Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 236
________________ १७८ भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । तस्माच्छब्दाधिकरणबहुत्वं पारिशेष्यात् सिद्धम् । आकाशे च मेयत्वं पुराप्युभयसिद्धं, भिन्नत्वं च प्रतिवादिनोऽसिद्धं अनेन अनुमानेन साध्यते । अत्राकाशं आकाशादन्यदेवमपि वदने अर्थस्य अनन्यत्वमेव, परं महाविद्यानुमानत्वेन किञ्चिद्वक्रच्छाययोक्तम् । एवं च सर्वेषामेकत्वेन अङ्गीकृतानामनेकत्वं साधनीयम् । अत्र च मुख्यानुमानमिदम्-दिक्कालाकाशाः अनेके, द्रव्यत्वात् , घटवत् । इयं च महाविद्या पक्षं पक्षयित्वा प्रवृत्ता । इति सप्तममनुमानम् ॥ ( अथ अष्टमानुमानम् ।), अथ पुनरपि सकर्तृकत्वसाधनव्याजेन सर्वसाधकप्रकारान्तरदर्शनाय सङ्ग्राहक श्लोकमाह-पक्षापक्षेतीति । ८ पक्षापक्षविपक्षान्यवर्गादेकैकमुद्धतम् । भिन्नं साध्यवतस्तददुद्धृतावधिभेदिनः ॥६॥ अयं घटः एतद्धटाङरान्यान्यसकर्तृकान्यः । तस्य अयमर्थः-पक्षो वास्तवः संदिग्धकर्तृकः अङ्कुरादिः, अपक्षः सपक्षो निश्चितकर्तृको घटादिः, विपक्षोऽकर्तृकः आकाशादिः। तदन्यवर्गात्पक्षापक्षविपक्षान्यवर्गात् । अन्यतमवर्गादेकैकमुद्धृतं भिन्नं साध्यते इति सम्बन्धः । कस्मात् । साध्यवतःसकर्तृकात्। ततः किम्भूतात्। तदुद्धृतावधिभेदिनः । तदान्साध्यवान् यो घटादिवृतः(स एव)प्रत्यवधित्वेन भेदो विद्यते यस्य साध्यवतः सतहदुतावधिभेदी तस्मात्। एतेन सपक्षस्यैव पक्षत्वमिति सूचितम् । तथा च विपक्षवर्गादेकोद्धाराभावेन असङ्गतत्वं परिहृतम् । यतोऽप्यत्र अन्यत्वं अन्य तमत्वं विवक्षितम् । अन्यतमत्वं च त्रयापेक्षया एकस्यापि भवति, व्योरपि भवति, व्यक्तिभेदेन त्रयाणामपि भवति । तत्र द्वयोरप्येकोद्धारः संभवत्येवेति. न दोषः कश्चित् । एकैकेति वीप्सायाश्चरितार्थत्वात् । तथा चायमर्थः पर्यवसितः स्यात् । एतद्धटाकुरादन्यद्विश्वं तस्मादन्यत्सकर्तृकम् । एतद्द्यान्यतमत् । तद न्यत्वे साध्यत्वे घटः स्वरूपाद्भिन्नः इति विरुद्धम् । अतोऽड्डरात्सकर्तृकादन्यः इति परिशेषादागच्छति । ___ अथ पदयोजना-अत्र पक्षापक्षविपक्षान्यवर्गादेकैकमुद्धृतमिति एतद्धटाकुरान्यान्येत्यनेन व्याख्यातम् । भिन्नमित्युद्धृतविशेषणेन उद्धृतयोरेव पक्षसपक्षयोरेव प्रतियोगित्वख्यापनान्मध्यगतान्यपवयोपादानमपि सूचितमिति पदयोजना। १ साध्ये घ इति खपुस्तकपाटा । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260