Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 232
________________ १७४ पुनरपि र्षमाह— भुवनसुन्दर सूरिकृतटिप्पनसमेतम् । ( अथ पञ्चमानुमानम् ) शब्दानित्यत्वसाधनप्रकारमाचक्षाणं संग्राहकं कारिकोत्तरा ५ पक्षापक्षगतादन्यत्साध्यवद्वृत्ति पक्षगम् ॥ ४ ॥ शब्दः शब्दाशब्दावृत्त्यनित्यवृत्तिधर्मवान् । अयमर्थः - पक्षी वास्तवः शब्दः एव । अपक्ष: सपक्षविपक्षसाधारणः, तद्गतं तद्वृत्ति यद्धर्मान्तरं तस्मादन्यत् पक्षापक्षगतादन्यत् । तत्साध्यते इति संबन्धः । किम्भूतम् । साध्यवद्वृत्ति सपक्षवृत्ति । पुनः किम्भूतम् । पक्षगं वास्तवपक्षनिष्ठमित्यर्थः । ( अथ पञ्चमानुमानम् । ) ( भुवन० ) - अथ जातिसाधनच्छलेन अभीष्टसाधकं प्रकारं प्रदर्श्य पुनरपि शब्दानित्यत्वा'दिसाधकं कारिकोत्तरार्द्धं व्याकर्तुमाह — पक्षापक्षेतीति । पक्षापक्षगतादन्यत्साध्यवद्वृत्ति पक्षगम् " ॥ ५ ॥ पक्षी वास्तवः शब्दः एव । अपक्ष: सपक्षविपक्षरूपः, तद्वर्ति यद्धर्मान्तरं तस्मादन्यत् । एतावता त्रये यन्न वर्तते द्वये तु वर्तते एव, तत्पक्षगं वास्तवपक्षनिष्ठं साध्यते इति संबन्धः । अथ योजना - शब्दाशब्दावृत्तीत्यनेन पक्षापक्षगतादन्यदिति व्याख्यातम् । अनित्यवृत्तीत्यनेन साध्यवद्वृत्तीति । एवं च पक्षसपक्षविपक्षमेलके न वर्तते, सपक्षे च वर्तते । पक्षनिष्ठं च तदनित्यत्वमेव पर्यवस्यति । ( भुवन० ) - तथापि ध्वनिशब्दयोरित्यादि । शब्दः अशब्दावृत्त्यनित्यवृत्तिधर्मवानिति प्रतिज्ञायां ध्वनिशब्दयोर्ध्वनिशब्दान्यविश्वप्रतियोगिको योऽन्योन्याभावः तेन सिद्धसाधनम् । तस्य अशब्द शब्दव्यतिरिक्तं विश्वं तत्रावर्तनादनित्ये ध्वनौ वर्तनाच्च । अत्र ध्वनिशब्देनावर्णात्मकाः निर्झरझात्कारचीत्कारपशुशब्दादयो गृह्यन्ते । ते चानित्या भाद्वैरप्यङ्गीक्रियन्ते । 66 - अथ व्यावृत्त्यचिन्ता – तत्र अनित्यवृत्तिधर्मवानिति कृते सत्तादिभिः सिद्धसाधनम् । तदर्थमशब्दावृत्त्यनित्यवृत्तिधर्मवानिति कृतम् । तथापि ध्वनिशब्दयोरन्योन्याभावः अशब्दवृत्तिर्भवति, अनित्ये ध्वनौ च वर्तते । अतस्तेन सिद्धसाधनम् । तदर्थं शब्देति पदं कृतम् । शब्दाशब्दावृत्तिधर्मवानित्येतावन्मात्रे च क्रियमाणे शब्दत्वेनैव सिद्धसाधनम् । तदर्थमनित्यवृत्तिपदग्रहणम् । इति पञ्चमानुमानम् ॥ १ यत्वप्रका इति कख पुस्तकपाठः । २ 'विपक्षसाधारणः, तद्वर्ति' इति ख पुस्तकपाठः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260