________________
भुवनसुन्दरसूरिकृतटिप्पनसमेतम् ।
“ पक्षापक्षगतादन्यत्साध्यवधवर्जितम् ॥ ४॥ पक्षो वास्तवः इत्यादि । पक्षो धर्मी, अपक्षो विपक्षः, तत्र मिलिते गतं गमनं यस्य तस्मादन्यद्धर्मान्तरं साध्यते । अयमर्थ:-गन्धवन्तः पक्षः, तदन्योऽपक्षः, तदुभयवृत्तिमेयत्वादिः तस्मादन्यदभिप्रेतं साध्यं पृथिवीत्वं घटादौ साध्यते । साध्यवद्वैधवर्जितमिति । साध्यवान्पक्षः, तत्र यद्वैधं वृत्तिरवृत्तिश्च, तद्वर्जितं वर्तमानावर्तमानत्वरहितं, तत्पक्षेऽस्तीति वाक्यशेषः । यद्वा पूर्वश्लोकगतं 'अस्ति पक्षिते ' इत्यनुवर्तते । तद्वा पक्षगमित्यप्रेतनं संबध्यते ।
अथ व्यावृत्त्यचिन्ता-गन्धवन्तो गन्धववृत्तिमन्तः इति कृते तट्ट. त्तिना धर्मेण सिद्धसाधनम् । तदर्थमगन्धववृत्तिमन्तः इत्युक्तम् । एतावन्मात्रे च क्रियमाणे सत्तादिभिः साधारणैर्धमैंः सिद्धसाध्यता, असाधरणैश्च विरोधः। तदर्थमुभयपदग्रहणम् । तथापि उभयवृत्तिधर्मेण सिद्धसाधनम् । तदर्थमवृत्तिपदग्रहणम् । तथापि घटत्वादीनां गन्धवत्त्वनिष्ठानां तथात्वात् तैः सिद्धसाधनम् । तदर्थं गन्धववृत्त्यवृत्तिमन्तः इत्युक्तम् । तथापि स्वव्यक्तिमात्रनिष्ठानां घटत्वादीनां पटादिष्ववृत्तिरपि विद्यते । तदर्थमन्येति पदम् । गन्धववृत्त्यवृत्त्यन्यवन्तः इत्येतावन्मात्रे च क्रियमाणे द्रव्यत्वादिभिरेव सिडसाधनम् । तदर्थं गन्धववृत्तीत्युक्तम् । तथा सति विरोधः एव स्यात्पौनरुत्त्यं वा । वृत्त्यवृत्त्यन्येति पदस्य उभयार्थत्वात् । तदर्थमगन्धेतिपदप्रक्षेपः । आकाशे च गन्धवद्गन्धावृत्तिगन्धववृत्त्यवृत्त्यन्यः शब्दः एव शब्दाश्रयभावो वा । यतो वृत्त्यवृत्त्यन्येति पदस्थार्थो वेधानामुभयावृत्तित्वं विद्यते । तदर्थं गन्धवदगन्धावृत्ति वर्तते एव न वर्तते एव वा । शब्दस्तु गन्धवति न वर्तते एवेति सर्वमवदातम् । एवं तेजस्त्वायनुमानमूह्यम् । तथाहि-उष्णवन्तः उष्णवदनुष्णावृत्त्युष्णवठ्ठत्यवृत्त्यन्यधर्मवन्तः मेयत्वात् घटवदित्यादि । इति चतुर्थोदाहरणम् ॥
(भुवन०) अथानुमानम्-गन्धवन्तो गन्धवदगन्धावृत्तिगन्धवद्वत्त्यवृत्त्यन्यवन्तः मेयत्वात् आकाशवत् । गन्धवन्तो गन्धवदृत्तिमन्तः इति कृते तद्वृत्तिनेत्यादि । तद्वृत्ति गन्धवद्वृत्ति गन्धक्त्त्वं । तेन सिद्धसाधनम् । तदर्थमगन्धवद्वत्तिमन्तः इत्युक्तमिति । एवं च गन्धवन्तः अगन्धवत्तिमन्तः इति कृते सत्तादिभिः साधारणैधः सिद्धसाध्यता । गन्धवत्सु अगन्धवत्सु च सत्ताया विद्यमानत्वात् । असाधारणैरिति । असाधारणा ये जलधर्माः शीतस्पर्शवत्त्वादयः, तेजोधर्मा उष्णत्वादयः, तैर्विरोधः । गन्धवत्सु तेषामभावात् । तथापि उभयवृत्तिधर्मेण सिद्धसाधनमिति। अयमर्थः । गन्धवन्तो गन्धवदगन्धवृत्तिमन्तः इति कृते उभयवृत्तिना सत्तादिना सिद्धसाधनम् । तदर्थमवृत्तिपदग्रहणमिति । अवृत्तिग्रहणे कृते च गन्धवन्तो गन्धवदगन्धावृत्तिमन्तः इति जातम् ।
१ एव शाब्दां इति ख पुस्तकपाठः । २ न्यन्यवन्तः इति न पुस्तकपाठः। ३ 'चतुर्थानुमानम् इति क ख पुस्तकपाठः।
Aho ! Shrutgyanam