Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
महाविद्याविवरणम् ।
१८३ (भुवन०)-अत्र पदयोजना सुगमैवेति । अत्र साध्याभावान्येत्यनेन असाधान्येति, एतद्वियुक्तान्येत्यनेन वियुक्तान्येति च, व्यावृत्तिमानित्यनेन व्यावृत्तिः साध्यते इति च व्याख्यातमित्येवं पदयोजना कार्या।
अथ व्यावृत्त्यचिन्ता-अयं शब्दः साध्याभाववानिति कृते विपरीतसाधनं स्यात् । तदर्थं साध्याभावान्यवानिति कृतम् । तथापि शब्दत्वेन सिद्धसाधनम् । तदर्थ साध्याभावान्यैतद्वियुक्तवानिति कृतम् । तथाप्येतद्वयातिरिक्तेन शब्दत्वादिना सिद्धसाधनम् । तदर्थं द्वितीयान्यपदोपादानम् । तथापि एतदुभयातिरिक्ताद्विश्वस्मादन्यत् नित्यत्वमेव भवति । तेन सिद्धसाधनं स्यात्प्रतिवादिनः । तदर्थं व्यावृत्तिमानिति कृतम् । इति व्यावृत्त्यचिन्ता ॥ इत्येकादशोदाहरणम् ॥
(भुवन०)-अथ व्यावृत्त्यचिन्ता । तथापि शब्दत्वेन सिद्धसाधमिनति । अयमर्थःयदि साध्याभावान्यवानिति क्रियते, तदा साध्याभावो नित्यत्वं तस्मादन्यच्छब्दत्वं, तद्वान् शब्दः स्यात्, तथा च सिद्धसाधनम् । तथाप्येतद्वयातिरिक्तेन शब्दत्वादिनेति । यदि साध्याभावान्यैतद्वियुक्तवानिति क्रियते, तदापि शब्दनित्यत्वद्वयव्यतिरिक्तं शब्दत्वमपि भवति । ततः शब्दत्वे शब्दे साध्यमाने सिद्धसाध्यतैव । तदर्थ द्वितीयान्यपदोपादानमित्यादि । तथा च सति साध्याभाधान्येतद्वियुक्तान्यः इति जातम् । तत्र साध्याभावो नित्यत्वं, तस्मादन्यद्यदेतद्वियुक्तं शब्दव्यतिरिक्त विश्वम् । एतावता एतदुभयादन्यद्विश्वं सिद्धम् । ततोऽप्यन्यदेतद्वयमेव । तत्र शब्दः शब्दवानिति तु भवति न । आत्माश्रयबाधकतर्कसद्भावात् । नित्यत्ववानिति तु कृते तादृशस्य प्रतिवादिनः सिद्धसाध्यतैवेत्यर्थः । तदर्थ व्यावृत्तिमानित्यादि । तथा च शब्द: साध्याभावान्यैतद्वियुक्तान्यव्यावृ. त्तिमानिति संपूर्णा प्रतिज्ञा जाता। साध्याभावान्यैतद्वियुक्तान्यश्च शब्दो वा नित्यत्वं वा । तत्र शब्दव्यावृत्तिमत्त्वं शब्दे व्याहतत्वात् घटाकाशादिसर्वसपक्षोपयोगि । नित्यत्वव्यावृत्तिमत्त्वं तु शब्दे सिध्यत् परिशेषाच्छब्दानित्यत्वं साधयति । अत्र अनित्यः शब्दः कृतकत्वाद्धटवदिति मुख्यानुमानम् । इत्येकादशोदाहरणम् ॥
(अथ द्वादशानुमानम् ।) पुनरप्येतदेव शब्दानित्यत्वानुमानं प्रथमान्यपदानुपादानेऽपि संभवतीति श्लोकार्धेन दर्शयति-असाध्येतीति ।
१२ असाध्यतद्रियुक्तान्यव्यावृत्तिा प्रसाध्यते ॥ ८॥ शब्दः साध्याभावतद्वियुक्तान्यव्यावृत्तिमान् ।
अत्रापि तच्छब्देन पक्षपरामर्शः । अयमर्थ:-असाध्येन नित्येन, तेन च शब्देन वियुक्तं असाध्यतद्रियुक्तम् । एतद्द्यातिरिक्तं विश्वम् । तस्मादन्यदेत
Aho! Shrutgyanam
Loading... Page Navigation 1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260