Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 73
________________ महाविद्याविडम्बनम् । स्वात्यन्ताभावव्यतिरिक्तैतनिष्ठात्यन्ताभावप्रतियोगिषु अनित्यत्वात्यन्ताभावव्यतिरिक्तैतन्निष्ठात्यन्ताभावप्रतियोगित्वं नाम धर्मः। तद्रहितश्च पक्षवृत्तिर्वा स्यात्, अनित्यत्वात्यन्ताभावो वा । आद्यस्यात्यन्ताभावः पक्षे व्याहतः, तेन अनित्यत्वात्यन्ताभावात्यन्ताभावः पक्षे सिध्यति । स चानित्यत्वमेवेत्यनित्यत्वं पक्षे सिध्यति ॥५॥ ५ (आनं० ) अयं शब्दः इत्यादि । अनित्यत्वस्यात्यन्ताभावोऽनित्यत्वात्यन्ताभावः तस्माव्यतिरिक्तश्च पक्षनिष्ठो योऽत्यन्ताभावः, तत्प्रतियोगित्वरहितश्च, अनित्यत्वात्यन्ताभावव्यतिरिक्तैतनिष्ठात्यन्ताभावप्रतियोगित्वरहितो यो धर्मस्तदत्यन्ताभावाधिकरणमित्यर्थः । मेयत्वादिनार्थान्तरतां परिहर्तुमत्यन्ताभावाधिकरणमित्युक्तम् । तथापि गन्धरसादीनामत्यन्ताभावाधिकरणतया सिद्धसाधनता, अत उक्तम्--एतन्निष्ठात्यन्ताभावप्रतियोगित्वरहितेति । एतन्निष्ठात्यन्ताभावप्रतियोगित्वरहितात्यन्ताभावाधिकरणमित्युक्ते व्याघातपरिहारायोक्तम्-अनित्यत्वात्यन्ताभावव्यतिरिक्तेति । नैवं व्याघातः । अनित्यत्वात्यन्ताभावस्य अत्यन्ताभावाधिकरणतया साध्यसिद्धेरिति भावः । अनुमानार्थान्तरमाह-अत्र चेति । . ५ ( भुवन०)-' असाध्यान्यवियुक्तान्यव्यावृत्तिर्वा प्रसाध्यते ' एतत्कारिकार्धमाश्रित्य पक्षं पक्षयित्वा या प्रवृत्ता तामाह-अयं शब्दः अनित्यत्वेति । यः एतन्निष्ठः शब्दनिष्ठोऽत्यन्ताभावः, तस्य ये प्रतियोगिनो विश्वपदार्थाः । ते किंविशिष्टाः । अनित्यत्वस्य अत्यन्ताभावोऽनित्यत्वात्यन्ताभावः नित्यत्वं, तस्माद्व्यतिरिक्ता भिन्ना इत्यर्थः । तेषां भावस्तत्त्वम् । तेन रहितोऽनित्यत्वात्यन्ताभावव्यतिरिक्तैतन्निष्ठात्यन्ताभावप्रतियोगित्वरहितो यो धर्मो नित्यत्वादिः, तदत्यन्ताभावाधिकरणमित्यर्थः । मेयत्वादिनाऽर्थान्तरतापरिहाराय अत्यन्ताभावाधिकरणमित्युक्तम् । तथापि घटत्वादीनामत्यन्ताभावाधिकरणतया सिद्धसाध्यता । तदुक्तमेतनिष्ठात्यन्ताभावप्रतियोगित्वरहितेति । एतनिष्ठात्यन्ताभावप्रतियोगित्वरहितात्यन्ताभावाधिकरणमित्युक्ते व्याघातः स्यात् । ततस्तदपोहार्थमनित्यत्वात्यन्ताभावव्यतिरिक्तेति । न चैवं व्याघातः । अनित्यत्वात्यन्ताभावस्य अत्यन्ताभावाधिकरणतया पक्षे शब्दे साध्यसिद्धेः । इति व्यावृत्तिचिन्ता ॥ अयमाशयः-शब्दव्यतिरिक्तविश्वस्य अत्यन्ताभावःशब्देऽस्ति । अतस्तत्प्रतियोगित्वं विश्वस्यैवास्ति । तेन रहितं च साध्यधर्मपक्षे नित्यत्वमेव । तस्य अनित्यत्वात्यन्ताभावव्यतिरिक्तेतिपदेन विश्वात् पृथक्कृतत्वात् , तदत्यन्ताभावाधिकरणं अनित्यत्वाधिकरणं शब्द इत्यर्थः । आद्यस्यात्यन्ताभावः पक्षे व्याहत इति । पक्षवृत्तिः शब्दत्वादिधर्मों यद्यप्यनित्यत्वात्यन्ताभावव्यतिरिक्तैतन्निष्ठात्यन्ताभावप्रतियोगित्वरहितो वर्तते, परं तस्यात्यन्ताभावे शब्दमध्ये साध्यमाने व्याघातः स्यात् । तस्मात्पारिशेष्यान्नित्यत्वस्यैवात्यन्ताभावः शब्दे साध्यते इति भावः । शब्दमात्रवृत्तिशब्दत्वादीनामत्यन्ताभावः सर्वत्र सपक्षे धर्मो ज्ञेयः ॥ ५ ॥ ६ अयं शब्दः स्वेतरानित्यनित्यवृत्तित्वरहितानेकैनित्यवृत्तित्वरहितानेत १ अनित्येत्याधारभ्य नवमानुमाने 'आद्यः पक्षे ब्याघातात् ' इत्यन्तः ग्रन्थांशः ज पुस्तके जुटितः । २ ' अनेकनित्यत्तित्वरहित' इतिपदं ग पुस्तके नास्ति । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260