Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
१८४
भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । द्वयमेव । तयावृत्तिमानित्युक्ते स्वव्यावृत्तिर्विरोधेन अनुपपन्ना नित्यत्वव्यात्तिमानयति । आकाशादौ शब्देन व्याप्तिः पूर्ववदेव । व्यावृत्त्यादीनि च पूर्वोक्तान्येवेति न पृथगभिहितानि । इति द्वादशानुमानम् ॥
(अथ द्वादशानुमानम् ।) ( भुवन० )-अथैतदेवानुमानमाद्यान्यपदानुपादानेन कारिकामध्येऽध्याहारितैतदः स्थाने तच्छब्दं च प्रयुज्य प्रकारान्तरेण दिदर्शयिषुः शब्दानित्यत्वसाधनाय कारिकार्द्ध व्याख्यातुमाहअसाध्येतीति।
" असाध्यतद्वियुक्तान्यव्यावृत्तिा प्रसाध्यते " ॥ १२॥ तद्व्यात्तिमानित्युक्ते इत्यादि । शब्दः शब्दाब्यावर्तते इति तु घटते न । ततो नित्यत्वव्यावृत्तिः शब्दे परिशेषादागतैव । तथा च सति अनित्यत्वं सिद्धं शब्दस्य । शेषं सर्व पूर्ववत् । इति द्वादशमुदाहरणम् ॥
(अथ त्रयोदशानुमानम् ।) । एवं शब्दानित्यत्वसाधकं प्रकारव्यं प्रदर्य पुनरपि सर्वसाधकं प्रकारं दर्शयितुं संग्राहकं कारिकार्धमाह
१३ पक्षेषु ये सन्ति विवादहीनाः
विहाय तानन्यतरः प्रसाध्यः। शब्दः संप्रतिपन्नैतन्निष्ठान्यधर्मवान् ।
अयमर्थः-पक्षेषु संदिग्धसाध्यवत्सु शब्दादिषु ये विवादहीनाः उभयवादिसंमता धर्माः शब्दत्वादिलक्षणाः सन्ति, तान् धर्मान् विहाय परित्यज्य अन्यतरो विप्रतिपन्नः प्रसाध्यः साधनीयः । पक्षेष्विति सामान्यपदोपादानेन वास्तवस्यैव पक्षस्य पक्षतेति सूचितम् । उदाहरणं च अतिसुगममेवेति न लेशतोऽपि व्याकृतम् । इति त्रयोदशानुमानम् ॥
(अथ त्रयोदशानुमानम् ।) (भुवन०)-एवं शब्दानित्यत्वसाधकं प्रकारद्वयमिति । पूर्वोक्तं ह्यनुमानद्वयं साध्यपद्विपर्यासं विना अनित्यत्वादन्यसाध्यसाधकं न भवति । तेन शब्दानित्यत्वसाधकमित्युक्तम् । पुनरपि सर्वसाधकमिति । अग्रेतनमनुमानं साध्यपदविपर्यासं विनापि पक्षविपर्यासेनैव स्वाभिमतसाध्यसाधकं भवतीति सर्वसाधकमित्युक्तम् । एवमन्यत्रापि यथायोगं ज्ञेयम् । पक्षेष्वितीति ।
"पक्षेषु ये सन्ति विवादहीनाः विहाय तानन्यतरः प्रसाध्यः ॥ १३ ॥
१°भिमतसर्वसाध इति ख पुस्तकपाठः ।
Aho! Shrutgyanam
Loading... Page Navigation 1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260