Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
महाविद्याविवरणम् ।
१८९
द्रव्यत्वाभावात् । तदर्थमाकाशान्येत्यादि । तथाच आकाशान्येति पदे प्रक्षिप्ते आकाशान्यनित्यमात्रवृत्तित्वानविकरणाकाशधर्मवानिति जातम् । एवं चोच्यमाने द्रव्यत्वेन व्याघातः तदवस्थः एव । द्रव्यत्वस्य घटादिष्वनित्येष्वाकाशेऽपि च वतर्नात् । आकाशान्यनित्यमात्रवृत्तित्वानधिकरणत्वस्याकाशधर्मत्वस्य च विद्यमानत्वात् । तदर्थमनित्यनित्यावृत्तीत्युपात्तम् । तथापि न विविक्षितसिद्धिरिति । विवक्षितमत्र शब्दानित्यत्वं, तन्न सिद्धयति । यतः एवंविधः शब्दाकाशान्यतरत्वादिः साध्यो धर्मः उपपद्यते । तस्य च धर्मस्य शब्दानित्यत्वे स्वीक्रियमाणे सति, अनित्ये शब्दे नित्ये चाकाशे वर्तनादनित्यनित्यावृत्तित्वं न स्यात् । तस्माच्छब्दो नित्यः एवाङ्गीकर्तव्यः स्यात् । तथा च न विविक्षितानित्यवसिद्धिः । तदर्थ शब्देतरेति पदं प्रक्षिप्तम् । तथा च सत्येवंविधः साध्यो धर्मः शब्दाकाशान्यतरत्वादिः । स च शब्देतरस्मिन् अनित्ये न वर्तते, नित्ये चाकाशे वर्तते । तेन तस्य शब्दे. तरानित्यनित्ययुगलावृत्तित्वं आकाशे वर्तनादाकाशधर्मत्वं च तस्य विद्यते एव । स च धर्मः आकाशान्यनित्यमात्रवृत्तित्वानधिकरणं तदैव, यद्यनित्यः शब्दः स्यात् । शब्दस्य च नित्यत्वेऽङ्गीक्रियमाणे तस्य धर्मस्य आकाशान्यनित्यमात्रवृत्तित्वाधिकरणत्वमेव स्यात् , न तु तदनधिकरणत्वम् । तस्य धर्मस्य आकाशान्यनित्ये शन्देऽपि वर्तनात् । तस्मात्पारिशेष्याच्छब्दस्यानित्यत्वं स्वीकर्तव्यम् । अत्र च घटे दृष्टान्तीक्रियमाणे घटशब्दाकाशान्यतरत्वादिधर्मो ज्ञेयः । स च शब्देतरानित्यनित्यवृत्तित्वरहितोऽस्ति, शब्देऽपि वर्तनात् । एतावता शब्देऽनित्ये घटे, नित्ये चाकाशे वर्तते न तु शब्दादितरदेव यदनित्यं नित्यं च तयोर्युगले तथा । स चाकाशान्यनित्यमाने एव न वर्तेते, अनित्ये घटेऽपि वर्तनात् । स चाकाशे वर्तनादाकाशधर्मोऽपि भवति । आकाशे चाकाशत्वादिः, आत्मादौ च घटशब्दाकाशात्मान्यतरत्वादिः । स च शब्देतरानित्यनित्यवृत्तित्वरहितोऽस्ति, शब्देऽपि च वर्तनात् । आकाशान्यनित्यमात्रवृत्तित्वरहितोऽप्यस्ति, घटेऽपि वर्तनात् । इदमत्राकूतम् स धर्मः आकाशादन्यस्मिन्नित्यमाने एव न वर्तते, किन्त्वनित्ये घटेऽपि वर्तते एव । आकाशधर्मत्वं च तस्य प्रकटमेव । एवं चान्यस्मिन्नपि दृष्टान्तीक्रियमाणे यथायोगं धर्मयोजना कार्या इति सर्व सुयौक्तिकम् । एषा च महाविद्या अनेकदोषदुष्टत्वेन चिन्त्येत्युक्तं महाविद्याबृहद्वृत्तिकृता । प्रस्तुतलघुवृत्तिकृतानेनापि च साध्यधर्मदृष्टान्तधर्माद्यकथनेन विशेषतो न व्याचक्रे केनापि हेतुना । तथापि वाचयितृविनेयजनमनःस्थिरीकरणाय अर्थगमनिकामात्रं कृतमस्तीति ज्ञेयम् । इति षोडशोदाहरणव्याख्यानं समाप्तमिति ॥
श्रीदेवसुन्दरगुरुप्रथितप्रतिष्ठ
पट्टोदयाचलसहस्रकरोपमानाः । श्रीमत्तपागणमहार्णवपूर्णचन्द्राः __ श्रीसोमसुन्दरगुरुप्रवरा जयन्ति ॥१॥ तेषां गुरूत्तमानां शिष्यः श्रीभुवनसुन्दरः सूरिः।
तनुते स्म महाविद्याविवृतेर्जयकारि टिप्पनकम् ॥ २ ॥ इति श्रीभुवनसुन्दसूरिविरचितं महाविद्याविवरणटिप्पनं समाप्तम् ।
-
-
१ इदं पर्व ख पुस्तके न विद्यते ।
Aho! Shrutgyanam
Loading... Page Navigation 1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260