Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
महाविद्याविवरणम् ।
१७५ (भुवन०)-अथ अनित्यवृत्तिपदं विमुच्य शब्दपदं प्रक्षिप्य च व्यावृत्तिचिन्तां करोतिशब्दाशब्दावृत्तिधर्मवानिति । एवं च क्रियमाणे शब्दत्वेनैव सिद्धसाधनम् । तस्य युगलावृत्तित्वेन शब्दाशब्दावृत्तिधर्मत्वं विद्यते एव । तन्निवृत्त्यर्थमनित्यवृत्तिपदग्रहणम् । __अथानुमानम्-शब्दः शब्दाशब्दावृत्त्यनित्यवृत्तिधर्मवान् मेयत्वात् घटवत् आकाशादिवद्वा । अत्र अशब्दशब्देन नित्यानित्यरूपं विश्वम् । तत्र केवले शब्दे ये धर्माः, शब्दव्यतिरिक्ते केवले नित्यानित्यरूपे विश्वे च ये धर्मास्ते युगलावृत्तित्वेन शब्दाशब्दावृत्तयो भवन्ति । तत्र ये शब्दव्यतिरिक्तानां धर्मास्तेषां शब्दे साधने व्याघातः । तस्माच्छब्दधर्माः श्रावणत्वशब्दत्वादयोऽत्र साध्याः। तेषां चानित्यवृत्तित्वं तदैव, यद्यनित्यः शब्दः स्यात् । दृष्टान्तीभूतघटाकाशादौ तद्धमेषु च सर्वत्र शब्दान्यत्वधर्मेण व्याप्तिः । तस्य चाशब्दे वर्तनात् , शब्दे चावर्तनात्, शब्दाशब्दावृत्तित्वमनित्यवृत्तित्वं चास्ति । इति पश्चमानुमानम् ॥
(अथ षष्ठानुमानम् ।) एवमन्वयमुखेन अनित्यत्वसाधकप्रकारानुक्त्वा व्यतिरेकमुखेनाह
६ तत्तादात्म्यनिषेधान्यतत्स्थाभावविरोधिता। नित्यत्वं स्वप्रतियोगिकान्योन्याभावातिरिक्तशब्दगताभावप्रतियोगि।
तेन नित्यत्वेन सह तादात्म्यनिषेधोऽन्योन्याभावः । शब्दस्येति ज्ञेयः शब्दो नित्यत्वं न भवतीति स्वरूपः । तस्मादन्योन्याभावात् अन्यो यः, तत्स्थाभावः संसर्गाभावः शब्दे नित्यत्वं नास्तीतिस्वरूपः, तद्विरोधिता तस्मिन् प्रतियोगिता साध्यते । नित्यत्वस्येति शेषः । इति कारिकार्थः ।
इदानी पदयोजना-अत्र स्वप्रतियोगिकान्योन्याभावातिरिक्तेत्यनेन तत्तादात्म्यनिषेधान्येति व्याख्यातम् । शब्दगताभावप्रतियोगीत्यनेन तत्स्थाभावविरोधितेति व्याख्यातमिति योजना ॥
(अथ षष्ठानुमानम् ।) (भुवन०)-एवमन्वयमुखेना नित्यत्वसाधकप्रकारानुक्त्वा व्यतिरेकमुखेन साध्याभावं पक्षीकृत्य प्रवर्तमानमहाविद्यावाचककारिकार्द्ध व्याख्यातुमाह-तत्तादात्म्येतीति ।
___" तत्तादात्म्यनिषेधान्यतत्स्थाभावविरोधिता " ॥ ६ ॥ एतद्व्याख्या वृत्तावुक्तैव । किञ्चित्सविस्तरा प्रोच्यते । तेन नित्यत्वेन सह शब्दस्य यस्तादाम्यनिषेधोऽन्योन्याभावः शब्दो नित्यत्वं न भवतीतिरूपः । “ तादात्म्यनिषेधोऽन्योन्याभावः " इति तल्लक्षणात् । एतावता तादात्म्यनिषेधशब्देन अन्योन्याभावः उक्तः । तस्मादन्यः अभावः । स च कः इत्याह-तत्स्थेति । तत्र शब्दे तिष्ठतीति तत्स्थः । स चासावभावश्च तत्स्थाभावः । तत्तादात्म्यनिषेधान्यश्चासौ तत्स्थाभावश्च । एवंविधश्चाभावः कः इत्याह-संसर्गाभावः इति । संसर्गाभावोऽत्यन्ताभावः । स च शब्दे नित्यत्वं नास्तीति स्वरूपः । तद्विरोधितेति । तस्मिन्प्रति
१ ज्ञेयम् । श इति ख पुस्तकेतर पुस्तकपाठः ।
Aho! Shrutgyanam
Loading... Page Navigation 1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260