Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 201
________________ महाविद्याविडम्बनम् । त्वात्। तेन पक्षीकृतशब्दानित्यत्वसिद्धिःप्रतीत्यपर्यवासानादिति मन्यसे। तन्न । पक्षीकृतः शब्दः पक्षीकृतशब्दमात्रवृत्त्यनित्यनिष्ठधर्मवानितिप्रतीतेः । पक्षीकृतशब्दानित्यत्वालम्बनत्वनियमे मानाभावात् । अन्यथा सकलवस्त्वालम्बनत्वनियमस्य दुर्वारत्वात्। पक्षीकृतशब्दस्य पक्षीकृतशब्दमात्रवृत्त्यनित्यनिष्ठधर्मवत्त्वमनित्यत्वाभावे व्याहतमिति प्रकृतप्रतीतेः पक्षीकृतशब्दानित्यत्वालम्बनत्वनियमसिद्धिरिति चेत् । न । अवास्तवपक्षीकृतशब्दानित्यत्वेनापि व्याघातनिवृत्तौ प्रकृतप्रतीतेः पक्षीकृतशब्दानित्यत्वालम्बनत्वनियमस्य नि/जत्वात् । (भुवन० )-अनित्यत्वं परिशेषात्सेत्स्यतीत्याशङ्कते-अथ पक्षीकृतेति । पक्षीकृतशब्दमात्रवृत्तिरित्येतावता पदेन पक्षीकृतस्य शब्दस्य साध्यधर्माश्रयत्वं लब्धम् । पक्षमात्रवृत्तेश्च पक्षादन्यत्रासत्त्वेन तदन्यस्य पक्षान्यस्य साध्यधर्मानाश्रयत्वमिति तत्त्वार्थः । तथापि कथमाश्रयस्यानित्यत्वमित्याह-अनित्यनिष्ठ इति । पक्षमात्रवृत्तिः कथंभूतः । अनित्यनिष्ठः । अनित्यनिष्ठत्वं च तस्य तदैव, यद्यनित्यः शब्दःस्यादिति विवक्षितधर्माश्रयस्य शब्दस्यानित्यत्वमनित्यनिष्ठ इति पदेन लब्धमित्यभिसन्धिः । विवक्षितधर्माश्रयः कः इत्याह-विवक्षितेति । विवक्षितो धर्मः शब्दमात्रवृत्तिरनित्यनिष्ठः शब्दत्वादिरित्यर्थः । तत्कुतः इत्याह-तदन्यस्येति । पक्षीकृतशब्दमात्रवृत्तिरित्यत्र मात्रशब्दप्रहणात्पक्षीकृतशब्दान्यस्य निषिद्धत्वादित्यर्थः । सिद्धं दर्शयति-तेनेति । शब्दस्य अनित्यत्वं विना पक्षीकृतशब्दमात्रवृत्त्यनित्यनिष्ठधर्मस्य प्रतीतिर्न विश्राम्यतीत्याकूतं मानाभावेन निराकरोति-तन्नेत्यादि । पक्षे पक्षमात्रवृत्त्यनित्यनिष्ठधर्मप्रतीतिः पक्षीकृतशब्दस्यानित्यत्वमालम्बते एवे. तिनियमे मानं नास्तीति तात्पर्यार्थः । प्रमाणं विनापि तदालम्बनत्वनियमाभ्युपगमेऽतिप्रसङ्गं प्रेरयतिअन्यथेति । अन्यथा तत्प्रतीतिः समस्तवस्तून्यप्यालम्बते एव नियमेनेत्यर्थः । महाविद्यावादी वावदीति-पक्षीकृतेति । शब्दो यद्यनित्यो न भवेत् , तर्हि शब्दस्य पक्षीकृतशब्दमात्रवृत्त्यनित्यनिष्ठधर्मवत्त्वं व्याहतमिति प्रकृतशब्दस्य यदनित्यत्वं तदालम्बनत्वनियमसिद्धिरित्यर्थयोजना । आचार्यः प्रत्याचष्टे-न । अवास्तवेति । अवास्तवं वादिभ्रमसिद्धं यत्पक्षीकृतशब्दस्य अनित्यत्वं तेनापि व्याघातनिवृत्तौ जातायां प्रकृतप्रतीतेः पक्षमात्रवृत्त्यनित्यनिष्ठधर्मवत्त्वप्रतीतेः पक्षीकृतशब्दस्य यदनित्यत्वं तदालम्बलनत्वनियमस्य निर्हेतुकत्वमित्यक्षरार्थः । किञ्च व्याघातबलादियमनुमितिः पक्षीकृतशब्दानित्यत्वे पर्यवस्यतीति वक्तव्यम् । व्याघातश्च विरोधप्रतीतिः । सा च विरुदयप्रमितिजन्या । प्रकृते चानित्यत्वाभावपक्षीकृतशब्दमात्रावृत्त्यनित्यनिष्ठधर्मी विरोधिनौ । न च पक्षीकृतशब्दमात्रवृत्त्यनित्यनिष्ठधर्मः प्रकृतानुमितेः पूर्व प्रमितः । प्रकृतानुमानवैयर्थ्यात् । अनुमित्युत्तरकालीनस्तु व्याघातो निरर्थकः। व्याघाताभावेन विनाप्यनित्यत्वं पूर्वमेवानुमितेः पर्यवसितत्वात् । १ रत्वम् । पं इति घ पुस्तकपाठः । २ व्याघातेन विनापि पूर्व इति घ पुस्तकपाठः। Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260