिते तेनापृष्टेऽप्यात्मस्वरूपे तद्बोधार्थ, व्यवच्छिन्नसंशयःसंजातसम्यक्त्वः 'दुवालसविहं सावगधम्म पडिवज्जित्ता tional dain Educ a For Personal & Private Use Only nelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86