Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
महाविद्याविवरणम् ।
१७१
(भुवन०)-तथा च सत्तया सिद्धसाधनमिति । अशब्दा घटादयः, तत्र वर्तनादशब्दधमत्वं तस्याः । ततः सिद्धसाधनं तयेत्यर्थः । तथा च घटशब्दान्योन्याभावेन सिद्धसाधनमिति । शब्दो नानानित्यावृत्त्यशब्दधर्मवान् इति प्रतिज्ञायां घटशब्दान्यविश्वप्रतियोगिको यो घटशब्दान्योन्याभावः तेन सिद्धसाधनं स्यात् । घटशब्दान्योन्याभावस्य नानानित्येष्ववर्तनात्, घटे वर्तमानत्वेन अशब्दधर्मत्वाचेत्यर्थः । अत्र च अनित्यत्वं साध्यो धर्मः, अथवा घटशब्दान्यतरत्वादिः । स च घटशब्दयोरेव वर्तनाच्छब्दस्यानित्यत्वे नित्यत्वे वा नानानित्येषु न वर्तते । अशब्दो घटादिस्तद्धर्मश्चास्ति, परं स धर्मः घटशब्दान्यतरत्वादिः अनित्यनित्यावृत्तिस्तदैव, यदि शब्दस्यानित्यत्वं स्यात् । अन्यथा स धर्मों नित्ये शब्दे अनित्ये घटे च वर्तनादनित्यनित्यवृत्तिरेव स्यात् । तस्माच्छब्दः अनित्यः स्वीकार्यः । अत्र दृष्टान्ताः घटाकाशादयः तद्धर्माश्च सर्वेऽपि ज्ञेयाः । तत्र सर्वत्र च घटत्वाकाशत्वादीनां स्वस्वमात्रनिष्ठधर्मेण साध्यानुगमो द्रष्टव्यः । अत्रानुमाने नानेति पदमाकाशादिदृष्टान्तार्थम् । अन्यथा आकाशे आकाशत्वं यदस्ति तन्नित्ये आकाशे वर्तनान्नित्यवृत्त्येव स्यात्, न नित्यावृत्ति । नानेति पदोपादाने चाकाशत्वादि यद्यपि नित्यावृत्ति न स्यात् , तथापि नानानित्येष्ववर्तनान्नानानित्यावृत्ति भवत्येवेत्यर्थः । इति तृतीयानुमानम् ॥
(अथ चतुर्थानुमानम् । ) एवं शब्दानित्यत्वसाधनव्याजेन अभीष्टार्थसाधकप्रकारत्रयमुपदर्शितम्। इदानीं पृथिवीत्वसाधनव्याजेन अभीष्टान्तरसाधकं प्रकारान्तरं दर्शयितुं संग्राहकं श्लोकार्धमाह
४ पक्षापक्षगतादन्यत्साध्यवद्वैधर्जितम् ॥४॥ गन्धवन्तो गन्धवदगन्धावृत्तिगन्धवद्वृत्त्यन्यवन्तः॥
अयमर्थः-पक्षो वास्तवः, अपक्षो विपक्षः, तत्र मिलिते गतं गमनं यस्य तत्पक्षापक्षगतम् । तस्मादन्यत् पक्षापक्षगतादन्यत् । तद्धर्मान्तरं साध्यते इति संबन्धः । किंभूतम् । साध्यवद्वैधवर्जितम् । साध्यवान् पक्षः, तत्र यत् बैधं, तत्र वृत्तिः अवृत्तिश्च तद्वर्जितम् । वर्तमानावर्तमानत्वरहितमित्यर्थः । _ अथ श्लोकपदानुमानयोजना-अत्र गन्धवदित्यनेन पक्षेति व्याख्यातम् । अगन्धेत्यनेन अपक्षेति व्याख्यातम् । अवृत्तीत्यनेन अन्यदिति, साध्यवद्वैधवर्जितमिति च गन्धववृत्त्यवृत्त्यन्यधर्मवन्तः इत्यनेन, इति मिथो योजना ।
(अथ चतुर्थानुमानम् ।) (भुवन०)-अथ पृथिवीत्वसाधनव्याजेन अभीष्टान्तरसाधकं कारिकार्द्ध व्याचिकीर्षुः प्राहपक्षापक्षेतीति । तथाहि
१ रत्रितयमुइति ख पुस्तकपाठः ।
Aho ! Shrutgyanam
Loading... Page Navigation 1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260