Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 235
________________ महाविद्याविवरणम् । १७७ अयमर्थः-अन्यत्र वर्तते इत्यन्यवृत्तिः। नान्यवृत्तिः अनन्यवृत्तिः। एकवृत्तिरित्यर्थः । तस्य भावोऽनन्यवृत्तित्वम् । स्वीकृतं च तदनन्यवृत्तित्वं चेति स्वीकृतानन्यवृत्तित्वम् । तेन स्वीकृतानन्यवृत्तित्वेन संपन्नं स्वीकृतानन्यवृत्तित्वसंपन्नम् । स्वीकृतं प्रतिवादिनैव । एकस्यामेवाकाशव्यक्तौ वर्तनात् । तस्मास्वीकृतानन्यवृत्तित्वसंपन्नादन्यत्वसाधनं क्रियते इत्यर्थः। (अथ सप्तमानुमानम्।) (भुवन०)-इदानीं भेदसाधकं प्रकारं दर्शयतीति । अयमर्थः-एकत्वेनाङ्गीकृतस्याकाशादेः पदार्थस्य भेदं भिन्नत्वं दर्शयति कारिकार्द्धन-स्वीकृतेतीति । ___स्वीकृतानन्यवृत्तित्वसंपन्नान्यत्वसाधनम् ॥ ७ ॥ यस्मात् शब्दः आकाशे एव वर्तते नान्यत्र, तस्मात् शब्दः अनन्यवृत्तिरुच्यते । तस्य भावः अनन्यवृत्तित्वम् । स्वीकृतमनन्यवृत्तित्वं यस्य शब्दस्य स स्वीकृतानन्यवृत्तित्वः, तेन सम्पन्नं यदाकाशं तस्मात् स्वीकृतानन्यवृत्तित्वसम्पन्नात् । अन्यत्वसाधनमाकाशबहुत्वसाधनं क्रियते इत्यर्थः । अथानुमानम्-शब्दाधिकरणं शब्दाधिकरणादन्यत् मेयत्वात् घटवत् । अथ पदयोजना-शब्दाधिकरणादिति अनेन स्वीकृतानन्यवृत्तित्व. संपन्नेति व्याख्यातम् । अन्यदित्यनेन अन्यत्वसाधनमिति व्याख्यातम् । अत्रैकैकपदोपादाने साकाङ्क्षत्वेन प्रतिज्ञाया निरर्थकत्वात् पदवयोपादानम् । न व्यावृत्त्यान्तरमस्ति । भेदप्रसाधनप्रकारदर्शनमात्रमेतत्, न तु भेदसाधनम् । अपसिद्धान्तप्रसङ्गात् । इति सप्तमानुमानम् ॥ ७॥ (भुवन० )-अत्रैकैकपदोपादाने साकासत्वेनेत्यादि । यदि शब्दाधिकरणमन्यदिति क्रियते, तदा शब्दाधिकरणमाकाशं कस्मादन्यदिति साकाङ्कता । तथा यदि शब्दाधिकरणमिति पदं विमुच्य शब्दाधिकरणादन्यदिति क्रियते, तदा शब्दाधिकरणादाकाशात् किमन्यदित्यत्रापि साकाङ्कत्वम् । ततः साकाङ्कत्वेन प्रतिज्ञा निरर्थका भवेत् । अतः शब्दाधिकरणं शब्दाधिकरणादन्यदिति पदद्वयोपादानम् । न व्यावृत्त्यान्तरमस्तीत्यादि । अत्रानुमाने व्यावृत्तिः कृतैव, व्यावृत्त्यान्तरमन्यव्यावृत्त्यहँ नास्तीत्यर्थः । भेदसाधनप्रकारदर्शनेत्यादि । अयं भेदसाधनस्य प्रकारः। यत्र कुत्रापि भेदः साध्यते तत्रायं भेदसाधनोपायः । आकाशे तु भेदसाधने अपसिद्धान्तत्वं स्यात् । वैशेषिकादिसिद्धान्ते तत्राभेदस्यैव दर्शितत्वात् ।। अथास्यानुमानस्य व्याख्या-अत्र शब्दाधिकरणं गगनमिति पक्षः। शब्दाधिकरणाद्गगनादन्यदिति साध्यो धर्मः । मेयत्वादिति हेतुः । यत्र यत्र मेयत्वं तत्र तत्र शब्दाधिकरणादन्यत्वम् । यथा घटपटादिषु । यथा घटपटादयो मेयाः सन्तः शब्दाधिकरणादन्ये, एवं शब्दाधिकरणमपि शब्दाधिकरणादन्यत् । अत्र च तदेव शब्दाधिकरणं तस्मादेव शब्दाधिकरणादन्यदिति व्याघातः । १"सिद्धान्तेन तत्रा इति ख पुस्तकपाठः । २३ महाविद्या. Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260