________________
महाविद्याविवरणम् ।
१४३ तथापि घटत्वादीनामित्यादि । घटत्वं गन्धवति घटे वर्तमानं विद्यते, अगन्धवत्सु च जलादौ अवर्तमानम् । ततो युगलावृत्तित्वेन तस्य गन्धवदगन्धावृत्तित्वं विद्यते एव । सत्तेन सिद्धसाधनमित्यर्थः। तदर्थं गन्धवद्वृत्त्यवृत्तिमन्तः इत्युक्तमिति । एवं चोक्ते गन्धवन्तो गन्धवदगन्धावृत्तिगन्धवद्वत्त्यवत्तिमन्तः इति प्रतिज्ञा जाता । एवमप्युक्ते च घटत्वादिभिरेव सिद्धसाध्यता । तेषां गन्धवदगन्धयुगलावृत्तित्वात् । गन्धवत्सु घटादिषु वर्तनेन गन्धवत्सु एव पटादिषु च अवर्तनेन गन्धवद्वृत्त्यवृत्तित्वाच्च, तदर्थमन्येति । तथा च गन्धवन्तो गन्धवदगन्धावृत्तिगन्धवद्वृत्त्यन्यवन्तः इति सम्पूर्णा प्रतिज्ञा जाता।
अथ गन्धवदगन्धावृत्तीति पदं मुक्त्वा गन्धवद्वृत्त्यवृत्त्यन्यवन्तः इति ग्रहणेन व्यावृत्तिचिन्तां करोति । तथा च करणे द्रव्यत्वेनैव सिद्धसाधनमित्याह-द्रव्यत्वादिभिरेव सिद्धसाधनमिति । द्रव्यत्वस्य गन्धक्त्सु सर्वेषु वर्सनेन गन्धवद्वृत्त्यवृत्त्यन्यत्वात् , तदर्थ गन्धवद्वत्तीति । एवं च कृते गन्धवन्तो गन्धवदवृत्तिगन्धवद्वृत्त्यवृत्त्यन्यवन्तः इति प्रतिज्ञा जाता । तथा सति विरोध इति । अत्र वृत्त्यवृत्त्यन्य इति पदस्यार्थद्वयम् । यो गन्धवत्सु वर्तते एव, यश्च न वर्तते एव, तौ द्वावपि वृत्त्यवृत्त्यन्यपदेन सङ्गहीतौ भवतः । तत्र यो गन्धवत्सु वर्तते एव स गन्धवदवृत्तिरित्युच्यमाने विरोधः पौनरुक्त्यं चेति । यश्च गन्धवत्सु न वर्तते एव स गन्धवदवृत्तिरित्युच्यमाने पौनरुक्त्यं । गन्धवदवृत्तिगन्धवद्वत्त्यवृत्त्यन्यपदयोर्मध्ये एकेनैव साध्यसिद्धेः । आकाशे च गन्धवदगन्धावृत्तीत्यादि । आकाशे च दृष्टान्तीक्रियमाणे एवंविधः शब्दः एव । तस्य गन्धवत्सु अवर्तनेन अगन्धवत्सु च वर्त्तनेन गन्धवदगन्धावृत्तित्वं विद्यते एव । तथा तस्य गन्धवद्वत्त्यवृत्यन्यत्वं चाप्यस्ति । अगन्धक्त्सु एव वर्तनात् । एवमात्मादिरपि गन्धवत्त्वरहितः सवोंऽपि पदार्थो दृष्टान्तत्वेन ज्ञेयः शब्दाश्रयभावः इति । शब्दस्य आश्रयः आधारः शब्दाश्रय आकाशः । शब्दाश्रयस्य भावः स्वरूपं शब्दाश्रयभावः आकाशत्वमित्यर्थः ।
- अथैतस्यानुमानस्य व्याख्या । गन्धवन्तः सर्वे भूभेदाः । ते च जलानिलादिपदार्थाष्टकं वर्जयित्वा सर्वेऽपि ज्ञेयाः । तेषु भूभेदेषु धर्मों वर्तमानः जलादिषु अवर्तमानश्च स युगलावृत्तित्वेन गन्धक्दगन्धावृत्तिः । पुनरपि च स किंविशिष्टः । गन्धवत्सु वृत्तिरवृत्तिश्च यस्य धर्मस्य ततोऽन्यः । ततो गन्धवदगन्धावृत्तिश्चासौ गन्धवद्वत्त्यवृत्त्यन्यश्चेति विग्रहः । एवंविधो धर्मो गन्धवत्सु साध्यते । स च धर्मः पृथिवीत्वमेव । तच्च गन्धवत्सु वर्तनेन अगन्धवत्सु चावर्तनेन गन्धवदगन्धयुगलावृत्ति । तथा गन्धवत्सु तस्य वर्तनावर्तनं नास्ति, किन्तु वर्तनमेव । एवं सति दृष्टान्ते जलादी जलत्वादिः आकाशादौ शब्दाश्रयत्वादिश्च धर्मो ज्ञेयः । अत्र च यन्मुख्यानुमानमाश्रित्यैषा महाविद्या प्रवृत्ता तदुच्यते । तथाहि-पृथ्वी द्रव्यत्वावान्तरजातिमती मूर्तद्रव्यत्वात् जलवत् इति मुख्यानुमानम् । गन्धवत्त्वेन गन्धवनिष्ठसङ्घयया गन्धवव्यतिरिक्तविश्वप्रतियोगिकात्यन्ताभावेन च सिद्धसाध्यतादोषादियं महाविद्या कुशलतरैः प्रयत्नतश्चिन्तनीया । एवं तेजस्त्वाद्यनुमानमूद्यमिति । यथा पृथिवीत्वं तथा तेजस्सु तेजस्त्वं साध्यम् । तथाहि-उष्णवन्तः उष्णवदनुष्णावृत्त्युष्णवद्वत्त्यवृत्त्यन्यवन्तः मेयत्वात् घटवत् । अत्रैवंविधो धर्मस्तेजस्त्वं औष्ण्यं वा साध्यम् । एवं वायौ वायुत्वं जले स्नेहादि च विप्रतिपत्तौ साध्यम् । इति चतुर्थानुमानव्याख्यानम् ॥
Aho ! Shrutgyanam