SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १७४ पुनरपि र्षमाह— भुवनसुन्दर सूरिकृतटिप्पनसमेतम् । ( अथ पञ्चमानुमानम् ) शब्दानित्यत्वसाधनप्रकारमाचक्षाणं संग्राहकं कारिकोत्तरा ५ पक्षापक्षगतादन्यत्साध्यवद्वृत्ति पक्षगम् ॥ ४ ॥ शब्दः शब्दाशब्दावृत्त्यनित्यवृत्तिधर्मवान् । अयमर्थः - पक्षी वास्तवः शब्दः एव । अपक्ष: सपक्षविपक्षसाधारणः, तद्गतं तद्वृत्ति यद्धर्मान्तरं तस्मादन्यत् पक्षापक्षगतादन्यत् । तत्साध्यते इति संबन्धः । किम्भूतम् । साध्यवद्वृत्ति सपक्षवृत्ति । पुनः किम्भूतम् । पक्षगं वास्तवपक्षनिष्ठमित्यर्थः । ( अथ पञ्चमानुमानम् । ) ( भुवन० ) - अथ जातिसाधनच्छलेन अभीष्टसाधकं प्रकारं प्रदर्श्य पुनरपि शब्दानित्यत्वा'दिसाधकं कारिकोत्तरार्द्धं व्याकर्तुमाह — पक्षापक्षेतीति । पक्षापक्षगतादन्यत्साध्यवद्वृत्ति पक्षगम् " ॥ ५ ॥ पक्षी वास्तवः शब्दः एव । अपक्ष: सपक्षविपक्षरूपः, तद्वर्ति यद्धर्मान्तरं तस्मादन्यत् । एतावता त्रये यन्न वर्तते द्वये तु वर्तते एव, तत्पक्षगं वास्तवपक्षनिष्ठं साध्यते इति संबन्धः । अथ योजना - शब्दाशब्दावृत्तीत्यनेन पक्षापक्षगतादन्यदिति व्याख्यातम् । अनित्यवृत्तीत्यनेन साध्यवद्वृत्तीति । एवं च पक्षसपक्षविपक्षमेलके न वर्तते, सपक्षे च वर्तते । पक्षनिष्ठं च तदनित्यत्वमेव पर्यवस्यति । ( भुवन० ) - तथापि ध्वनिशब्दयोरित्यादि । शब्दः अशब्दावृत्त्यनित्यवृत्तिधर्मवानिति प्रतिज्ञायां ध्वनिशब्दयोर्ध्वनिशब्दान्यविश्वप्रतियोगिको योऽन्योन्याभावः तेन सिद्धसाधनम् । तस्य अशब्द शब्दव्यतिरिक्तं विश्वं तत्रावर्तनादनित्ये ध्वनौ वर्तनाच्च । अत्र ध्वनिशब्देनावर्णात्मकाः निर्झरझात्कारचीत्कारपशुशब्दादयो गृह्यन्ते । ते चानित्या भाद्वैरप्यङ्गीक्रियन्ते । 66 - अथ व्यावृत्त्यचिन्ता – तत्र अनित्यवृत्तिधर्मवानिति कृते सत्तादिभिः सिद्धसाधनम् । तदर्थमशब्दावृत्त्यनित्यवृत्तिधर्मवानिति कृतम् । तथापि ध्वनिशब्दयोरन्योन्याभावः अशब्दवृत्तिर्भवति, अनित्ये ध्वनौ च वर्तते । अतस्तेन सिद्धसाधनम् । तदर्थं शब्देति पदं कृतम् । शब्दाशब्दावृत्तिधर्मवानित्येतावन्मात्रे च क्रियमाणे शब्दत्वेनैव सिद्धसाधनम् । तदर्थमनित्यवृत्तिपदग्रहणम् । इति पञ्चमानुमानम् ॥ १ यत्वप्रका इति कख पुस्तकपाठः । २ 'विपक्षसाधारणः, तद्वर्ति' इति ख पुस्तकपाठः । Aho! Shrutgyanam
SR No.034203
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorBhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy