Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 230
________________ भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । “ पक्षापक्षगतादन्यत्साध्यवधवर्जितम् ॥ ४॥ पक्षो वास्तवः इत्यादि । पक्षो धर्मी, अपक्षो विपक्षः, तत्र मिलिते गतं गमनं यस्य तस्मादन्यद्धर्मान्तरं साध्यते । अयमर्थ:-गन्धवन्तः पक्षः, तदन्योऽपक्षः, तदुभयवृत्तिमेयत्वादिः तस्मादन्यदभिप्रेतं साध्यं पृथिवीत्वं घटादौ साध्यते । साध्यवद्वैधवर्जितमिति । साध्यवान्पक्षः, तत्र यद्वैधं वृत्तिरवृत्तिश्च, तद्वर्जितं वर्तमानावर्तमानत्वरहितं, तत्पक्षेऽस्तीति वाक्यशेषः । यद्वा पूर्वश्लोकगतं 'अस्ति पक्षिते ' इत्यनुवर्तते । तद्वा पक्षगमित्यप्रेतनं संबध्यते । अथ व्यावृत्त्यचिन्ता-गन्धवन्तो गन्धववृत्तिमन्तः इति कृते तट्ट. त्तिना धर्मेण सिद्धसाधनम् । तदर्थमगन्धववृत्तिमन्तः इत्युक्तम् । एतावन्मात्रे च क्रियमाणे सत्तादिभिः साधारणैर्धमैंः सिद्धसाध्यता, असाधरणैश्च विरोधः। तदर्थमुभयपदग्रहणम् । तथापि उभयवृत्तिधर्मेण सिद्धसाधनम् । तदर्थमवृत्तिपदग्रहणम् । तथापि घटत्वादीनां गन्धवत्त्वनिष्ठानां तथात्वात् तैः सिद्धसाधनम् । तदर्थं गन्धववृत्त्यवृत्तिमन्तः इत्युक्तम् । तथापि स्वव्यक्तिमात्रनिष्ठानां घटत्वादीनां पटादिष्ववृत्तिरपि विद्यते । तदर्थमन्येति पदम् । गन्धववृत्त्यवृत्त्यन्यवन्तः इत्येतावन्मात्रे च क्रियमाणे द्रव्यत्वादिभिरेव सिडसाधनम् । तदर्थं गन्धववृत्तीत्युक्तम् । तथा सति विरोधः एव स्यात्पौनरुत्त्यं वा । वृत्त्यवृत्त्यन्येति पदस्य उभयार्थत्वात् । तदर्थमगन्धेतिपदप्रक्षेपः । आकाशे च गन्धवद्गन्धावृत्तिगन्धववृत्त्यवृत्त्यन्यः शब्दः एव शब्दाश्रयभावो वा । यतो वृत्त्यवृत्त्यन्येति पदस्थार्थो वेधानामुभयावृत्तित्वं विद्यते । तदर्थं गन्धवदगन्धावृत्ति वर्तते एव न वर्तते एव वा । शब्दस्तु गन्धवति न वर्तते एवेति सर्वमवदातम् । एवं तेजस्त्वायनुमानमूह्यम् । तथाहि-उष्णवन्तः उष्णवदनुष्णावृत्त्युष्णवठ्ठत्यवृत्त्यन्यधर्मवन्तः मेयत्वात् घटवदित्यादि । इति चतुर्थोदाहरणम् ॥ (भुवन०) अथानुमानम्-गन्धवन्तो गन्धवदगन्धावृत्तिगन्धवद्वत्त्यवृत्त्यन्यवन्तः मेयत्वात् आकाशवत् । गन्धवन्तो गन्धवदृत्तिमन्तः इति कृते तद्वृत्तिनेत्यादि । तद्वृत्ति गन्धवद्वृत्ति गन्धक्त्त्वं । तेन सिद्धसाधनम् । तदर्थमगन्धवद्वत्तिमन्तः इत्युक्तमिति । एवं च गन्धवन्तः अगन्धवत्तिमन्तः इति कृते सत्तादिभिः साधारणैधः सिद्धसाध्यता । गन्धवत्सु अगन्धवत्सु च सत्ताया विद्यमानत्वात् । असाधारणैरिति । असाधारणा ये जलधर्माः शीतस्पर्शवत्त्वादयः, तेजोधर्मा उष्णत्वादयः, तैर्विरोधः । गन्धवत्सु तेषामभावात् । तथापि उभयवृत्तिधर्मेण सिद्धसाधनमिति। अयमर्थः । गन्धवन्तो गन्धवदगन्धवृत्तिमन्तः इति कृते उभयवृत्तिना सत्तादिना सिद्धसाधनम् । तदर्थमवृत्तिपदग्रहणमिति । अवृत्तिग्रहणे कृते च गन्धवन्तो गन्धवदगन्धावृत्तिमन्तः इति जातम् । १ एव शाब्दां इति ख पुस्तकपाठः । २ न्यन्यवन्तः इति न पुस्तकपाठः। ३ 'चतुर्थानुमानम् इति क ख पुस्तकपाठः। Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260