Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 246
________________ १८८ भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । शान्येत्यनेन साध्याश्रयविपक्षान्येति । नित्यमात्रवृत्तित्वानधिकरणेत्यनेन विपक्षे व्यतिरेकभागिति योजना । (अथ षोडशानुमानम्।) (भुवन० )-साध्याश्रयविपक्षेत्यादि । अत्र साध्यः पक्षीकृतः शब्दः । तदाश्रयो विपक्षः आकाशः । तस्य व्यावर्तनेन निषेधनेनेत्यर्थः । अपक्षेतीति । " अपक्षसाध्यवद्वृत्तिविपक्षान्वयि यन्नतत् । साध्याश्रयविपक्षान्यविपक्षे व्यतिरेकभाक् ” ॥ १६ ॥ अपक्षः पक्षादन्यः इत्यादि । अपक्षः पक्षादन्यो यः साध्यवान्, सपक्षो घटादिः । तत्र विपक्षे आकाशादौ च युगलावृत्तित्वेन यन्न वर्तते । यच्च साध्याश्रयो यो विपक्षः इत्यादि । साध्यते इति साध्यः पक्षः शब्दः । तदाश्रयो विपक्षः आकाशः । तस्मादन्यो विपक्षो नित्यमात्रं, तत्र व्यतिरेकभाक् अवृत्तिभाक, न वर्तते इत्यर्थः । अत्राकाशव्यतिरिक्तात्मादिनित्येषु वृत्तिनिषेधादाकाशवृत्तित्वमनुज्ञातमेव । विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् । अत एव आकाशधर्मवानिति कारिकायामनुक्तमप्यनुमाने गृहीतम् । एवंविधं धर्मान्तरं पक्षे साध्यते इत्यर्थः । अथानुमानम् । शब्दः शब्देतरानित्यनित्यावृत्त्याकाशान्यनित्यमात्रवृत्तित्वानधिकरणाकाशधर्मवान् मेयत्वात् घटाकाशादिवत् । अथ व्यावृत्त्यचिन्ता-आकाशधर्मवानिति कृते नित्यत्वेन विपरीत. साधनं स्यात् । तदर्थ नित्यमात्रवृत्तित्वानधिकरणेति । तथापि द्रव्यत्वेन व्याघातः । तदर्थमाकाशान्येति । तथापि द्रव्यत्वेन व्याघातस्तवस्थः एव । तदर्थमनित्यनित्यावृत्तीति । तथापि न विवक्षितसिद्धिरिति शब्देतरेति पदं प्रक्षिप्तम् । इति सर्वमनवद्यम् । इति षोडशानुमानम् ॥ महाविद्यादशश्लोकी विवृतापि चिरन्तनैः । मन्दधीवृद्धिसिद्ध्यर्थं विवृतेयं यथागमम् ॥ इति महाविद्याविवरणं समाप्तम् । (भुवन० )-अथ व्यावृत्त्यचिन्ता । आकाशधर्मवानित्यादि । यदि शब्दः आकाशधर्मवानिति क्रियते, तदा साध्यमनित्यत्वं तेत्र न सिद्धथति, किन्तु नित्यत्वम् । तथा च सति विपरीत. साधनं स्यादित्यर्थः । तदर्थ नित्यमात्रवृत्तित्वेत्यादि । शब्दो नित्यमात्रवृत्तित्वानधिकरणाकाशधर्मवानिति यदि क्रियते, तदा द्रव्यत्वेन व्याघातः । यतो द्रव्यत्वं नित्यमात्रे एव न वर्तते, किन्तु अनित्ये घटपटादावपि वर्तते, ततो नित्यमात्रवृत्तित्वानधिकरणम् । आकाशेऽपि वर्तनात् । आकाशधर्मश्च द्रव्यत्वम् । तच्चेत् शब्दे साध्यते, तदा व्याघातः स्यादेव । शब्दस्य गगनगुणत्वात् । गुणे च . १ त्वं तन्न सिं इति त ध पुस्तकपाठः। Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260