Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 243
________________ महाविद्याविवरणम् । अनुमानं यथा-शब्दः संप्रतिपन्नैतनिष्ठान्यधर्मवान् मेयत्वात् घटवत् । शब्दः पक्षः। संप्रतिपन्ना वादिना प्रतिवादिना चाङ्गीकृताः, एतस्मिन् शब्दे निष्ठाः एतन्निष्ठाः । संप्रतिपन्नाश्च ते एतन्निष्ठाश्च संप्रतिपन्नैतनिष्ठाः श्रावणत्वशब्दत्वादयः । तेभ्यो योऽन्यो धर्मः प्रतिवादिनो विप्रतिपन्नः अनित्यत्वलक्षणः, तद्वान् शब्दः इत्यर्थः । नित्यत्वं तु प्रतिवादिना प्रतिपन्नम् । तेन नित्यत्वं संप्रतिपन्नैतन्निष्ठान्यधर्मो न भवति, किन्त्वनित्यत्वमेवेति शब्दानित्यत्वसिद्धिः । अत्र व्याप्तिरेवम्यद्यत् प्रमेयं तत्तत्संप्रतिपन्नैतन्निष्ठान्यधर्मवत् यथा घट: आकाशं वा । शब्दे ये संप्रतिपन्नाः श्रावणत्वादयः तेभ्योऽन्ये घटत्वनित्यत्वादयः, तद्वत्त्वस्य घटाकाशादिष्वपि सत्त्वात् । इति त्रयोदशो. दाहरणम् ॥ (अथ अचतुर्दशानुमानम् ।) अथ पुनरस्यैव श्लोकस्य तृतीयपादेन भङ्गयन्तरमस्यैव प्रकारस्य कथयति १४ पक्षोऽथवा साध्यविनाकृतेन। शब्दः साध्यव्यतिरिक्तैतद्धर्मातिरिक्तधर्मवान् । अथवा भङ्गयन्तरसूचनार्थः । अथवा पक्षः शब्दादिः साध्यविनाकृतेन साध्येन विनाकृतेन साध्यव्यतिरिक्तेन धर्मेण साध्यते । किम्भूतः साध्यते इत्याकाङ्क्षायामेतद्धर्मातिरिक्तधर्मवानिति पूर्वार्धादनुवर्तते । श्लोकस्यैकत्वादिति । अत्रापि उदाहरणं सुगममेवेति पूर्ववन्न व्याख्यातम् । इति चतुर्दशानुमानम् ॥ (अथ चतुर्दशानुमानम् ।) (भुवन० )-पक्षोऽथवेतीति ।। ___" पक्षोऽथवा साध्यविनाकृतेन ” ॥ १४॥ साध्येन विनाकृतेनेति भणनात् साध्यव्यतिरिक्तेति पदं जातम् । तदने एतद्धर्मातिरिक्तधर्मवानिति पूर्वा दनुवर्तते । ततः इत्थमनुमानं जातम्-शब्दः साध्यव्यतिरिक्तैतद्धर्मातिरिक्तधर्मवान् मेयत्वात् घटाकाशादिवत् ॥ ___ अत्रानुमानपदव्याख्या-शब्दः पक्षः, साध्यमनित्यत्वं, तस्माद्व्यतिरिक्ताः अन्ये ये एतद्धाः शब्दधर्माः श्रावणत्वसत्त्वादयः, तेभ्योऽतिरिक्तः साध्यव्यतिरिक्तेति पदेन पृथक्कृतोऽनित्यत्वधर्मः एव शब्दे आयाति । तद्वान् शब्दः साध्यते । अत्रापि साध्यव्यतिरिक्ता ये शब्दधर्माः तेभ्योऽतिरिक्ताः अन्ये घटत्वाकाशगतैकत्वादयः, तद्वत्त्वेन घटाकाशादिषु व्याप्तिः । इति चतुर्दशानुमानम् ॥ (अथ पञ्चदशानुमानम् ।) अथ पुनरस्यैव श्लोकस्य चतुर्थपादेन वास्तवपक्षस्य प्रतिज्ञान्तःप्रक्षेपे. णापि अभीष्टसाधकः प्रकारः संभवतीति दर्शयति-विच्छिद्येति। . Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260